धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 91

  1. [व] शमयित्वा पशून अन्यान विधिवद दविजसत्तमाः तुरगं तं यथाशास्त्रम आलभन्त दविजातयः ॥ 1 ॥

  2. ततः संज्ञाप्य तुरगं विधिवद याजकर्षभाः उपसंवेशयन राजंस ततस तां दरुपदात्मजाम कलाभिस तिसृभी राजन यथाविधि मनस्विनीम ॥ 2 ॥

  3. उद्धृत्य तु वपां तस्य यथाशास्त्रं दविजर्षभाः शरपयाम आसुर अव्यग्राः शास्त्रवद भरतर्षभ ॥ 3 ॥

  4. तं वपा धूमगन्धं तु धर्मराजः सहानुजः उपाजिघ्रद यथान्यायं सर्वपाप्मापहं तदा ॥ 4 ॥

  5. शिष्टान्य अङ्गानि यान्य आसंस तस्याश्वस्य नराधिप तान्य अग्नौ जुहुवुर धीराः समस्ताः षॊडशर्त्विजः ॥ 5 ॥

  6. संस्थाप्यैवं तस्य राज्ञस तं करतुं शक्र तेजसः वयासः स शिष्यॊ भगवान वर्धयाम आस तं नृपम ॥ 6 ॥

  7. ततॊ युधिष्ठिरः परादात सदस्येभ्यॊ यथाविधि कॊटीसहस्रं निष्काणां वयासाय तु वसुंधराम ॥ 7 ॥

  8. परतिगृह्य धरां राजन वयासः सत्यवती सुतः अब्रवीद भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम ॥ 8 ॥

  9. पृथिवी भवतस तव एषां संन्यस्ता राजसत्तम निष्क्रयॊ दीयतां मह्यं बराह्मणा हि धनार्थिनः ॥ 9 ॥

  10. युधिष्ठिरस तु तान विप्रान परत्युवाच महामनाः भरातृभिः सहितॊ धीमान मध्ये राज्ञां महात्मनाम ॥ 10 ॥

  11. अश्वमेधे महायज्ञे पृथिवी दक्षिणा समृता अर्जुनेन जिता सेयम ऋत्विग्भ्यः परापिता मया ॥ 11 ॥

  12. वनं परवेक्ष्ये विप्रेन्द्रॊ विभजध्वं महीम इमाम चतुर्धा पृथिवीं कृत्वा चातुर्हॊत्र परमाणतः ॥ 12 ॥

  13. नाहम आदातुम इच्छामि बरह्म सवं मुनिसत्तमाः इदं हि मे मतं नित्यं भरातॄणां च ममानघाः ॥ 13 ॥

  14. इत्य उक्तवति तस्मिंस ते भरातरॊ दरौपदी च सा एवम एतद इति पराहुस तद अभूद रॊमहर्षणम ॥ 14 ॥

  15. ततॊ ऽनतरिक्षे वाग आसीत साधु साध्व इति भारत तथैव दविजसंघानां शंसतां विबभौ सवनः ॥ 15 ॥

  16. दवैपायनस तथॊक्तस तु पुनर एव युधिष्ठिरम उवाच मध्ये विप्राणाम इदं संपूजयन मुनिः ॥ 16 ॥

  17. दत्तैषा भवता मह्यं तां ते परतिददाम्य अहम हिरण्यं दीयताम एभ्यॊ दविजातिभ्यॊ धरास तु ते ॥ 17 ॥

  18. ततॊ ऽबरवीद वासुदेवॊ धर्मराजं युधिष्ठिरम यथाह भगवान वयासस तथा तत कर्तुम अर्हसि ॥ 18 ॥

  19. इत्य उक्तः स कुरुश्रेष्ठः परीतात्मा भरातृभिः सह कॊटॊ कॊटिकृतां परादाद दक्षिणां तरिगुणां करतॊः ॥ 19 ॥

  20. न करिष्यति तल लॊके कश चिद अन्यॊ नराधिपः यत्कृतं कुरु सिंहेन मरुत्तस्यानुकुर्वता ॥ 20 ॥

  21. परतिगृह्य तु तद दरव्यं कृष्ण दवौपायनः परभुः ऋत्विग्भ्यः परददौ विद्वांश चतुर्धा वयभजंश च ते ॥ 21 ॥

