[धृ] शंतनुः पालयाम आस यथावत पृथिवीम इमाम तथा विचित्रवीर्यश च भीष्मेण परिपालितः पालयाम आस वस तातॊ विदितं वॊ नसंशयः ॥ 1 ॥
यथा च पाण्डुर भराता मे दयितॊ भवताम अभूत स चापि पालयाम आस यथावत तच च वेत्थ ह ॥ 2 ॥
मया च भवतां सम्यक शुश्रूषा या कृतानघाः असम्यग वा महाभागास तत कषन्तव्यम अतन्द्रितैः ॥ 3 ॥
यच च दुर्यॊधनेनेदं राज्यं भुक्तम अकण्टलम अपि तत्र न वॊ मन्दॊ दुर्बुद्धिर अपराद्धवान ॥ 4 ॥
तस्यापराधाद दुर्बुद्धेर अभिमानान महीक्षिताम विमर्दः सुमहान आसीद अनयान मत्कृताद अथ ॥ 5 ॥
तन मया साधु वापीदं यदि वासाधु वै कृतम तद वॊ हृदि न कर्तव्यं माम अनुज्ञातुम अर्हथ ॥ 6 ॥
वृद्धॊ ऽयं हतपुत्रॊ ऽयं दुःखितॊ ऽयं जनाधिपः पूर्वराज्ञां च पुत्रॊ ऽयम इति कृत्वानुजानत ॥ 7 ॥
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी गान्धारी पुत्रशॊकार्ता तुल्यं याचति वॊ मया ॥ 8 ॥
हतपुत्राव इमौ वृद्धौ विदित्वा दुःखितौ तथा अनुजानीत भद्रं वॊ वरजावः शरणं च वः ॥ 9 ॥
अयं च कौरवॊ राजा कुन्तीपुत्रॊ युधिष्ठिरः सर्वैर भवद्भिर दरष्टव्यः समेषु विषमेषु च न जातु विषमं चैव गमिष्यति कदा चन ॥ 10 ॥
चत्वारः सचिवा यस्य भरातरॊ विपुलौजसः लॊकपालॊपमा हय एते सर्वे धर्मार्थदर्शिनः ॥ 11 ॥
बरह्मेव भगवान एष सर्वभूतजगत्पतिः युधिष्ठिरॊ महातेजा भवतः पालयिष्यति ॥ 12 ॥
अवश्यम एव वक्तव्यम इति कृत्वा बरवीमि वः एष नयासॊ मया दत्तः सर्वेषां वॊ युधिष्ठिरः भवन्तॊ ऽसय च वीरस्य नयासभूता मया कृताः ॥ 13 ॥
यद्य एव तैः कृतं किं चिद वयलीकं वा सुतैर मम यद्य अन्येन मदीयेन तदनुज्ञातुम अर्हथ ॥ 14 ॥
भवद्भिर हि न मे मन्युः कृतपूर्वः कथं चन अत्यन्तगुरु भक्तानाम एषॊ ऽञजलिर इदं नमः ॥ 15 ॥
तेषाम अस्थिरबुद्धीनां लुब्धानां कामचारिणाम कृते याचामि वः सर्वान गान्धारी सहितॊ ऽनघाः ॥ 16 ॥
इत्य उक्तास तेन ते राज्ञा पौरजानपदा जनाः नॊचुर बाष्पकलाः किं चिद वीक्षां चक्रुः परस्परम ॥ 17 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15