[ज] पराप्य राज्यं महाभागाः पाण्डवा मे पितामहाः कथम आसन महाराजे धृतराष्ट्रे महात्मनि ॥ 1 ॥
स हि राजा हतामात्यॊ हतपुत्रॊ नराश्रयः कथम आसीद धतैश्वर्यॊ गान्धारी च यशस्विनी ॥ 2 ॥
कियन्तं चैव कालं ते पितरॊ मम पूर्वकाः सथिता राज्ये महात्मानस तन मे वयाख्यातुम अर्हसि ॥ 3 ॥
[वै] पराप्य राज्यं महात्मानः पाण्डवा हतशत्रवः धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन ॥ 4 ॥
धृतराष्ट्रम उपातिष्ठद विदुरः संजयस तथा युयुत्सुश चापि मेधावी वैश्यापुत्रः स कौरवः ॥ 5 ॥
पाण्डवः सर्वकार्याणि संपृच्छन्ति सम तं नृपम चक्रुस तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥ 6 ॥
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम पादाभिवन्दनं कृत्वा धर्मराज मते सथिताः ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ॥ 7 ॥
कुन्तिभॊजसुता चैव गन्धारीम अन्ववर्तत दरौपदी च सुभद्रा च याश चान्याः पाण्डव सत्रियः समां वृत्तिम अवर्तन्त तयॊः शवश्रॊर यथाविधि ॥ 8 ॥
शयनानि महार्हाणि वासांस्य आभरणानि च राजार्हाणि च सर्वाणि भक्ष्यभॊज्यान्य अनेकशः युधिष्ठिरॊ महाराज धृतराष्ट्रे ऽभयुपाहरत ॥ 9 ॥
तथैव कुन्ती गान्धार्यां गुरुवृत्तिम अवर्तत विदुरः संजयश चैव युयुत्सुश चैव कौरवः उपासते सम तं वृद्धं हतपुत्रं जनाधिपम ॥ 10 ॥
सयालॊ दरुणस्य यश चैकॊ दयितॊ बराह्मणॊ महान स च तस्मिन महेष्वासः कृपः समभवत तदा ॥ 11 ॥
वयासस्य भगवान नित्यं वासं चक्रे नृपेण ह कथाः कुर्वन पुराणर्षिर देवर्षिनृप रक्षसाम ॥ 12 ॥
धर्मयुक्तानि कार्याणि वयवहारान्वितानि च धृतराष्ट्राभ्यनुज्ञातॊ विदुरस तान्य अकारयत ॥ 13 ॥
सामन्तेभ्यः परियाण्य अस्य कार्याणि सुगुरूण्य अपि पराप्यन्ते ऽरथैः सुलघुभिः परभावाद विदुरस्य वै ॥ 14 ॥
अकरॊद बन्धमॊक्षांश च वध्यानां मॊक्षणं तथा न च धर्मात्मजॊ राजा कदा चित किं चिद अब्रवीत ॥ 15 ॥
विहारयात्रासु पुनः कुरुराजॊ युधिष्ठिरः सर्वान कामान महातेजाः परददाव अम्बिका सुते ॥ 16 ॥
आरालिकाः सूपकारा रागखाण्डविकास तथा उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ॥ 17 ॥
वासांसि च महार्हाणि माल्यानि विविधानि च उपाजह्रुर यथान्यायं धृतराष्ट्रस्य पाण्डवाः ॥ 18 ॥
मैरेयं मधु मांसानि पानकानि लघूनि च चित्रान भक्ष्यविकारांश च चक्रुर अस्य यथा पुरा ॥ 19 ॥
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥ 20 ॥
कुन्ती च दरौपदी चैव सात्वती चैव भामिनी उलूपी नागकन्या च देवी चित्र अङ्गदा तथा ॥ 21 ॥
धृष्टकेतॊश च भगिनी जरा सन्धस्य चात्मजा किंकराः समॊपतिष्ठन्ति सर्वाः सुबलजां तथा ॥ 22 ॥
यथा पुत्र वियुक्तॊ ऽयं न किं चिद दुःखम आप्नुयात इति राजन वशाद भरातॄन नित्यम एव युधिष्ठिरः ॥ 23 ॥
एवं ते धर्मराजस्य शरुत्वा वचनम अर्थवत सविशेषम अवर्तन्त भीमम एकं विना तदा ॥ 24 ॥
न हि तत तस्य वीरस्य हृदयाद अपसर्पति धृतराष्ट्रस्य दुर्बुद्धेर यद्वृत्तं दयूतकारितम ॥ 25 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 1
Reach this point to mark the section finished.
Continue to अध्याय 2