धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 9

  1. [इन्द्र] कच चित सुखं सवपिषि तवं बृहस्पते; कच चिन मनॊज्ञाः परिचारकास ते कच चिद देवानां सुखकामॊ ऽसि विप्र; कच चिद देवास तवां परिपालयन्ति ॥ 1 ॥

  2. [ब] सुखं शये ऽहं शयने महेन्द्र; तथा मनॊज्ञाः परिचारका मे तथा देवानां सुखकामॊ ऽसमि शक्र; देवाश च मां सुभृशं पालयन्ति ॥ 2 ॥

  3. [इ] कुतॊ दुःखं मानसं देहजं वा; पाण्डुर विवर्णश च कुतस तवम अद्य आचक्ष्व मे तद दविज यावद एतान; निहन्मि सर्वांस तव दुःखकर्तॄन ॥ 3 ॥

  4. [ब] मरुत्तम आहुर मघवन यक्ष्यमाणं; महायज्ञेनॊत्तम दक्षिणेन तं संवर्तॊ याजयितेति मे शरुतं; तद इच्छामि न स तं याजयेत ॥ 4 ॥

  5. [इ] सर्वान कामान अनुजातॊ ऽसि विप्र; यस तवं देवानां मन्त्रयसे परॊधाः उभौ च ते जन्ममृत्यू वयतीतौ; किं संवर्तस तव कर्ताद्य विप्र ॥ 5 ॥

  6. [ब] देवैः सह तवम असुरान संप्रणुद्य; जिघांससे ऽदयाप्य उत सानुबन्धान यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः ॥ 6 ॥

  7. अतॊ ऽसमि देवेन्द्र विवर्णरूपः; सपत्नॊ मे वर्धते तन निशम्य सर्वॊपायैर मघवन संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम ॥ 7 ॥

  8. [इ] एहि गच्छ परहितॊ जातवेदॊ; बृहस्पतिं परिदातुं मरुत्ते अयं वै तवा याजयिता बृहस्पतिस; तथामरं चैव करिष्यतीति ॥ 8 ॥

  9. [अग्नि] अयं गच्छामि तव शक्राद्य दूतॊ; बृहस्पतिं परिदातुं मरुत ते वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश चापचितिं चिकीर्षुः ॥ 9 ॥

  10. [व] ततः परायाद धूमकेतुर महात्मा; वनस्पतीन वीरुधश चावमृद्नन कामाद धिमान्ते परिवर्तमानः; काष्ठातिगॊ मातरिश्वेन नर्दन ॥ 10 ॥

  11. [म] आश्चर्यम अद्य पश्यामि रूपिणं वह्निम आगतम आसनं सलिलं पाद्यं गां चॊपानय वै मुने ॥ 11 ॥

  12. [अग्नि] आसनं सलिलं पाद्यं परतिनन्दामि ते ऽनघ इन्द्रेण तु समादिष्टं विद्धि मां दूतम आगतम ॥ 12 ॥

  13. [म] कच चिच छरीमान देवराजः सुखी च; कच चिच चास्मान परीयते धूमकेतॊ कच चिद देवाश चास्य वशे यथावत; तद बरूहि तवं मम कार्त्स्न्येन देव ॥ 13 ॥

  14. [अ] शक्रॊ भृशं सुसुखी पार्थिवेन्द्र; परीतिं चेच्छत्य अजरां वै तवया सः देवाश च सर्वे वशगास तस्य राजन; संदेशं तवं शृणु मे देवराज्ञः ॥ 14 ॥

  15. यदर्थं मां पराहिणॊत तवत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते अयं गुरुर याजयिता नृप तवां; मर्त्यं सन्तम अमरं तवां करॊतु ॥ 15 ॥

  16. [म] संवर्तॊ ऽयं याजयिता दविजॊ मे; बृहस्पतेर अञ्जलिर एष तस्य नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्न अद्य शॊभेत ॥ 16 ॥

  17. [अ] ये वै लॊका देवलॊके महान्तः; संप्राप्स्यसे तान देवराजप्रसादात तवां चेद असौ याजयेद वै बृहस्पतिर; नूनं सवर्गं तवं जयेः कीर्तियुक्तः ॥ 17 ॥

  18. तथा लॊका मानुषा ये च दिव्याः; परजापतेश चापि ये वै महान्तः ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश चेद याजयेत तवां नरेन्द्र ॥ 18 ॥

  19. [सम्वर्त] मास्मान एवं तवं पुनर आगाः कथं चिद; बृहस्पतिं परिदातुं मरुत्ते मा तवां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धॊ ऽहं पावकतन निबॊध ॥ 19 ॥

