[बराह्मण] न तद दुर्यॊधनकृतं न च तद भवता कृतम न कर्ण सौबलाभ्यां च कुरवॊ यत कषयं गताः ॥ 1 ॥
दैवं तत तु विजानीमॊ यन न शक्यं परबाधितुम दैवं पुरुषकारेण न शक्यम अतिवर्तितुम ॥ 2 ॥
अक्षौहिण्यॊ महाराज दशाष्टौ च समागताः अष्टादशाहेन हता दशभिर यॊधपुंगवैः ॥ 3 ॥
भीष्मद्रॊणकृपाद्यैश च कर्णेन च महात्मना युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह ॥ 4 ॥
चतुर्भिः पाण्डुपुत्रैश च भीमार्जुनयमैर नृप जनक्षयॊ ऽयं नृपते कृतॊ दैवबलात्कृतैः ॥ 5 ॥
अवश्यम एव संग्रामे कषत्रियेण विशेषतः कर्तव्यं निधनं लॊके शस्त्रेण कषत्रबन्धुना ॥ 6 ॥
तैर इयं पुरुषव्याघ्रैर विद्या बाहुबलान्वितैः पृथिवी निहता सर्वा सहया सरथ दविपा ॥ 7 ॥
न स राजापराध्नॊति पुत्रस तव महामनाः न भवान न च ते भृत्या न कर्णॊ न च सौबलः ॥ 8 ॥
यद विनष्टाः कुरुश्रेष्ठा राजानश च सहस्रशः सर्वं दैवकृतं तद वै कॊ ऽतर किं वक्तुम अर्हति ॥ 9 ॥
गुरुर मतॊ भवान अस्य कृत्स्नस्य जगतः परभुः धर्मात्मानम अतस तुभ्यम अनुजानीमहे सुतम ॥ 10 ॥
लभतां वीरलॊकान स ससहायॊ नराधिपः दविजाग्र्यैः समनुज्ञातस तरिदिवे मॊदतां सुखी ॥ 11 ॥
पराप्स्यते च भवान पुण्यं धर्मे च परमां सथितिम वेद पुण्यं च कार्त्स्न्येन सम्यग भरतसत्तम ॥ 12 ॥
दृष्टापदानाश चास्माभिः पाण्डवाः पुरुषर्षभाः समर्थास तरिदिवस्यापि पालने किं पुनः कषितेः ॥ 13 ॥
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च परजाः कुरु कुलश्रेष्ठ पाण्डवाञ शीलभूषणान ॥ 14 ॥
बरह्म देयाग्रहारांश च परिहारांश च पार्थिव पूर्वराजातिसर्गांश च पालयत्य एव पाण्डवः ॥ 15 ॥
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणॊ यथा अक्षुद्र सच्चिवश चायं कुन्तीपुत्रॊ महामनाः ॥ 16 ॥
अप्य अमित्रे दयावांश च शुचिश च भरतर्षभ ऋजु पश्यति मेघावी पुत्रवत पाति नः सदा ॥ 17 ॥
विप्रियं च जनस्यास्य संसर्गाद धर्मजस्य वै न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥ 18 ॥
मन्दा मृदुषु कौरव्यास तीक्ष्णेष्व आशीविषॊपमाः वीर्यवन्तॊ महात्मानॊ पौराणां च हिते रताः ॥ 19 ॥
न कुन्ती न च पाञ्चाली न चॊलूपी न सात्वती अस्मिञ जने करिष्यन्ति परतिकूलानि कर्हि चित ॥ 20 ॥
भवत कृतम इमं सनेहं युधिष्ठिर विवर्धितम न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः ॥ 21 ॥
अधर्मिष्ठान अपि सतः कुन्तीपुत्रा महारथाः मानवान पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥ 22 ॥
स राजन मानसं दुःखम अपनीय युधिष्ठिरात कुरु कार्याणि धर्म्याणि नमस ते भरतर्षभ ॥ 23 ॥
[वै] तस्य तद वचनं धर्म्यम अनुबन्ध गुणॊत्तरम साधु साध्व इति सर्वः सजनः परतिगृहीतवान ॥ 24 ॥
धृतराष्ट्रश च तद वाक्यम अभिपूज्य पुनः पुनः विसर्जयाम आस तदा सर्वास तु परकृतीः शनैः ॥ 25 ॥
स तैः संपूजितॊ राजा शिवेनावेक्षितस तदा पराञ्जलिः पूजयाम आस सजनं भरतर्षभ ॥ 26 ॥
ततॊ विवेश भुवनं गान्धार्या सहितॊ नृपः वयुष्टायां चैव शर्वर्या यच चकार निबॊध तत ॥ 27 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17