[वै] एवम उक्तास तु ते तेन पौरजानपदा जनाः वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन ॥ 1 ॥
तूष्णींभूतांस ततस तांस तु बाष्पकण्ठान महीपतिः धृतराष्ट्रॊ महीपालः पुनर एवाभ्यभाषत ॥ 2 ॥
वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥ 3 ॥
पित्रा सवयम अनुज्ञातं कृष्णद्वैपायनेन वै वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥ 4 ॥
सॊ ऽहं पुनः पुनर याचे शिरसावनतॊ ऽनघाः गान्धार्या सहितं तन मां समनुज्ञातुम अर्हथ ॥ 5 ॥
शरुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते रुरुदुः सर्वतॊ राजन समेताः कुरुजाङ्गलाः ॥ 6 ॥
उत्तरीयैः करैश चापि संछाद्य वदनानि ते रुरुदुः शॊकसंतप्ता मुहूर्तं पितृमातृवत ॥ 7 ॥
हृदयैः शून्यभूतैस ते धृतराष्ट्र परवासजम दुःखं संधारयन्तः सम नष्टसंज्ञा इवाभवन ॥ 8 ॥
ते विनीय तम आयासं कुरुराजवियॊगजम शनैः शनैस तदान्यॊन्यम अब्रुवन सवमतान्य उत ॥ 9 ॥
ततः संधाय ते सर्वे वाक्यान्य अथ समासतः एकस्मिन बराह्मणे राजन्न आवेश्यॊचुर नराधिपम ॥ 10 ॥
ततः सवचरणे वृद्धः संमतॊ ऽरथविशारदः साम्बाख्यॊ बह्व ऋचॊ राजन वक्तुं समुपचक्रमे ॥ 11 ॥
अनुमान्य महाराजं तत सदः संप्रभाष्य च विप्रः परगल्भॊ मेधावी स राजानम उवाच ह ॥ 12 ॥
राजन वाक्यं जनस्यास्य मयि सर्वं समर्पितम वक्ष्यामि तद अहं वीर तज जुषस्व नराधिप ॥ 13 ॥
यथा वदसि राजेन्द्र सर्वम एतत तथा विभॊ नात्र मिथ्या वचः किं चित सुहृत तवं नः परस्परम ॥ 14 ॥
न जात्व अस्य तु वंशस्य राज्ञां कश चित कदा चन राजासीद यः परजा पालः परजानाम अप्रियॊ भवेत ॥ 15 ॥
पितृवद भरातृवच चैव भवन्तः पालयन्ति नः न च दुर्यॊधनः किं चिद अयुक्तं कृतवान नृप ॥ 16 ॥
यथा बरवीति धर्मज्ञॊ मुनिः सत्यवती सुतः तथा कुरु महाराज स हि नः परमॊ गुरुः ॥ 17 ॥
तयक्ता वयं तु भवता दुःखशॊकपरायणाः भविष्यामश चिरं राजन भवद्गुणशतैर हृताः ॥ 18 ॥
यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च भीष्म वीर्यॊपगूढेन पित्रा च तव पार्थिव ॥ 19 ॥
भवद बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता तथा दुर्यॊधनेनापि राज्ञा सुपरिपालिताः ॥ 20 ॥
न सवल्पम अपि पुत्रस ते वयलीकं कृतवान नृप पितरीव सुविश्वस्तास तस्मिन्न अपि नराधिपे वयम आस्म यथा सम्यग भवतॊ विदितं तथा ॥ 21 ॥
तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥ 22 ॥
राजर्षीणां पुराणानां भवतां वंशधारिणाम कुरु संवरणादीनां भरतस्य च धीमतः ॥ 23 ॥
वृत्तं समनुयात्य एष धर्मात्मा भूरिदक्षिणः नात्र वाच्यं महाराज सुसूक्ष्मम अपि विद्यते ॥ 24 ॥
उषिताः सम सुखं नित्यं भवता परिपालिताः सुसूक्ष्मं च वयलीकं ते सपुत्रस्य न विद्यते ॥ 25 ॥
यत तु जञातिविमर्दे ऽसमिन्न आत्थ दुर्यॊधनं परति भवन्तम अनुनेष्यामि तत्रापि कुरुनन्दन ॥ 26 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 15
Reach this point to mark the section finished.
Continue to अध्याय 16