[अर्ज] भीम जयेष्ठॊ गुरुर मे तवं नातॊ ऽनयद वक्तुम उत्सहे धृतराष्ट्रॊ हि राजर्षिः सर्वथा मानम अर्हति ॥ 1 ॥
न समरन्त्य अपराद्धानि समरन्ति सुकृतानि च असंभिन्नार्थ मर्यादाः साधवः पुरुषॊत्तमाः ॥ 2 ॥
इदं मद्वचनात कषत्तः कौरवं बरूहि पार्थिवम यावद इच्छति पुत्राणां दातुं तावद ददाम्य अहम ॥ 3 ॥
भीष्मादीनां च सर्वेषां सुहृदाम उपकारिणाम मम कॊशाद इति विभॊ मा भूद भीमः सुदुर्मनाः ॥ 4 ॥
[वै] इत्य उक्ते धर्मराजस तम अर्जुनं परत्यपूजयत भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम ॥ 5 ॥
ततः स विदुरं धीमान वाक्यम आह युधिष्ठिरः न भीमसेने कॊपं स नृपतिः कर्तुम अर्हति ॥ 6 ॥
परिक्लिष्टॊ हि भीमॊ ऽयं हिमवृष्ट्य आतपादिभिः दुःखैर बहुविधैर धीमान अरण्ये विदितं तव ॥ 7 ॥
किं तु मद्वचनाद बरूहि राजानं भरतर्षभम यद यद इच्छसि यावच च गृह्यतां मद्गृहाद इति ॥ 8 ॥
यन मात्सर्यम अयं भीमः करॊति भृशदुःखितः न तन मनसि कर्तव्यम इति वाच्यः स पार्थिवः ॥ 9 ॥
यन ममास्ति धनं किं चिद अर्जुनस्य च वेश्मनि तस्य सवामी महाराज इति वाच्यः स पार्थिवः ॥ 10 ॥
ददातु राजा विप्रेभ्यॊ यथेष्टं करियतां वययः पुत्राणां सुहृदां चैव गच्छत्व आनृण्यम अद्य सः ॥ 11 ॥
इदं चापि शरीरं मे तवायत्तं जनाधिप धनानि चेति विद्धि तवं कषत्तर नास्त्य अत्र संशयः ॥ 12 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 18
Reach this point to mark the section finished.
Continue to अध्याय 19