  22. पृथिव्या निष्क्रयं दत्त्वा तद धिरण्यं युधिष्ठिरः धूतपाप्मा जितस्वर्गॊ मुमुदे भरातृभिः सह ॥ 22 ॥

  23. ऋत्विजस तम अपर्यन्तं सुवर्णनिचयं तदा वयभजन्त दविजातिभ्यॊ यथॊत्साहं यथाबलम ॥ 23 ॥

  24. यज्ञवाटे तु यत किं चिद धिरण्यम अपि भूषणम तॊरणानि च यूपांश च घटाः पात्रीस तथेष्टकाः युधिष्ठिराभ्यनुज्ञाताः सर्वं तद वयभजन दविजाः ॥ 24 ॥

  25. अनन्तरं बराह्मणेभ्यः कषत्रिया जह्रिरे वसु तथा विट शूद्र संघाश च तथान्ये मलेच्छ जातयः कालेन महता जह्रुस तत सुवर्णं ततस ततः ॥ 25 ॥

  26. ततस ते बराह्मणाः सर्वे मुदिता जग्मुर आलयान तर्पिता वसुना तेन धर्मराज्ञा महात्मना ॥ 26 ॥

  27. सवम अंशं भगवान वयासः कुन्त्यै पादाभिवादनात परददौ तस्य महतॊ हिरण्यस्य महाद्युतिः ॥ 27 ॥

  28. शवशुरात परीतिदायं तं पराप्य सा परीतिमानसा चकार पुण्यं लॊके तु सुमहान्तं पृथा तदा ॥ 28 ॥

  29. गत्वा तव अवभृथं राजा विपाप्मा भरातृभिः सह सभाज्यमानः शुशुभे महेन्द्रॊ दैवतैर इव ॥ 29 ॥

  30. पाण्डवाश च महीपालैः समेतैः संवृतास तदा अशॊभन्त महाराज गरहास तारागणैर इव ॥ 30 ॥

  31. राजभ्यॊ ऽपि ततः परादाद रत्नानि विविधानि च गजान अश्वान अलंकारान सत्रियॊ वस्त्राणि काञ्चनम ॥ 31 ॥

  32. तद धनौघम अपर्यन्तं पार्थः पार्थिव मण्डले विसृजञ शुशुभे राजा यथा वैश्रवणस तथा ॥ 32 ॥

  33. आनाय्य च तथा वीरं राजानं बभ्रु वाहनम परदाय विपुलं वित्तं गृहान परस्थापयत तदा ॥ 33 ॥

  34. दुःशलायाश च तं पौत्रं बालकं पार्थिवर्षभ सवराज्ये पितृभिर गुप्ते परीत्या समभिषेचयत ॥ 34 ॥

  35. राज्ञश चैवापि तान सर्वान सुविभक्तान सुपूजितान परस्थापयाम आस वशीकुरुराजॊ युधिष्ठिरः ॥ 35 ॥

  36. एवं बभूव यज्ञः स धर्मराजस्य धीमतः बह्व अन्नधनरत्नौघः सुरा मैरेय सागरः ॥ 36 ॥

  37. सर्पिः पङ्का हरदा यत्र बहवश चान्न पर्वताः रसाला कर्दमाः कुल्या बभूवुर भरतर्षभ ॥ 37 ॥

  38. भक्ष्यषाण्डव रागाणां करियतां भुज्यताम इति पशूनां वध्यतां चापि नान्तस तत्र सम दृश्यते ॥ 38 ॥

  39. मत्तॊन्मत्त परमुदितं परगीत युवती जनम मृदङ्गशङ्खशब्दैश च मनॊरमम अभूत तदा ॥ 39 ॥

  40. दीयतां भुज्यतां चेति दिवारात्रम अवारितम तं महॊत्सव संकाशम अतिहृष्ट जनाकुलम कथयन्ति सम पुरुषा नानादेशनिवासिनः ॥ 40 ॥

  41. वर्षित्वा धनधाराभिः कामै रत्नैर धनैस तथा विपाप्मा भरतश्रेष्ठः कृतार्थ पराविशत पुरम ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 92

Previous: अध्याय 90