[वै] ततः परभाते राजा स धृतराष्ट्रॊ ऽमबिका सुतः आहूय पाण्डवान वीरान वनवास कृतक्षणः ॥ 1 ॥
गान्धारी सहितॊ धीमान अभिनन्द्य यथाविधि कार्त्तिक्यां कारयित्वेष्टिं बराह्मणैर वेदपारगैः ॥ 2 ॥
अग्निहॊत्रं पुरस्कृत्य वल्कलाजिनसंवृतः वधू परिवृतॊ राजा निर्ययौ भवनात ततः ॥ 3 ॥
ततः सत्रियः कुरव पाण्डवानां; याश चाप्य अन्याः कौरव राजवंश्याः तासां नादः परादुरासीत तदानीं; वैचित्रवीर्ये नृपतौ परयाते ॥ 4 ॥
ततॊ लाजैः सुमनॊभिश च राजा; विचित्राभिस तद्गृहं पूजयित्वा संयॊज्यार्थैर भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः ॥ 5 ॥
ततॊ राजा पराञ्जलिर वेपमानॊ; युधिष्ठिरः सस्वनं बाष्पकण्ठः विलप्यॊच्चैर हा महाराज साधॊ; कव गन्तासीत्य अपतत तात भूमौ ॥ 6 ॥
तथार्जुनस तीव्रदुःखाभितप्तॊ; मुहुर मुहुर निःश्वसन भरताग्र्यः युधिष्ठिरं मैवम इत्य एवम उक्त्वा; निगृह्याथॊदीधरत सीदमानः ॥ 7 ॥
वृकॊदरः फल्गुनश चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश च वैश्यापुत्रः सहितॊ गौतमेन; धौम्यॊ विप्राश चान्वयुर बाष्पकण्ठाः ॥ 8 ॥
कुन्ती गान्धारीं बद्धनेत्रां वरजन्तीं; सकन्धासक्तं हस्तम अथॊद्वहन्ती राजा गान्धार्याः सकन्धदेशे ऽवसज्य; पाणिं ययौ धृतराष्ट्रः परतीतः ॥ 9 ॥
तथा कृष्णा दरौपदी यादवी च; बालापत्या चॊत्तरा कौरवी च चित्राङ्गदा याश च काश चित सत्रियॊ ऽनयाः; सार्धं राज्ञा परस्थितास ता वधूभिः ॥ 10 ॥
तासां नादॊ रुदतीनां तदासीद; राजन दुःखात कुररीणाम इवॊच्चैः ततॊ निष्पेतुर बराह्मणक्षत्रियाणां; विट शूद्राणां चैव नार्यः समन्तात ॥ 11 ॥
तन निर्याणे दुःखितः पौरवर्गॊ; गहाह्वये ऽतीव बभूव राजन यथापूर्वं गच्छतां पाण्डवानां; दयूते राजन कौरवाणां सभायाम ॥ 12 ॥
या नापश्यच चन्द्रमा नैव सूर्यॊ; रामाः कदा चिद अपि तस्मिन नरेन्द्रे महावनं गच्छति कौरवेन्द्रे; शॊकेनार्ता राजमार्गं परपेदुः ॥ 13 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 21
Reach this point to mark the section finished.
Continue to अध्याय 22