  20. [व] ततॊ देवान अगमद धूमकेतुर; दाहाद भीतॊ वयथितॊ ऽशवत्थ पर्णवत तं वै दृष्ट्वा पराह शक्रॊ महात्मा; बृहस्पतेः संनिधौ हव्यवाहम ॥ 20 ॥

  21. यत तवं गतः परहितॊ जातवेदॊ; बृहस्पतिं परिदातुं मरुत्ते तत किं पराह स नृपॊ यक्ष्यमाणः; कच चिद वचः परतिगृह्णाति तच च ॥ 21 ॥

  22. [अ] न ते वाचं रॊचयते मरुत्तॊ; बृहस्पतेर अञ्जलिं पराहिणॊत सः संवर्तॊ मां याजयितेत्य अभीक्ष्णं; पुनः पुनः स मया परॊच्यमानः ॥ 22 ॥

  23. उवाचेदं मानुषा ये च दिव्याः; परजापतेर ये च लॊका महान्तः तांश चेल लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयम इति परतीतः ॥ 23 ॥

  24. [इ] पुनर भवान पार्थिवं तं समेत्य; वाक्यं मदीयं परापय सवार्थयुक्तम पुनर यद युक्तॊ न करिष्यते वचस; ततॊ वज्रं संप्रहर्तास्मि तस्मै ॥ 24 ॥

  25. [अ] गन्धर्वराड यात्वयं तत्र दूतॊ; बिभेम्य अहं वासव तत्र गन्तुम संरब्धॊ माम अब्रवीत तीक्ष्णरॊषः; संवर्तॊ वाक्यं चरितब्रह्मचर्यः ॥ 25 ॥

  26. यद्य आगच्छेः पुनर एवं कथं चिद; बृहस्पतिं परिदातुं मरुत्ते दहेयं तवां चक्षुषा दारुणेन; संक्रुद्ध इत्य एतद अवैहि शक्र ॥ 26 ॥

  27. [इ] तवम एवान्यान दहसे जातवेदॊ; न हि तवदन्यॊ विद्यते भस्मकर्ता तवत्संस्पर्शात सर्वलॊकॊ बिभेत्य; अश्रद्धेयं वदसे हव्यवाह ॥ 27 ॥

  28. [अ] दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस तवं सवबलेनैव शक्र एवंविधस्येह सतस तवासौ; कथं वृत्रस तरिदिवं पराग जहार ॥ 28 ॥

  29. [इ] न चण्डिका जङ्गमा नॊ करेणुर; न वारि सॊमं परपिबामि वह्ने न दुर्बले वै विसृजामि वज्रं; कॊ मे ऽसुखाय परहरेन मनुष्यः ॥ 29 ॥

  30. परव्राजयेयं कालकेयान पृथिव्याम; अपाकर्षं दानवान अन्तरिक्षात दिवः परह्रादम अवसानम आनयं; कॊ मे ऽसुखाय परहरेत मर्त्यः ॥ 30 ॥

  31. [अ] यत्र शर्यातिं चयवनॊ याजयिष्यन; सहाश्विभ्यां सॊमम अगृह्णद एकः तं तवं करुद्धः परत्यषेधीः पुरस्ताच; छर्याति यज्ञं समर तं महेन्द्र ॥ 31 ॥

  32. वज्रं गृहीत्वा च पुरंदर तवं; संप्रहर्षीश चयवनस्यातिघॊरम स ते विप्रः सह वज्रेण बाहुम; अपागृह्णात तपसा जातमन्युः ॥ 32 ॥

  33. ततॊ रॊषात सर्वतॊ घॊररूपं; सपत्नं ते जनयाम आस भूयः मदं नामासुरं विश्वरूपं; यं तवं दृष्ट्वा चक्षुषी संन्यमीलः ॥ 33 ॥

  34. हनुर एका जगतीस्था तथैका; दिवं गता महतॊ दानवस्य सहस्रं दन्तानां शतयॊजनानां; सुतीक्ष्णानां घॊररूपं बभूव ॥ 34 ॥

  35. वृत्ताः सथूला रजतस्तम्भवर्णा; दंष्ट्राश चतस्रॊ दवे शते यॊजनानाम स तवां दन्तान विदशन्न अभ्यधावञ; जिघांसया शूलम उद्यम्य घॊरम ॥ 35 ॥

  36. अपश्यस तवं तं तदा घॊररूपं; सर्वे तव अन्ये ददृशुर दर्शनीयम यस्माद भीतः पराञ्जलिस तवं महर्षिम; आगच्छेथाः शरणं दानवघ्न ॥ 36 ॥

  37. कषत्राद एवं बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः सॊ ऽहं जानं बरह्मतेजॊ यथावन; न संवर्तं गन्तुम इच्छामि शक्र ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8