[य] शरुतं परियम इदं कृष्ण यत तवम अर्हसि भाषितुम तन मे ऽमृतरसप्रख्यं मनॊह्लादयते विभॊ ॥ 1 ॥
बहूनि किल युद्धानि विजयस्य नराधिपैः पुनर आसन हृषीकेश तत्र तत्रेति मे शरुतम ॥ 2 ॥
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः अतीव विजयॊ धीमान इति मे दूयते मनः ॥ 3 ॥
संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः किं नु तस्य शरीरे ऽसति सर्वलक्षणपूजिते अनिष्टं लक्षणं कृष्ण येन दुःखान्य उपाश्नुते ॥ 4 ॥
अतीव दुःखभागी स सततं कुन्तिनन्दनः न च पश्यामि बीभत्सॊर निन्द्यं गात्रेषु किं चन शरॊतव्यं चेन मयैतद वै तन मे वयाख्यातुम अर्हसि ॥ 5 ॥
इत्य उक्तः स हृषीकेशॊ धयात्वा सुमहद अन्तरम राजानं भॊजराजन्यवर्धनॊ विष्णुर अब्रवीत ॥ 6 ॥
न हय अस्य नृपते किं चिद अनिष्टम उपलक्षये ऋते पुरुषसिंहस्य पिण्डिके ऽसयातिकायतः ॥ 7 ॥
ताभ्यां स पुरुषव्याघ्रॊ नित्यम अध्वसु युज्यते न हय अन्यद अनुपश्यामि येनासौ दुःखभाग जयः ॥ 8 ॥
इत्य उक्तः स कुरुश्रेष्ठस तथ्यं कृष्णेन धीमता परॊवाच वृष्णिशार्दूलम एवम एतद इति परभॊ ॥ 9 ॥
कृष्णा तु दरौपदी कृष्णं तिर्यक सासूयम ऐक्षत परतिजग्राह तस्यास तं परणयं चापि केशिहा सख्युः सखा हृषीकेशः साक्षाद इव धनंजयः ॥ 10 ॥
तत्र भीमादयस ते तु कुरवॊ यादवास तथा रेमुः शरुत्वा विचित्रार्था धनंजय कथा विभॊ ॥ 11 ॥
तथा कथयताम एव तेषाम अर्जुन संकथाः उपायाद वचनान मर्त्यॊ विजयस्य महात्मनः ॥ 12 ॥
सॊ ऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान उपायातं नरव्याघ्रम अर्जुनं परत्यवेदयत ॥ 13 ॥
तच छरुत्वा नृपतिस तस्य हर्षबाष्पाकुलेक्षणः परियाख्यान निमित्तं वै ददौ बहुधनं तदा ॥ 14 ॥
ततॊ दवितीये दिवसे महाञ शब्दॊ वयवर्धत आयाति पुरुषव्याघ्रे पाण्डवानां दुरंधरे ॥ 15 ॥
ततॊ रेणुः समुद्भूतॊ विबभौ तस्य वाजिनः अभितॊ वर्तमानस्य यथॊच्चैः शरवसस तथा ॥ 16 ॥
तत्र हर्षकला वाचॊ नराणां शुश्रुवे ऽरजुनः दिष्ट्यासि पार्थ कुशली धन्यॊ राजा युधिष्ठिरः ॥ 17 ॥
कॊ ऽनयॊ हि पृथिवीं कृत्स्नाम अवजित्य स पार्थिवाम चारयित्वा हयश्रेष्ठम उपायायाद ऋते ऽरजुनम ॥ 18 ॥
ये वयतीता महात्मानॊ राजानः सगदादयः तेषाम अपीदृशं कर्म न किं चिद अनुशुश्रुम ॥ 19 ॥
नैतद अन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः यत तवं कुरु कुलश्रेष्ठ दुष्करं कृतवान इह ॥ 20 ॥
इत्य एवं वदतां तेषां नॄणां शरुतिसुखा गिरः शृण्वन विवेश धर्मात्मा फल्गुनॊ यज्ञसंस्तरम ॥ 21 ॥
ततॊ राजा सहामात्यः कृष्णश च यदुनन्दनः धृतराष्ट्रं पुरस्कृत्य ते तं परत्युद्ययुस तदा ॥ 22 ॥
सॊ ऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः भीमादींश चापि संपूज्य पर्यष्वजत केशवम ॥ 23 ॥
तैः समेत्यार्चितस तान स परत्यर्च्य च यथाविधि विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥ 24 ॥
एतस्मिन्न एव काले तु स राजा बभ्रु वाहनः मातृभ्यां सहितॊ धीमान कुरून अभ्याजगाम ह ॥ 25 ॥
स समेत्य कुरून सर्वान सर्वैर तैर अभिनन्दितः परविवेश पितामह्याः कुन्त्या भवनम उत्तमम ॥ 26 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 89
Reach this point to mark the section finished.
Continue to अध्याय 90