[वै] वयुषितायां रजन्यां तु धृतराष्ट्रॊ ऽमबिका सुतः विदुरं परेषयाम आस युधिष्ठिर निवेशनम ॥ 1 ॥
स गत्वा राजवचनाद उवाचाच्युतम ईश्वरम युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥ 2 ॥
धृतराष्ट्रॊ महाराज वनवासाय दीक्षितः गमिष्यति वनं राजन कार्तिकीम आगताम इमाम ॥ 3 ॥
स तवा कुरु कुलश्रेष्ठ किं चिद अर्थम अभीप्सति शराद्धम इच्छति दातुं स गाङ्गेयस्य महात्मनः ॥ 4 ॥
दरॊणस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः पुत्राणां चैव सर्वेषां ये चास्य सुहृदॊ हताः यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥ 5 ॥
एतच छरुत्वा तु वचनं विदुरस्य युधिष्ठिरः हृष्टः संपूजयाम आस गुडा केशश च पाण्डवः ॥ 6 ॥
न तु भीमॊ दृढक्रॊधस तद वचॊ जगृहे तदा विदुरस्य महातेजा दुर्यॊधनकृतं समरन ॥ 7 ॥
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः किरीटी किं चिद आनम्य भीमं वचनम अब्रवीत ॥ 8 ॥
भीम राजा पिता वृद्धॊ वनवासाय दीक्षितः दातुम इच्छति सर्वेषां सुहृदाम और्ध्व देहिकाम ॥ 9 ॥
भवता निर्जितं वित्तं दातुम इच्छति कौरवः भीष्मादीनां महाबाहॊ तदनुज्ञातुम अर्हसि ॥ 10 ॥
दिष्ट्या तव अद्य महाबाहॊ धृतराष्ट्रः परयाचति याचितॊ यः पुरास्माभिः पश्य कालस्य पर्ययम ॥ 11 ॥
यॊ ऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः परैर विनिहतापत्यॊ वनं गन्तुम अभीप्सति ॥ 12 ॥
मा ते ऽनयत पुरुषव्याघ्र दानाद भवतु दर्शनम अयशस्यम अतॊ ऽनयत सयाद अधर्म्यं च महाभुज ॥ 13 ॥
राजानम उपतिष्ठस्व जयेष्ठं भरातरम ईश्वरम अर्हस तवम असि दातुं वै नादातुं भरतर्षभ एवं बरुवाणं कौन्तेयं धर्मराजॊ ऽभयपूजयत ॥ 14 ॥
भीमसेनस तु सक्रॊधः परॊवाचेदं वचस तदा वयं भीष्मस्य कुर्मेह परेतकार्याणि फल्गुन ॥ 15 ॥
सॊमदत्तस्य नृपतेर भूरिश्रवस एव च बाह्लीकस्य च राजर्षेर दरॊणस्य च महात्मनः ॥ 16 ॥
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति शराद्धानि पुरुषव्याघ्र मादात कौरवकॊ नृपः ॥ 17 ॥
इति मे वर्तते बुद्धिर मा वॊ नन्दन्तु शत्रवः कष्टात कष्टतरं यान्तु सर्वे दुर्यॊधनादयः यैर इयं पृथिवी सर्वा घातिता कुलपांसनैः ॥ 18 ॥
कुतस तवम अद्य विस्मृत्य वैरं दवादश वार्षिकम अज्ञातवास गमनं दरौपदी शॊकवर्धनम कव तदा धृतराष्ट्रस्य सनेहॊ ऽसमास्व अभवत तदा ॥ 19 ॥
कृष्णाजिनॊपसंव्वीतॊ हृताभरण भूषणः सार्धं पाञ्चाल पुत्र्या तवं राजानम उपजग्मिवान कव तदा दरॊण भीष्मौ तौ सॊमदत्तॊ ऽपि वाभवत ॥ 20 ॥
यत्र तरयॊदश समा वने वन्येन जीवसि न तदा तवा पिता जयेष्ठः पितृत्वेनाभिवीक्षते ॥ 21 ॥
किं ते तद विस्मृतं पार्थ यद एष कुलपांसनः दुर्वृत्तॊ विदुरं पराह दयूते किं जितम इत्य उत ॥ 22 ॥
तम एवं वादिनं राजा कुन्तीपुत्रॊ युधिष्ठिरः उवाच भरातरं धीमाञ जॊषम आस्वेति भर्त्सयन ॥ 23 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18