[नकुल] हन्त वॊ वर्तयिष्यामि दानस्य परमं फलम नयायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद दविजाः ॥ 1 ॥
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर बहुभिर वृते उञ्छवृत्तिर दविजः कश चित कापॊतिर अभवत पुरा ॥ 2 ॥
सभार्यः सह पुत्रेण स सनुषस तपसि सथितः वधू चतुर्थॊ वृद्धः स धर्मात्मा नियतेन्द्रियः ॥ 3 ॥
षष्ठे काले तदा विप्रॊ भुङ्क्ते तैः सह सुव्रतः षष्ठे काले कदा चिच च तस्याहारॊ न विद्यते भुङ्क्ते ऽनयस्मिन कदा चित स षष्ठे काले दविजॊत्तमः ॥ 4 ॥
कपॊत धर्मिणस तस्य दुर्भिक्षे सति दारुणे नाविद्यत तदा विप्राः संचयस तान निबॊधत कषीणौषधि समावायॊ दरव्यहीनॊ ऽभवत तदा ॥ 5 ॥
काले काले ऽसय संप्राप्ते नैव विद्येत भॊजनम कषुधा परिगताः सर्वे परातिष्ठन्त तदा तु ते ॥ 6 ॥
उञ्छंस तदा शुक्लपक्षे मध्यं तपति भास्करे उष्णार्तश च कषुधार्तश च स विप्रस तपसि सथितः उञ्छम अप्राप्तवान एव सार्धं परिजनेन ह ॥ 7 ॥
स तथैव कषुधाविष्टः सपृष्ट्वा तॊयं यथाविधि कषपयाम आस तं कालं कृच्छ्रप्राणॊ दविजॊत्तमः ॥ 8 ॥
अथ षष्ठे गते काले यवप्रस्थम उपार्जयत यवप्रस्थं च ते सक्तून अकुर्वन्त तपस्विनः ॥ 9 ॥
कृतपज्याह्विकास ते तु हुत्वा वह्निं यथाविधि कुडवं कुडवं सर्वे वयभजन्त तपस्विनः ॥ 10 ॥
अथागच्छद दविजः कश चिद अतिथिर भुञ्जतां तदा ते तं दृष्ट्वातिथिं तत्र परहृष्टमनसॊ ऽभवन ॥ 11 ॥
ते ऽभिवाद्य सुखप्रश्नं पृष्ट्वा तम अतिथिं तदा विशुद्धमनसॊ दान्ताः शरद्धा दमसमन्विताः ॥ 12 ॥
अनसूयवॊ गतक्रॊधाः साधवॊ गतमत्सराः तयक्तमाना जितक्रॊधा धर्मज्ञा दविजसत्तमाः ॥ 13 ॥
स बरह्मचर्यं सवं गॊत्रं समाख्याय परस्परम कुटीं परवेशयाम आसुः कषुधार्तम अतिथिं तदा ॥ 14 ॥
इदम अर्घ्यं च पाद्यं च बृसी चेयं तवानघ शुचयः सक्तवश चेमे नियमॊपार्जिताः परभॊ ॥ 15 ॥
परतिगृह्णीष्व भद्रं ते सक्तूनां कुडवं दविजः भक्षयाम आस राजेन्द्र न च तुष्टिं जगाम सः ॥ 16 ॥
स उञ्छवृत्तिस तं परेक्ष्य कषुधा परिगतं दविजम आहारं चिन्तयाम आस कथं तुष्टॊ भवेद इति ॥ 17 ॥
तस्य भार्याब्रवीद राजन मद्भागॊ दीयताम इति गच्छत्व एष यथाकामं संतुष्टॊ दविजसत्तमः ॥ 18 ॥
इति बरुवन्तीं तां साध्वीं धर्मात्मा स दविजर्षभः कषुधा परिगतां जञात्वा सक्तूंस तान नाभ्यनन्दत ॥ 19 ॥
जानन वृद्धां कषुधार्तां च शरान्तां गलानां तपस्विनीम तवग अस्थि भूतां वेपन्तीं ततॊ भार्याम उवाच ताम ॥ 20 ॥
अपि कीट पतंगानां मृगाणां चैव शॊभने सत्रियॊ रक्ष्याश च पॊष्याश च नैवं तवं वक्तुम अर्हसि ॥ 21 ॥
अनुकम्पितॊ नरॊ नार्या पुष्टॊ रक्षितैव च परपतेद यशसॊ दीप्तान न च लॊकान अवाप्नुयात ॥ 22 ॥
