धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 19

  1. [वै] एवम उक्तस तु राज्ञा स विदुरॊ बुद्धिसत्तमः धृतराष्ट्रम उपेत्येदं वाक्यम आह महार्थवत ॥ 1 ॥

  2. उक्तॊ युधिष्ठिरॊ राजा भवद वचनम आदितः स च संश्रुत्य वाक्यं ते परशशंस महाद्युतिः ॥ 2 ॥

  3. बीभत्सुश च महातेजा निवेदयति ते गृहान वसु तस्य गृहे यच च पराणान अपि च केवलान ॥ 3 ॥

  4. धर्मराजश च पुत्रस ते राज्यं पराणान धनानि च अनुजानाति राजर्षे यच चान्यद अपि किं चन ॥ 4 ॥

  5. भीमस तु सर्वदुःखानि संस्मृत्य बहुलान्य उत कृच्छ्राद इव महाबाहुर अनुमन्य विनिःश्वसन ॥ 5 ॥

  6. स राज्ञा धर्मशीलेन भरात्रा बीभत्सुना तथा अनुनीतॊ महाबाहुः सौहृदे सथापितॊ ऽपि च ॥ 6 ॥

  7. न च मन्युस तवया कार्य इति तवां पराह धर्मराट संस्मृत्य भीमस तद वैरं यद अन्यायवद आचरेत ॥ 7 ॥

  8. एवं परायॊ हि धर्मॊ ऽयं कषत्रियाणां नराधिप युद्धे कषत्रिय धर्मे च निरतॊ ऽयं वृकॊदरः ॥ 8 ॥

  9. वृकॊदर कृते चाहम अर्जुनश च पुनः पुनः परसादयाव नृपते भवान परभुर इहास्ति यत ॥ 9 ॥

  10. परददातु भवान वित्तं यावद इच्छसि पार्थिव तवम ईश्वरॊ नॊ राज्यस्य पराणानां चेति भारत ॥ 10 ॥

  11. बरह्म देयाग्रहारांश च पुत्राणां चौर्ध्व देहिकम इतॊ रत्नानि गाश चैव दासीदासम अजाविकम ॥ 11 ॥

  12. आनयित्वा कुरुश्रेष्ठॊ बराह्मणेभ्यः परयच्छतु दीनान्ध कृपणेभ्यश च तत्र तत्र नृपाज्ञया ॥ 12 ॥

  13. बह्व अन्नरसपानाढ्याः सभा विदुर कारय गवां निपानान्य अन्यच च विविधं पुण्यकर्म यत ॥ 13 ॥

  14. इति माम अब्रवीद राजा पार्थैश चैव धनंजयः यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति ॥ 14 ॥

  15. इत्य उक्तॊ विदुरेणाथ धृतराष्ट्रॊ ऽभिनन्द्य तत मनश चक्रे महादाने कार्तिक्यां जनमेजय ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 20

Previous: अध्याय 18