[वै] विदुरेणैवम उक्तस तु धृतराष्ट्रॊ जनाधिपः परीतिमान अभवद राजा राज्ञॊ जिष्णॊश च कर्मणा ॥ 1 ॥
ततॊ ऽभिरूपान भीष्माय बराह्मणान ऋषिसत्तमान पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥ 2 ॥
कारयित्वान्न पानानि यानान्य आच्छादनानि च सुवर्णमणिरत्नानि दासीदास परिच्छदान ॥ 3 ॥
कम्बलाजिन रत्नानि गरामान कषेत्रान अजाविकम अलंकारान गजान अश्वान कन्याश चैव वरस्त्रियः आदिश्यादिश्य विप्रेभ्यॊ ददौ स नृपसत्तमः ॥ 4 ॥
दरॊणं संकीर्त्य भीष्मं च सॊमदत्तं च बाह्लिकम दुर्यॊधनं च राजानं पुत्रांश चैव पृथक पृथक जयद्रथ पुरॊगाश च सुहृदश चैव सर्वशः ॥ 5 ॥
स शराद्धयज्ञॊ ववृधे बहु गॊधनदक्षिणः अनेकधनरत्नौघॊ युधिष्ठिर मते तदा ॥ 6 ॥
अनिशं यत्र पुरुषा गणका लेखकास तथा युधिष्ठिरस्य वचनात तद आपृच्छन्ति तं नृपम ॥ 7 ॥
आज्ञापय किम एतेभ्यः परदेयं दीयताम इति तद उपस्थितम एवात्र वचनान्ते परदृश्यते ॥ 8 ॥
शते देये दशशतं सहस्रे चायुतं तथा दीयते वचनाद राज्ञः कुन्तीपुत्रस्य धीमतः ॥ 9 ॥
एवं स वसु धाराभिर वर्षमाणॊ नृपाम्बुदः तर्पयाम आस विप्रांस तान वर्षन भूमिम इवाम्बुदः ॥ 10 ॥
ततॊ ऽनन्तरम एवात्र सर्ववर्णान महीपतिः अन्नपानरसौघेन पलावयाम आस पार्थिवः ॥ 11 ॥
सवस्त्र फेनरत्नौघॊ मृद अङ्गनिनद सवनः गवाश्वमकरावर्तॊ नारीरत्नमहाकरः ॥ 12 ॥
गरामाग्रहार कुल्याढ्यॊ मणिहेमजलार्णवः जगत संप्लावयाम आस धृतराष्ट्र दयाम्बुधिः ॥ 13 ॥
एवं सपुत्रपौत्राणां पितॄणाम आत्मनस तथा गान्धार्याश च महाराज परददाव और्ध्व देहिकम ॥ 14 ॥
परिश्रान्तॊ यदासीत स ददद दानान्य अनेकशः ततॊ निर्वर्तयाम आस दानयज्ञं कुरूद्वहः ॥ 15 ॥
एवं स राजा कौरव्यश चक्रे दानमहॊत्सवम नटनर्तक लास्याढ्यं बह्व अन्नरसदक्षिणम ॥ 16 ॥
दशाहम एवं दानानि दत्त्वा राजाम्बिका सुतः बभूव पुत्रपौत्राणाम अनृणॊ भरतर्षभ ॥ 17 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 20
Reach this point to mark the section finished.
Continue to अध्याय 21