इत्य उक्ता सा ततः पराह धर्मार्थौ नौ समौ दविज सक्तु परस्थचतुर्भागं गृहाणेमं परसीद मे ॥ 23 ॥
सत्यं रतिश च धर्मश च सवर्गश च गुणनिर्जितः सत्रीणां पतिसमाधीनं काङ्क्षितं च दविजॊत्तम ॥ 24 ॥
ऋतुर मातुः पितुर बीजं दैवतं परमं पतिः भर्तुः परसादात सत्रीणां वै रतिः पुत्रफलं तथाम ॥ 25 ॥
पालनाद धि पतिस तवं मे भर्तासि भरणान मम पुत्र परदानाद वरदस तस्मात सक्तून गृहाण मे ॥ 26 ॥
जरा परिगतॊ वृद्धः कषुधार्थॊ दुर्बलॊ भृशम उपवासपरिश्रान्तॊ यदा तवम अपि कर्शितः ॥ 27 ॥
इत्य उक्तः स तया सक्तून परगृह्येदं वचॊ ऽबरवीत दविज सक्तून इमान भूयः परतिगृह्णीष्व सत्तम ॥ 28 ॥
स तान परगृह्य भुक्त्वा च न तुष्टिम अगमद दविजः तम उञ्छवृत्तिर आलक्ष्य ततश चिन्तापरॊ ऽभवत ॥ 29 ॥
[पुत्र] सक्तून इमान परगृह्य तवं देहि विप्राय सत्तम इत्य एवं सुकृतं मन्ये तस्माद एतत करॊम्य अहम ॥ 30 ॥
भवान हि परिपाल्यॊ मे सर्वयत्नैर दविजॊत्तम साधूनां काङ्क्षितं हय एतत पितुर वृद्धस्य पॊषणम ॥ 31 ॥
पुत्रार्थॊ विहितॊ हय एष सथाविर्ये परिपालनम शरुतिर एषा हि विप्रर्षे तरिषु लॊकेषु विश्रुता ॥ 32 ॥
पराणधारण मात्रेण शक्यं कर्तुं तपस तवया पराणॊ हि परमॊ धर्मः सथितॊ देहेषु देहिनाम ॥ 33 ॥
[पिता] अपि वर्षसहस्री तवं बाल एव मतॊ मम उत्पाद्य पुत्रं हि पिता कृतकृत्यॊ भवत्य उत ॥ 34 ॥
बालानां कषुद बलवती जानाम्य एतद अहं विभॊ वृद्धॊ ऽहं धारयिष्यामि तवं बली भव पुत्रक ॥ 35 ॥
जीर्णेन वयसा पुत्र न मा कषुद बाधते ऽपि च दीर्घकालं तपस तप्तं न मे मरणतॊ भयम ॥ 36 ॥
[पुत्र] अपत्यम अस्मि ते पुत्रस तराणात पुत्रॊ हि विश्रुतः आत्मा पुत्रः समृतस तस्मात तराह्य आत्मानम इहात्मना ॥ 37 ॥
[पिता] रूपेण सदृशस तवं मे शीलेन च दमेन च परीक्षितश च बहुधा सक्तून आदद्मि ते ततः ॥ 38 ॥
इत्य उक्त्वादाय तान सक्तून परीतात्मा दविजसत्तमः परहसन्न इव विप्राय स तस्मै परददौ तदा ॥ 39 ॥
भुक्त्वा तान अपि सक्तून स नैव तुष्टॊ बभूव ह उञ्छवृत्तिस तु सव्रीडॊ बभूव दविजसत्तमः ॥ 40 ॥
तं वै वधूः सथिता साध्वी बराह्मण परियकाम्यया सक्तून आदाय संहृष्टा गुरुं तं वाक्यम अब्रवीत ॥ 41 ॥
संतानात तव संतानं मम विप्र भविष्यति सक्तून इमान अतिथये गृहीत्वा तवं परयच्छ मे ॥ 42 ॥
तव परसव निर्वृत्या मम लॊकाः किलाक्षयाः पौत्रेण तान अवाप्नॊति यत्र गत्वा न शॊचति ॥ 43 ॥
धर्माद्या हि यथा तरेता वह्नि तरेता तथैव च तथैव पुत्रपौत्राणां सवर्गे तरेता किलाक्षया ॥ 44 ॥
पितॄंस तराणात तारयति पुत्र इत्य अनुशुश्रुम पुत्रपौत्रैश च नियतं साधु लॊकान उपाश्नुते ॥ 45 ॥
[षवषुर] वातातपविशीर्णाङ्गीं तवां विवर्णां निरीक्ष्य वै कर्शितां सुव्रताचारे कषुधा विह्वलचेतसम ॥ 46 ॥
