[ज] पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः यद आश्चर्यम अभूत किं चित तद भवान वक्तुम अर्हति ॥ 1 ॥
[व] शरूयतां राजशार्दूल महद आश्चर्यम उत्तमम अश्वमेधे महायज्ञे निवृत्ते यद अभूद विभॊ ॥ 2 ॥
तर्पितेषु दविजाग्र्येषु जञातिसंबन्धिबन्धुषु दीनान्ध कृपणे चापि तदा भरतसत्तम ॥ 3 ॥
घुष्यमाणे महादाने दिक्षु सर्वासु भारत पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥ 4 ॥
बिलान निष्क्रम्य नकुलॊ रुक्मपार्श्वस तदानघ वज्राशनिसमं नादम अमुञ्चत विशां पते ॥ 5 ॥
सकृद उत्सृज्य तं नादं तरासयानॊ मृगद्विजान मानुषं वचनं पराह धृष्टॊ बिलशयॊ महान ॥ 6 ॥
सक्तु परस्थेन वॊ नायं यज्ञस तुल्यॊ नराधिपाः उञ्छवृत्तेर वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ 7 ॥
तस्य तद वचनं शरुत्वा नकुलस्य विशां पते विस्मयं परमं जग्मुः सर्वे ते बराह्मणर्षभाः ॥ 8 ॥
ततः समेत्य नकुलं पर्यपृच्छन्त ते दविजाः कुतस तवं समनुप्राप्तॊ यज्ञं साधु समागमम ॥ 9 ॥
किं बलं परमं तुभ्यं किं शरुतं किं परायणम कथं भवन्तं विद्याम यॊ नॊ यज्ञं विगर्हसे ॥ 10 ॥
अविलुप्यागमं कृत्स्नं विधिज्ञैर याजकैः कृतम यथागमं यथान्यायं कर्तव्यं च यथा कृतम ॥ 11 ॥
पूजार्हाः पूजिताश चात्र विधिवच छास्त्र चक्षुषा मन्त्रपूतं हुतश चाग्निर दत्तं देयम अमत्सरम ॥ 12 ॥
तुष्टा दविजर्षभाश चात्र दानैर बहुविधैर अपि कषत्रियाश च सुयुद्धेन शराद्धैर अपि पितामहाः ॥ 13 ॥
पालनेन विशस तुष्टाः कामैस तुष्टा वरस्त्रियः अनुक्रॊशैस तथा शूद्रा दानशेषैः पृथग्जनाः ॥ 14 ॥
जञातिसंबन्धिनस तुष्टाः शौचेन च नृपस्य नः देवा हविर्भिः पुण्यैश च रक्षणैः शरणा गताः ॥ 15 ॥
यद अत्र तथ्यं तद बरूहि सत्यसंध दविजातिषु यथा शरुतं यथादृष्टं पृष्टॊ बराह्मण काम्यया ॥ 16 ॥
शरद्धेयवाक्यः पराज्ञस तवं दिव्यं रूपं बिभर्षि च समागतश च विप्रैस तवं तत्त्वतॊ वक्तुम अर्हसि ॥ 17 ॥
इति पृष्टॊ दविजैस तैः स परहस्य नकुलॊ ऽबरवीत नैषानृता मया वाणी परॊक्ता दर्पेण वा दविजाः ॥ 18 ॥
यन मयॊक्तम इदं किं चिद युस्माभिश चाप्य उपश्रुतम सक्तु परस्थेन वॊ नायं यज्ञस तुल्यॊ नराधिपाः उञ्छवृत्तेर वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ 19 ॥
इत्य अवश्यं मयैतद वॊ वक्तव्यं दविजपुंगवाः शृणुताव्यग्र मनसः शंसतॊ मे दविजर्षभाः ॥ 20 ॥
अनुभूतं च दृष्टं च यन मयाद्भुतम उत्तमम उञ्छवृत्तेर यथावृत्तं कुरुक्षेत्रनिवासिनः ॥ 21 ॥
सवर्गं येन दविजः पराप्तः सभार्यः स सुत सनुषः यथा चार्धं शरीरस्य ममेदं काञ्चनी कृतम ॥ 22 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 92
Reach this point to mark the section finished.
Continue to अध्याय 93