धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 13

  1. [य] एवम एतत करिष्यामि यथात्थ पृथिवीपते भूयश चैवानुशास्यॊ ऽहं भवता पार्थिवर्षभ ॥ 1 ॥

  2. भीष्मे सवर्गम अनुप्राप्ते गते च मधुसूदने विदुरे संजये चैव कॊ ऽनयॊ मां वक्तुम अर्हति ॥ 2 ॥

  3. यत तु माम अनुशास्तीह भवान अद्य हिते सथितः कर्तास्म्य एतन महीपाल निर्वृतॊ भव भारत ॥ 3 ॥

  4. [वै] एवम उक्तः स राजर्षिर धर्मराजेन धीमता कौन्तेयं समनुज्ञातुम इयेष भरतर्षभ ॥ 4 ॥

  5. पुत्र विश्रम्यतां तावन ममापि बलवाञ शरमः इत्य उक्त्वा पराविशद राजा गान्धार्या भवनं तदा ॥ 5 ॥

  6. तम आसनगतं देवी गान्धारी धर्मचारिणी उवाच काले कालज्ञा परजापतिसमं पतिम ॥ 6 ॥

  7. अनुज्ञातः सवयं तेन वयासेनापि महर्षिणा युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ॥ 7 ॥

  8. [धृ] गान्धार्य अहम अनुज्ञातः सवयं पित्रा महात्मना युधिष्ठिरस्यानुमते गन्तास्मि नचिराद वनम ॥ 8 ॥

  9. अहं हि नाम सर्वेषां तेषां दुर्द्यूत देविनाम पुत्राणां दातुम इच्छामि परेत्य भावानुगं वसुम सर्वप्रकृतिसांनिध्यं कारयित्वा सववेश्मनि ॥ 9 ॥

  10. [वै] इत्य उक्त्वा धर्मराजाय परेषयाम आस पार्थिवः स च तद वचनात सर्वं समानिन्ये महीपतिः ॥ 10 ॥

  11. ततॊ निष्क्रम्य नृपतिस तस्माद अन्तःपुरात तदा सर्वं सुहृज्जनं चैव सर्वश च परकृतीस तथा समवेतांश च तान सर्वान पौरजान पदान अथ ॥ 11 ॥

  12. बराह्मणांश च महीपालान नानादेशसमागतान ततः पराह महातेजा धृतराष्ट्रॊ महीपतिः ॥ 12 ॥

  13. शृण्वन्त्य एकाग्रमनसॊ बराह्मणाः कुरुजाङ्गलाः कषत्रियाश चैव वैश्याश च शूद्राश चैव समागताः ॥ 13 ॥

  14. भवन्तः कुरवश चैव बहु कालं सहॊषिताः परस्परस्य सुहृदः परस्परहिते रताः ॥ 14 ॥

  15. यद इदानीम अहं बरूयाम अस्मिन काल उपस्थिते तथा भवद्भिः कर्तव्यम अविचार्य वचॊ मम ॥ 15 ॥

  16. अरण्यगमने बुद्धिर गान्धारी सहितस्य मे वयासस्यानुमते राज्ञस तथा कुन्तीसुतस्य च भवन्तॊ ऽपय अनुजानन्तु मा वॊ ऽनया भूद विचारणा ॥ 16 ॥

  17. अस्माकं भवतां चैव येयं परीतिर हि शाश्वती न चान्येष्व अस्ति देशेषु राज्ञाम इति मतिर मम ॥ 17 ॥

  18. शरान्तॊ ऽसमि वयसानेन तथा पुत्र विनाकृतः उपवासकृशश चास्मि गान्धारी सहितॊ ऽनघाः ॥ 18 ॥

  19. युधिष्ठिर गते राज्ये पराप्तश चास्मि सुखं महत मन्ये दुर्यॊधनैश्वर्याद विशिष्टम इति सत्तमाः ॥ 19 ॥

  20. मम तव अन्धस्य वृद्धस्य हतपुत्रस्य कागतिः ऋते वनं महाभागास तन मानुज्ञातुम अर्हथ ॥ 20 ॥

  21. तस्य तद वचनं शरुत्वा सर्वे ते कुरुजाङ्गलाः बाष्पसंदिग्धया वाचा रुरुदुर भरतर्षभ ॥ 21 ॥

  22. तान अविब्रुवतः किं चिद दुःखशॊकपरायणान पुनर एव महातेजा धृतराष्ट्रॊ ऽबरवीद इदम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 14

Previous: अध्याय 12