कथं सक्तून गरहीष्यामि भूत्वा धर्मॊपघातकः कल्याण वृत्ते कल्याणि नैवं तवं वक्तुम अर्हसि ॥ 47 ॥
षष्ठे काले वरतवतीं शीलशौचसमन्विताम कृच्छ्रवृत्तिं निराहारां दरक्ष्यामि तवां कथं नव अहम ॥ 48 ॥
बाला कषुधार्ता नारी च रक्ष्या तवं सततं मया उपवासपरिश्रान्ता तवं हि बान्धवनन्दिनी ॥ 49 ॥
[सनुसा] गुरॊर मम गुरुस तवं वै यतॊ दैवतदैवतम देवातिदेवस तस्मात तवं सक्तून आदत्स्व मे विभॊ ॥ 50 ॥
देहः पराणश च धर्मश च शुश्रूषार्थम इदं गुरॊः तव विप्र परसादेन लॊकान पराप्स्याम्य अभीप्सितान ॥ 51 ॥
अवेक्ष्या इति कृत्वा तवं दृढभक्त्येति वा दविज चिन्त्या ममेयम इति वा सक्तून आदातुम अर्हसि ॥ 52 ॥
[षवषुर] अनेन नित्यं साध्वी तवं शीलवृत्तेन शॊभसे या तवं धर्मव्रतॊपेता गुरुवृत्तिम अवेक्षसे ॥ 53 ॥
तस्मात सक्तून गरहीष्यामि वधूर नार्हसि वञ्चनाम गणयित्वा महाभागे तवं हि धर्मभृतां वरा ॥ 54 ॥
इत्य उक्त्वा तान उपादाय सक्तून परादाद दविजातये ततस तुष्टॊ ऽभवद विप्रस तस्य साधॊर महात्मनः ॥ 55 ॥
परीतात्मा स तु तं वाक्यम इदम आह दविजर्षभम वाग्मी तदा दविजश्रेष्ठॊ धर्मः पुरुषविग्रहः ॥ 56 ॥
शुद्धेन तव दानेन नयायॊपात्तेन यत्नतः यथाशक्ति विमुक्तेन परीतॊ ऽसमि दविजसत्तम ॥ 57 ॥
अहॊ दानं घुष्यते ते सवर्गे सवर्गनिवासिभिः गगनात पुष्पवर्षं च पश्यस्व पतितं भुवि ॥ 58 ॥
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः सतुवन्तॊ देवदूताश च सथिता दानेन विस्मिताः ॥ 59 ॥
बरह्मर्षयॊ विमानस्था बरह्मलॊकगताश च ये काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ दविजर्षभ ॥ 60 ॥
पितृलॊकगताः सर्वे तारिताः पितरस तवया अनागताश च बहवः सुबहूनि युगानि च ॥ 61 ॥
बरह्मचर्येण यज्ञेन दानेन तपसा तथा अगह्वरेण धर्मेण तस्माद गच्छ दिवं दविज ॥ 62 ॥
शरद्धया परया यस तवं तपश चरसि सुव्रत तस्माद देवास तवानेन परीता दविज वरॊत्तम ॥ 63 ॥
सर्वस्वम एतद यस्मात ते तयक्तं शुद्धेन चेतसा कृच्छ्रकाले ततः सवर्गॊ जितॊ ऽयं तव कर्मणा ॥ 64 ॥
कषुधा निर्णुदति परज्ञां धर्म्यं बुद्धिं वयपॊहति कषुधा परिगत जञानॊ धृतिं तयजति चैव ह ॥ 65 ॥
बुभुक्षां जयते यस तु सस्वर्गं जयते धरुवम यदा दानरुचिर भवति तदा धर्मॊ न सीदति ॥ 66 ॥
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहम एव च धर्मम एव गुरुं जञात्वा तृष्णा न गणिता तवया ॥ 67 ॥
दरव्यागमॊ नृणां सूक्ष्मः पात्रे दानं ततः परम कालः परतरॊ दानाच छरद्धा चापि ततः परा ॥ 68 ॥
सवर्गद्वारं सुसूक्ष्मं हि नरैर मॊहान न दृश्यते सवर्गार्गलं लॊभबीजं रागगुप्तं दुरासदम ॥ 69 ॥
तत तु पश्यन्ति पुरुषा जितक्रॊधा जितेन्द्रियाः बराह्मणास तपसा युक्ता यथाशक्ति परदायिनः ॥ 70 ॥
