[व] स परविश्य यथान्यायं पाण्डवानां निवेशनम पितामहीम अभ्यवदत साम्ना परमवल्गुना ॥ 1 ॥
तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः सुभद्रां च यथान्यायं याश चान्याः कुरु यॊषितः ॥ 2 ॥
ददौ कुन्ती ततस ताभ्यां रत्नानि विविधानि च दरौपदी च सुभद्रा च याश चाप्य अन्या ददुः सत्रियः ॥ 3 ॥
ऊषतुस तत्र ते देव्यौ महार्हशयनासने सुपूजिते सवयं कुन्त्या पार्थस्य परियकाम्यया ॥ 4 ॥
स च राजा महावीर्यः पूजितॊ बभ्रु वाहनः धृतराष्ट्रं महीपालम उपतस्थे यथाविधि ॥ 5 ॥
युधिष्ठिरं च राजानं भीमादींश चापि पाण्डवान उपगम्य महातेजा विनयेनाभ्यवादयत ॥ 6 ॥
स तैः परेम्णा परिष्वक्तः पूजितश च यथाविधि धनं चास्मै ददुर भूरि परीयमाणा महारथाः ॥ 7 ॥
तथैव स महीपालः कृष्णं चक्रगदाधरम परद्युम्न इव गॊविन्दं विनयेनॊपतस्थिवान ॥ 8 ॥
तस्मै कृष्णॊ ददौ राज्ञे महार्हम अभिपूजितम रथं हेमपरिष्कारं दिव्याश्वयुजम उत्तमम ॥ 9 ॥
धर्मराजश च भीमश च यमजौ फल्गुनस तथा पृथक्पृथग अतीवैनं मानार्हं समपूजयन ॥ 10 ॥
ततस तृतीये दिवसे सत्यवत्याः सुतॊ मुनिः युधिष्ठिरं समभ्येत्य वाग्मी वचनम अब्रवीत ॥ 11 ॥
अद्य परभृति कौन्तेय यजस्व समयॊ हि ते मुहूर्तॊ यज्ञियः पराप्तश चॊदयन्ति च याजकाः ॥ 12 ॥
अहीनॊ नाम राजेन्द्र करतुस ते ऽयं विकल्पवान बहुत्वात काञ्चनस्यास्य खयातॊ बहुसुवर्णकः ॥ 13 ॥
एवम एव महाराज दक्षिणां तरिगुणां कुरु तरित्वं वरजतु ते राजन बराह्मणा हय अत्र कारणम ॥ 14 ॥
तरीन अश्वमेधान अत्र तवं संप्राप्य बहु दक्षिणान जञातिवध्या कृतं पापं परहास्यसि नराधिप ॥ 15 ॥
पवित्रं परमं हय एतत पावनानां च पावनम यद अश्वमेधावभृथं पराप्स्यसे कुरुनन्दन ॥ 16 ॥
इत्य उक्तः स तु तेजस्वी वयासेनामित तेजसा दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा नराधिपः परायजत वाजिमेधं महाक्रतुम ॥ 17 ॥
तत्र वेद विदॊ राजंश चक्रुः कर्माणि याजकाः परिक्रमन्तः शास्त्रज्ञा विधिवत साधु शिक्षिताः ॥ 18 ॥
न तेषां सखलितं तत्र नासीद अपहुतं तथा करमयुक्तं च युक्तं च चक्रुस तत्र दविजर्षभाः ॥ 19 ॥
कृत्वा परवर्ग्यं धर्मज्ञा यथावद दविजसत्तमाः चक्रुस ते विधिवद राजंस तथैवाभिषवं दविजाः ॥ 20 ॥
अभिषूय ततॊ राजन सॊमं सॊमप सत्तमाः सवनान्य आनुपूर्व्येण चक्रुः शास्त्रानुसारिणः ॥ 21 ॥
न तत्र कृपणः कश चिन न दरिद्रॊ बभूव ह कषुधितॊ दुःखितॊ वापि पराकृतॊ वापि मानवः ॥ 22 ॥
भॊजनं भॊजनार्थिभ्यॊ दापयाम आस नित्यदा भीमसेनॊ महातेजाः सततं राजशासनात ॥ 23 ॥
संस्तरे कुशलाश चापि सर्वकर्माणि याजकाः दिवसे दिवसे चक्रुर यथाशास्त्रार्थचक्षुषः ॥ 24 ॥
नाषद अङ्गविद अत्रासीत सदस्यस तस्य धीमतः नाव्रतॊ नानुपाध्यायॊ न च वादाक्षमॊ दविजः ॥ 25 ॥
ततॊ यूपॊच्छ्रये पराप्ते षद बैल्वान भरतर्षभ खादिरान बिल्वसमितांस तावतः सर्ववर्णिनः ॥ 26 ॥
देवदारु मयौ दवौ तु यूपौ कुरुपतेः करतौ शलेष्मातकमयं चैकं याजकाः समकारयन ॥ 27 ॥
शॊभार्थं चापरान यूपान काञ्चनान पुरुषर्षभ स भीमः कारयाम आस धर्मराजस्य शासनात ॥ 28 ॥
ते वयराजन्त राजर्षे वासॊभिर उपशॊभिताः नरेन्द्राभिगता देवान यथा सप्तर्षयॊ दिवि ॥ 29 ॥
इष्टकाः काञ्चनीश चात्र चयनार्थं कृताभवन शुशुभे चयनं तत्र दक्षस्येव परजापतेः ॥ 30 ॥
चतुश चित्यः स तस्यासीद अष्टादश करात्मकः स रुक्मपक्षॊ निचितस तरिगुणॊ गरुडाकृतिः ॥ 31 ॥
ततॊ नियुक्ताः पशवॊ यथाशास्त्रं मनीषिभिः तं तं देवं समुद्दिश्य पक्षिणः पशवश च ये ॥ 32 ॥
ऋषभाः शास्त्रपठितास तथा जलचराश च ये सर्वांस तान अभ्यजुञ्जंस ते तत्राग्निचयकर्मणि ॥ 33 ॥
यूपेषु नियतं चासीत पशूनां तरिशतं तथा अश्वरत्नॊत्तरं राज्ञः कौन्तेयस्य महात्मनः ॥ 34 ॥
स यज्ञः शुशुभे तस्य साक्षाद देवर्षिसंकुलः गन्धर्वगणसंकीर्णः शॊभितॊ ऽपसरसां गणैः ॥ 35 ॥
स किं पुरुषगीतैश च किंनरैर उपशॊभितः सिद्धविप्र निवासैश च समन्ताद अभिसंवृतः ॥ 36 ॥
तस्मिन सदसि नित्यास तु वयास शिष्या दविजॊत्तमाः सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ॥ 37 ॥
नारदश च बभूवात्र तुम्बुरुश च महाद्युतिः विश्वावसुश चित्रसेनस तथान्ये गीतकॊविदाः ॥ 38 ॥
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः रमयन्ति सम तान विप्रान यज्ञकर्मान्तरेष्व अथ ॥ 39 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 90
Reach this point to mark the section finished.
Continue to अध्याय 91