[स] गिरेर हिमवतः पृष्ठे पुञ्जवान नाम पर्वतः तप्यते यत्र भगवांस तपॊनित्यम उमापतिः ॥ 1 ॥
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च गुहासु शैलराजस्य यथाकामं यथासुखम ॥ 2 ॥
उमा सहायॊ भगवान यत्र नित्यं महेश्वरः आस्ते शूली महातेजा नाना भूतगणावृतः ॥ 3 ॥
तत्र रुद्राश च साध्याश च विश्वे ऽथ वसवस तथा यमश च वरुणश चैव कुबेरश च सहानुगः ॥ 4 ॥
भूतानि च पिशाचाश चनासत्याव अश्विनाव अपि गन्धर्वाप्सरसश चैव यक्षा देवर्षयस तथा ॥ 5 ॥
आदित्या मरुतश चैव यातुधानाश च सर्वशः उपासन्ते महात्मानं बहुरूपम उमापतिम ॥ 6 ॥
रमते भगवांस तत्र कुबेरानुचरैः सह विकृतैर विकृताकारैः करीडद्भिः पृथिवीपते शरिया जवलन दृश्यते वै बालादित्य समद्युतिः ॥ 7 ॥
न रूपं दृश्यते तस्य संस्थानं वा कथं चन निर्देष्टुं पराणिभिः कैश चित पराकृतैर मांसलॊचनैः ॥ 8 ॥
नॊष्णं न शिशिरं तत्र न वायुर न च भास्करः न जरा कषुत्पिपासे वा न मृत्युर न भयं नृप ॥ 9 ॥
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर धातवॊ जातरूपस्य रश्मयः सवितुर यथा ॥ 10 ॥
रक्ष्यन्ते ते कुबेरस्य सहायैर उद्यतायुधैः चिकीर्षद्भिः परियं राजन कुबेरस्य महात्मनः ॥ 11 ॥
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥ 12 ॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च तर्यक्ष्णे पूष्णॊ दन्तभिदे वामनाय शिवाय च ॥ 13 ॥
याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च कषेम्याय हरि नेत्राय सथाणवे पुरुषाय च ॥ 14 ॥
हरि केशाय मुण्डाय कृशायॊत्तारणाय च भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ 15 ॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे गिरिशाय परशान्ताय यतये चीरवाससे ॥ 16 ॥
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च मृगव्याधाय महते धन्विने ऽथ भवाय च ॥ 17 ॥
वराय सौम्य वक्त्राय पशुहस्ताय वर्षिणे हिरण्यबाहवे राजन्न उग्राय पतये दिशाम ॥ 18 ॥
पशूनां पतये चैव भूतानां पतये तथा वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ 19 ॥
सरुव हस्ताय पतये धन्विने भार्गवाय च अजाय कृष्ण नेत्राय विरूपाक्षाय चैव ह ॥ 20 ॥
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानर मुखाय च महाद्युतये ऽनङ्गाय सर्वाङ्गाय परजावते ॥ 21 ॥
तथा शुक्राधिपतये पृथवे कृत्ति वाससे कपालमालिने नित्यं सुवर्णमुकुटाय च ॥ 22 ॥
महादेवाय कृष्णाय तर्यम्बकायानघाय च करॊधनाय नृशंसाय मृदवे बाहुशालिने ॥ 23 ॥
दण्डिने तप्ततपसे तथैव करूरकर्मणे सहस्रशिरसे चैव सहस्रचरणाय च नमः सवधा सवरूपाय बहुरूपाय दंष्ट्रिणे ॥ 24 ॥
पिनाकिनं महादेवं महायॊगिनम अव्ययम तरिशूलपाणिं वरदं तयम्बकं भुवनेश्वरम ॥ 25 ॥
तरिपुरघ्नं तरिनयनं तरिलॊकेशं महौजसम परभवं सर्वभूतानां धारणं धरणीधरम ॥ 26 ॥
ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम उमापतिं पशुपतिं विश्वरूपं महेश्वरम ॥ 27 ॥
विरूपाक्षं दश भुजं तिष्यगॊवृषभध्वजम उग्रं सथाणुं शिवं घॊरं शर्वं गौरी शमीश्वरम ॥ 28 ॥
शितिकण्ठम अजं शुक्रं पृथुं पृथु हरं हरम विश्वरूपं विरूपाक्षं बहुरूपम उमापतिम ॥ 29 ॥
परणम्य शिरसा देवम अनङ्गाङ्गहरं हरम शरण्यं शरणं याहि महादेवं चतुर्मुखम ॥ 30 ॥
एवं कृत्वा नमस तस्मै महादेवाय रंहसे महात्मने कषितिपते तत सुवर्णम अवाप्स्यसि सुवर्णम आहरिष्यन्तस तत्र गच्छन्तु ते नराः ॥ 31 ॥
[व] इत्य उक्तः स वचस तस्य चक्रे कारंधमात्मजः ततॊ ऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम सौवर्णानि च भाण्डानि संचक्रुस तत्र शिल्पिनः ॥ 32 ॥
बृहस्पतिस तु तां शरुत्वा मरुत्तस्य महीपतेः समृद्धिमति देवेभ्यः संतापम अकरॊद भृशम ॥ 33 ॥
स तप्यमानॊ वैवर्ण्यं कृशत्वं चागमत परम भविष्यति हि मे शत्रुः संवर्तॊ वसुमान इति ॥ 34 ॥
तं शरुत्वा भृशसंतप्तं देवराजॊ बृहस्पतिम अभिगम्यामर वृतः परॊवाचेदं वचस तदा ॥ 35 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 8
Reach this point to mark the section finished.
Continue to अध्याय 9