सहस्रशक्तिश च शतं शतशक्तिर दशापि च दद्याद अपश च यः शक्त्या सर्वे तुल्यफलाः समृताः ॥ 71 ॥
रन्ति देवा हि नृपतिर अपः परादाद अकिंचनः शुद्धेन मनसा विप्र नाकपृष्ठं ततॊ गतः ॥ 72 ॥
न धर्मः परीयते तात दानैर दत्तैर महाफलैः नयायलब्धैर यथा सूक्ष्मैः शरद्धा पूतैः स तुष्यति ॥ 73 ॥
गॊप्रदान सहस्राणि दविजेभ्यॊ ऽदान नृगॊ नृपः एकां दत्त्वा स पारक्यां नरकं समवाप्तवान ॥ 74 ॥
आत्ममांस परदानेन शिबिर औशीनरॊ नृपः पराप्य पुण्यकृताँल लॊकान मॊदते दिवि सुव्रतः ॥ 75 ॥
विभवे न नृणां पुण्यं सवशक्त्या सवर जितं सताम न यज्ञैर विविधैर विप्र यथान्यायेन संचितैः ॥ 76 ॥
करॊधॊ दानफलं हन्ति लॊभात सवर्गं न गच्छति नयायवृत्तिर हि तपसा दानवित सवर्गम अश्नुते ॥ 77 ॥
न राजसूर्यैर बहुभिर इष्ट्वा विपुलदक्षिणैः न चाश्वमेधैर बहुभिः फलं समम इदं तवम ॥ 78 ॥
सक्तु परस्थेन हि जितॊ बरह्मलॊकस तवयानघ विरजॊ बरह्मभवनं गच्छ विप्र यथेच्छकम ॥ 79 ॥
सर्वेषां वॊ दविजश्रेष्ठ दिव्यं यानम उपस्थितम आरॊहत यथाकामं धर्मॊ ऽसमि दविज पश्य माम ॥ 80 ॥
पावितॊ हि तवया देहॊ लॊके कीर्तिः सथिरा च ते सभार्यः सह पुत्रश च स सनुषश च दिवं वरज ॥ 81 ॥
इत्य उक्तवाक्यॊ धर्मेण यानम आरुह्य स दविजः सभार्यः स सुतश चापि स सनुषश च दिवं ययौ ॥ 82 ॥
तस्मिन विप्रे गते सवर्गं स सुते स सनुषे तदा भार्या चतुर्थे धर्मज्ञे ततॊ ऽहं निःसृतॊ बिलात ॥ 83 ॥
ततस तु सक्तु गन्धेन कलेदेन सलिलस्य च दिव्यपुष्पावमर्दाच च साधॊर दानलबैश च तैः विप्रस्य तपसा तस्य शिरॊमे काञ्चनी कृतम ॥ 84 ॥
तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥ 85 ॥
कथम एवंविधं मे सयाद अन्यत पार्श्वम इति दविजाः तपॊवनानि यज्ञांश च हृष्टॊ ऽभयेमि पुनः पुनः ॥ 86 ॥
यज्ञं तव अहम इमं शरुत्वा कुरुराजस्य धीमतः आशया परया पराप्तॊ न चाहं काञ्चनी कृतः ॥ 87 ॥
ततॊ मयॊक्तं तद वाक्यं परहस्य दविजसत्तमाः सक्तु परस्थेन यज्ञॊ ऽयं संमितॊ नेति सर्वथा ॥ 88 ॥
सक्तु परस्थलवैस तैर हि तदाहं काञ्चनी कृतः न हि यज्ञॊ महान एष सदृशस तैर मतॊ मम ॥ 89 ॥
[व] इत्य उक्त्वा नकुलः सर्वान यज्ञे दविज वरांस तदा जगामादर्शनं राजन विप्रास ते च ययुर गृहान ॥ 90 ॥
एतत ते सर्वम आख्यातं मया परपुरंजय यद आश्चर्यम अभूत तस्मिन वाजिमेधे महाक्रतौ ॥ 91 ॥
न विस्मयस ते नृपते यज्ञे कार्यः कथं चन ऋषिकॊटॊ सहस्राणि तपॊभिर ये दिवं गताः ॥ 92 ॥
अद्रॊहः सर्वभूतेषु संतॊषः शीलम आर्जवम तपॊ दमश च सत्यं च दानं चेति समं मतम ॥ 93 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 93
Reach this point to mark the section finished.
Continue to अध्याय 94