[इ] एवम एतद बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः आविक्षितस्य तु बलं न मृष्ये; वज्रम अस्मै परहरिष्यामि घॊरम ॥ 1 ॥
धृतराष्ट्र परहितॊ गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व बृहस्पतिं तवम उपशिक्षस्व राजन; वज्रं वा ते परहरिष्यामि घॊरम ॥ 2 ॥
[व] ततॊ गत्वा घृतराष्ट्रॊ नरेन्द्रं; परॊवाचेदं वचनं वासवस्य गन्धर्वं मां धृतराष्ट्रं निबॊध; तवाम आगतं वकु कामं नरेन्द्र ॥ 3 ॥
ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत पराह लॊकाधिपतिर महात्मा बृहस्पतिं याजकं तवं वृणीष्व; वज्रं वा ते परहरिष्यामि घॊरम वचश चेद एतन न करिष्यसे मे; पराहैतद एतावद अचिन्त्यकर्मा ॥ 4 ॥
[म] तवं चैवैतद वेत्थ पुरंदरश च; विश्वे देवा वसवश चाश्विनौ च मित्रद्रॊहे निष्कृतिर वै यथैव; नास्तीति लॊकेषु सदैव वादः ॥ 5 ॥
बृहस्पतिर याजयिता महेन्द्रं; देव शरेष्ठं वज्रभृतां वरिष्ठम संवर्तॊ मां याजयिताद्य राजन; न ते वाक्यं तस्य वा रॊचयामि ॥ 6 ॥
[गन्धर्व] घॊरॊ नादः शरूयते वासवस्य; नभस्तले गर्जतॊ राजसिंह वयक्तं वज्रं मॊक्ष्यते ते महेन्द्रः; कषेमं राजंश चिन्त्यताम एष कालः ॥ 7 ॥
इत्य एवम उक्तॊ धृतराष्ट्रेण राजा; शरुत्वा नादं नदतॊ वासवस्य तपॊनित्यं धर्मविदां वरिष्ठं; संवर्तं तं जञापयाम आस कार्यम ॥ 8 ॥
[म] इमम अश्मानं पलवमानम आराद; अध्वा दूरं तेन न दृश्यते ऽदय परपद्ये ऽहं शर्म विप्रेन्द्र तवत्तः; परयच्छ तस्माद अभयं विप्रमुख्य ॥ 9 ॥
अयम आयाति वै वज्री दिशॊ विद्यॊतयन दश अमानुषेण घॊरेण सदस्यास तरासिता हि नः ॥ 10 ॥
[स] भयं शक्राद वयेतु ते राजसिंह; परणॊत्स्ये ऽहं भयम एतत सुघॊरम संस्तम्भिन्या विद्यया कषिप्रम एव; मा भैस तवम अस्माद भव चापि परतीतः ॥ 11 ॥
अहं संस्तम्भयिष्यामि मा भैस तवं शक्रतॊ नृप सर्वेषाम एव देवानां कषपितान्य आयुधानि मे ॥ 12 ॥
दिशॊ वज्रं वरजतां वायुर एतु; वर्षं भूत्वा निपततु काननेषु आपः पलवन्त्व अन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस तवम ॥ 13 ॥
अथॊ वह्निस तरातुवा सर्वतस ते; कामवर्षं वर्षतु वासवॊ वा वज्रं तथा सथापयतां च वायुर; महाघॊरं पलवमानं जलौघैः ॥ 14 ॥
[म] घॊरः शब्दः शरूयते वै महास्वनॊ; वज्रस्यैष सहितॊ मारुतेन आत्मा हि मे परव्यथते मुहुर मुहुर; न मे सवास्थ्यं जायते चाद्य विप्र ॥ 15 ॥
[स] वज्राद उग्राद वयेतु भयं तवाद्य; वातॊ भूत्वा हन्मि नरेन्द्र वज्रम भयं तयक्त्वा वरम अन्यं वृणीष्व; कं ते कामं तपसा साधयामि ॥ 16 ॥
[म] इन्द्रः साक्षात सहसाभ्येतु विप्र; हविर यज्ञे परतिगृह्णातु चैव सवं सवं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सॊमं परतिगृह्णन्तु चैव ॥ 17 ॥
[स] अयम इन्द्रॊ हरिभिर आयाति राजन; देवैः सर्वैः सहितः सॊमपीथी मन्त्राहूतॊ यज्ञम इमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्त कायम ॥ 18 ॥
