[ज] यज्ञे सक्ता नृपतयस तपः सक्ता महर्षयः शान्ति वयवसिता विप्राः शमॊ दम इति परभॊ ॥ 1 ॥
तस्माद यज्ञफलैस तुल्यं न किं चिद इह विद्यते इति मे वर्तते बुद्धिस तथा चैतद असंशयम ॥ 2 ॥
यज्ञैर इष्ट्वा हि बहवॊ राजानॊ दविजसत्तम इह कीर्तिं परां पराप्य परेत्य सवर्गम इतॊ गताः ॥ 3 ॥
देवराजः सहस्राक्षः करतुभिर भूरिदक्षिणैः देवराज्यं महातेजाः पराप्तवान अखिलं विभुः ॥ 4 ॥
यथा युधिष्ठिरॊ राजा भीमार्जुनपुरः सरः सदृशॊ देवराजेन समृद्ध्या विक्रमेण च ॥ 5 ॥
अथ कस्मात स नकुलॊ गर्हयाम आस तं करतुम अश्वमेधं महायज्ञं राज्ञस तस्य महात्मनः ॥ 6 ॥
[व] यज्ञस्य विधिम अग्र्यं वै फलं चैव नरर्षभ गदतः शृणु मे राजन यथावद इह भारत ॥ 7 ॥
पुरा शक्रस्य यजतः सर्व ऊचुर महर्षयः ऋत्विक्षु कर्म वयग्रेषु विततॊ यज्ञकर्मणि ॥ 8 ॥
हूयमाने तथा वह्नौ हॊत्रे बहुगुणान्विते देवेष्व आहूयमानेषु सथितेषु परमर्षिषु ॥ 9 ॥
सुप्रतीतैस तदा विप्रैः सवागमैः सुस्वनैर नृप अश्रान्तैश चापि लघुभिर अध्वर्यु वृषभैस तथा ॥ 10 ॥
आलम्भ समये तस्मिन गृहीतेषु पशुष्व अथ महर्षयॊ महाराज संबभूवुः कृपान्विताः ॥ 11 ॥
ततॊ दीनान पशून दृष्ट्वा ऋषयस ते तपॊधनाः ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥ 12 ॥
अपविज्ञानम एतत ते महान्तं धर्मम इच्छतः न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ॥ 13 ॥
धर्मॊपघातकस तव एष समारम्भस तव परभॊ नायं धर्मकृतॊ धर्मॊ न हिंसा धर्म उच्यते ॥ 14 ॥
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि विधिदृष्टेन यज्ञेन धर्मस ते सुमहान भवेत ॥ 15 ॥
यज बीजैः सहस्राक्ष तरिवर्ष परमॊषितैः एष धर्मॊ महाञ शक्र चिन्त्यमानॊ ऽधिगम्यते ॥ 16 ॥
शतक्रतुस तु तद वाक्यम ऋषिभिस तत्त्वदर्शिभिः उक्तं न परतिजग्राह मानमॊहवशानुगः ॥ 17 ॥
तेषां विवादः सुमहाञ जज्ञे शक्र महर्षिणाम जङ्गमैः सथावरैर वापि यष्टव्यम इति भारत ॥ 18 ॥
ते तु खिन्ना विवादेन ऋषयस तत्त्वदर्शिनः ततः संधाय शक्रेण पप्रच्छुर नृपतिं वसुम ॥ 19 ॥
महाभाग कथं यज्ञेष्व आगमॊ नृपते समृतः यष्टव्यं पशुभिर मेध्यैर अथॊ बीजैर अजैर अपि ॥ 20 ॥
तच छरुत्वा तु वचस तेषाम अविचार्य बलाबलम यथॊपनीतैर यष्टव्यम इति परॊवाच पार्थिवः ॥ 21 ॥
एवम उक्त्वा स नृपतिः परविवेश रसातलम उक्त्वेह वितथं राजंश चेदीनाम ईश्वरः परभुः ॥ 22 ॥
अन्यायॊपगतं दरव्यम अतीतं यॊ हय अपण्डितः धर्माभिकाङ्क्षी यजते न धर्मफलम अश्नुते ॥ 23 ॥
धर्मवैतंसिकॊ यस तु पापात्मा पुरुषस तथा ददाति दानं विप्रेभ्यॊ लॊकविश्वास कारकम ॥ 24 ॥
पापेन कर्मणा विप्रॊ धनं लब्ध्वा निरङ्कुशः रागमॊहान्वितः सॊ ऽनते कलुषां गतिम आप्नुते ॥ 25 ॥
तेन दत्तानि दानानि पापेन हतबुद्धिना तानि सत्त्वम अनासाद्य नश्यन्ति विपुलान्य अपि ॥ 26 ॥
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः दाने न कीर्तिर भवति परेत्य चेह च दुर्मतेः ॥ 27 ॥
अपि संचयबुद्धिर हि लॊभमॊहवशं गतः उद्वेजयति भूतानि हिंसया पापचेतनः ॥ 28 ॥
एवं लब्ध्वा धनं लॊभाद यजते यॊ ददाति च स कृत्वा कर्मणा तेन न सिध्यति दुरागमात ॥ 29 ॥
उञ्छं मूलं फलं शाकम उदपात्रं तपॊधनाः दानं विभवतॊ दत्त्वा नराः सवर यान्ति धर्मिणः ॥ 30 ॥
एष धर्मॊ महांस तयागॊ दानं भूतदया तथा बरह्मचर्यं तथा सत्यम अनुक्रॊशॊ धृतिः कषमा सनातनस्य धर्मस्य मूलम एतत सनातनम ॥ 31 ॥
शरूयन्ते हि पुरा विप्रा विश्वामित्रादयॊ नृपाः विश्वामित्रॊ ऽसितश चैव जनकश च महीपतिः कक्षसेनार्ष्टिषेणॊ च सिन्धुद्वीपश च पार्थिवः ॥ 32 ॥
एते चान्ये च बहवः सिद्धिं परमिकां गताः नृपाः सत्यश च दानश च नयायलब्धैस तपॊधनाः ॥ 33 ॥
बराह्मणाः कषत्रिया वैश्याः शूद्रा ये चाश्रितास तपः दानधर्माग्निना शुद्धास ते सवर्गं यान्ति भारत ॥ 34 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 94
Reach this point to mark the section finished.
Continue to अध्याय 95