धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 95

  1. [ज] धर्मागतेन तयागेन भगवन सर्वम अस्ति चेत एतन मे सर्वम आचक्ष्व कुशलॊ हय असि भाषितुम ॥ 1 ॥

  2. ततॊञ्छवृत्तेर यद्वृत्तं सक्तु दाने फलं महत कथितं मे महद बरह्मंस तथ्यम एतद असंशयम ॥ 2 ॥

  3. कथं हि सर्वयज्ञेषु निश्चयः परमॊ भवेत एतद अर्हसि मे वक्तुं निखिलेन दविजर्षभ ॥ 3 ॥

  4. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम अगस्त्यस्य मया यज्ञे पुरावृत्तम अरिंदम ॥ 4 ॥

  5. पुरागस्त्यॊ महातेजा दीक्षां दवादश वार्षिकीम परविवेश महाराज सर्वभूतहिते रतः ॥ 5 ॥

  6. तत्राग्निकल्पा हॊतार आसन सत्रे महात्मनः मूलाहारा निराहाराः साश्म कुट्टा मरीचिपाः ॥ 6 ॥

  7. परिघृष्टिका वैघसिकाः संप्रक्षालास तथैव च यतयॊ भिक्षवश चात्र बभूवुः पर्यवस्थिताः ॥ 7 ॥

  8. सर्वे परत्यक्षधर्माणॊ जितक्रॊधा जितेन्द्रियाः दमे सथिताश च ते सर्वे दम्भमॊहविवर्जिताः ॥ 8 ॥

  9. वृत्ते शुद्धे सथिता नित्यम इन्द्रियैश चाप्य अवाहिताः उपासते सम तं यज्ञं भुञ्जानास ते महर्षयः ॥ 9 ॥

  10. यथाशक्त्या भगवता तदन्नं समुपार्जितम तस्मिन सत्रे तु यत किं चिद अयॊग्यं तत्र नाभवत तथा हय अनेकैर मुनिभिर महान्तः करतवः कृताः ॥ 10 ॥

  11. एवंविधेस तव अगस्त्यस्य वर्तमाने महाध्वरे न ववर्ष सहस्राक्षस तदा भरतसत्तम ॥ 11 ॥

  12. ततः कर्मान्तरे राजन्न अगस्त्यस्य महात्मनः कथेयम अभिनिर्वृत्ता मुनीनां भावितात्मनाम ॥ 12 ॥

  13. अगस्त्यॊ यजमानॊ ऽसौ ददात्य अन्नं विमत्सरः न च वर्षति पर्जन्यः कथम अन्नं भविष्यति ॥ 13 ॥

  14. सत्रं चेदं महद विप्रा मुनेर दवादश वार्षिकम न वर्षिष्यति देवश च वर्षाण्य एतानि दवादश ॥ 14 ॥

  15. एतद भवन्तः संचिन्त्य महर्षेर अस्य धीमतः अगस्त्यस्यातितपसः कर्तुम अर्हन्त्य अनुग्रहम ॥ 15 ॥

  16. इत्य एवम उक्ते वचने ततॊ ऽगस्त्यः परतापवान परॊवाचेदं वचॊ वाग्मी परसाद्य शिरसा मुनीन ॥ 16 ॥

  17. यदि दवादश वर्षाणि न वर्षिष्यति वासवः चिन्ता यज्ञं करिष्यामि विधिर एष सनातनः ॥ 17 ॥

  18. यदि दवादश वर्षाणि न वर्षिष्यति वासवः वयायामेनाहरिष्यामि यज्ञान अन्यान अतिव्रतान ॥ 18 ॥

  19. बीजयज्ञॊ मयायं वै बहुवर्षसमाचितः बीजैः कृतैः करिष्ये च नात्र विघ्नॊ भविष्यति ॥ 19 ॥

  20. नेदं शक्यं वृथा कर्तुं मम सत्रं कथं चन वर्षिष्यतीह वा देवॊ न वा देवॊ भविष्यति ॥ 20 ॥

  21. अथ वाभ्यर्थनाम इन्द्रः कुर्यान न तव इह कामतः सवयम इन्द्रॊ भविष्यामि जीवयिष्यामि च परजाः ॥ 21 ॥

  22. यॊ यद आहारजातश च स तथैव भविष्यति विशेषं चैव कर्तास्मि पुनः पुनर अतीव हि ॥ 22 ॥

  23. अद्येह सवर्णम अभ्येतु यच चान्यद वसु दुर्लभम तरिषु लॊकेषु यच चास्ति तद इहागच्छतां सवयम ॥ 23 ॥

  24. दिव्याश चाप्सरसां संघाः स गन्धर्वाः स किंनराः विश्वावसुश च ये चान्ये ते ऽपय उपासन्तु वः सदा ॥ 24 ॥

  25. उत्तरेभ्यः कुरुभ्यश च यत किं चिद वसु विद्यते सर्वं तद इह यज्ञे मे सवयम एवॊपतिष्ठतु सवर्गं सवर्गसदश चैव धर्मश च सवयम एव तु ॥ 25 ॥

  26. इत्य उक्ते सर्वम एवैतद अभवत तस्य धीमतः ततस ते मुनयॊ दृष्ट्वा मुनेस तस्य तपॊबलम विस्मिता वचनं पराहुर इदं सर्वे महार्थवत ॥ 26 ॥

  27. परीताः सम तव वाक्येन न तव इच्छामस तपॊ वययम सवैर एव यज्ञैस तुष्टाः समॊ नयायेनेच्छामहे वयम ॥ 27 ॥

  28. यज्ञान दीक्षास तथा हॊमान यच चान्यन मृगयामहे तन नॊ ऽसतु सवकृतैर यज्ञैर नान्यतॊ मृगयामहे ॥ 28 ॥

  29. नयायेनॊपार्जिताहाराः सवकर्मनिरता वयम वेदाश च बरह्मचर्येण नयायतः परार्थयामहे ॥ 29 ॥

  30. नयायेनॊत्तर कालं च गृहेभ्यॊ निःसृता वयम धर्मदृष्टैर विधिद वारैस तपस तप्स्यामहे वयम ॥ 30 ॥

  31. भवतः सम्यग एषा हि बुद्धिर हिंसा विवर्जिता एवाम अहिंसां यज्ञेषु बरूयास तवं सततं परभॊ ॥ 31 ॥

  32. परीतास ततॊ भविष्यामॊ वयं दविज वरॊत्तम विसर्जिताः समाप्तौ च सत्राद अस्माद वरजामहे ॥ 32 ॥

  33. [व] तथा कथयताम एव देवराजः पुरंदरः ववर्ष सुमहातेजा दृष्ट्वा तस्य तपॊबलम ॥ 33 ॥

  34. असमाप्तौ च यज्ञस्य तस्यामित पराक्रमः निकामवर्षी देवेन्द्रॊ बभूव जनमेजय ॥ 34 ॥

  35. परसादयाम आस च तम अगस्त्यं तरिदशेश्वरः सवयम अभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम ॥ 35 ॥

  36. ततॊ यज्ञसमाप्तौ तान विससर्ज महामुनीन अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 96

Previous: अध्याय 94