[व] ततॊ देवैः सहितॊ देवराजॊ; रथे युक्त्वा तान हरीन वाजिमुख्यान आयाद यज्ञम अधि राज्ञः पिपासुर; आविक्षितस्याप्रमेयस्य सॊमम ॥ 19 ॥
तम आयान्तं सहितं देवसंघैः; परत्युद्ययौ स पुरॊधा मरुत्तः चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत परीयमाणः ॥ 20 ॥
[स] सवागतं ते पुरुहूतेह विद्वन; यज्ञॊ ऽदयायं संनिहिते तवयीन्द्र शॊशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सॊमं सुतम उद्यतं मया ॥ 21 ॥
[म] शिवेन मां पश्य नमश च ते ऽसतु; पराप्तॊ यज्ञः सफलं जीवितं मे अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेर अवरॊ जन्मना यः ॥ 22 ॥
[इ] जानामि ते गुरुम एनं तपॊधनं; बृहस्पतेर अनुजं तिग्मतेजसम यस्याह्वानाद आगतॊ ऽहं नरेन्द्र; परीतिर मे ऽदय तवयि मनुः परनष्टः ॥ 23 ॥
[स] यदि परीतस तवम असि वै देवराज; तस्मात सवयं शाधि यज्ञे विधानम सवयं सर्वान कुरु मार्गान सुरेन्द्र; जानात्व अयं सर्वलॊकश च देव ॥ 24 ॥
[व] एवम उक्तस तव आङ्गिरसेन शक्रः; समादिदेश सवयम एव देवान सभाः करियन्ताम आवसथाश च मुख्याः; सहस्रशश चित्रभौमाः समृद्धाः ॥ 25 ॥
कॢप्त सथूणाः कुरुतारॊहणानि; गन्धर्वाणाम अप्सरसां च शीघ्रम येषु नृत्येरन्न अप्सरसः सहस्रशः; सवर्गॊद्देशः करियतां यज्ञवाटः ॥ 26 ॥
इत्य उक्तास ते चक्रुर आशु परतीता; दिवौकसः शक्र वाक्यान नरेन्द्र ततॊ वाक्यं पराह राजानम इन्द्रः; परीतॊ राजन पूजयानॊ मरुत्तम ॥ 27 ॥
एष तवयाहम इह राजन समेत्य; ये चाप्य अन्ये तव पूर्वे नरेन्द्राः सर्वाश चान्या देवताः परीयमाणा; हविस तुभ्यं परतिगृह्णन्तु राजन ॥ 28 ॥
आग्नेयं वै लॊहितम आलभन्तां; वैश्वदेवं बहुरूपं विराजन नीलं चॊक्षाणं मेध्यम अभ्यालभन्तां; चलच छिश्नं मत परदिष्टं दविजेन्द्राः ॥ 29 ॥
ततॊ यज्ञॊ ववृधे तस्य राज्ञॊ; यत्र देवाः सवयम अन्नानि जह्रुः यस्मिञ शक्रॊ बराह्मणैः पूज्यमानः; सदस्यॊ ऽभूद धरिमान देवराजः ॥ 30 ॥
ततः संवर्तश चित्यगतॊ महात्मा; यथा वह्निः परज्वलितॊ दवितीयः हवींष्य उच्चैर आह्वयन देवसंघाञ; जुहावाग्नौ मन्त्रवत सुप्रतीतः ॥ 31 ॥
ततः पीत्वा बलभित सॊमम अग्र्यं; ये चाप्य अन्ये सॊमपा वै दिवौकसः सर्वे ऽनुज्ञाताः परययुः पार्थिवेन; यथाजॊषं तर्पिताः परीतिमन्तः ॥ 32 ॥
ततॊ राजा जातरूपस्य राशीन; पदे पदे कारयाम आस हृष्टः दविजातिभ्यॊ विसृजन भूरि वित्तं; रराज वित्तेश इवारि हन्ता ॥ 33 ॥
ततॊ वित्तं विविधं संनिधाय; यथॊत्साहं कारयित्वा च कॊशम अनुज्ञातॊ गुरुणा संनिवृत्य; शशास गाम अखिलां सागरान्ताम ॥ 34 ॥
एवंगुणः संबभूवेह राजा; यस्य करतौ तत सुवर्णं परभूतम तत तवं समादाय नरेन्द्र वित्तं; यजस्व देवांस तर्पयानॊ विधानैः ॥ 35 ॥
[व] ततॊ राजा पाण्डवॊ हृष्टरूपः; शरुत्वा वाक्यं सत्यवत्याः सुतस्य मनश चक्रे तेन वित्तेन यष्टुं; ततॊ ऽमात्यैर मन्त्रयाम आस भूयः ॥ 36 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 10
Reach this point to mark the section finished.
Continue to अध्याय 11