धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 88

  1. [व] समागतान वेद विदॊ राज्ञश च पृथिवीश्वरान दृष्ट्वा युधिष्ठिरॊ राजा भीमसेनम अथाब्रवीत ॥ 1 ॥

  2. उपयाता नरव्याघ्रा य इमे जगद ईश्वराः एतेषां करियतां पूजा पूजार्हा हि नरेश्वराः ॥ 2 ॥

  3. इत्य उक्तः स तथा चक्रे नरेन्द्रेण यशस्विना भीमसेनॊ महातेजा यमाभ्यां सह भारत ॥ 3 ॥

  4. अथाभ्यगच्छद गॊविन्दॊ वृष्णिभिः सहधर्मजम बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ॥ 4 ॥

  5. युयुधानेन सहितः परद्युम्नेन गदेन च निशठेनाथ साम्बेन तथैव कृतवर्मणा ॥ 5 ॥

  6. तेषाम अपि परां पूजां चक्रे भीमॊ महाभुजः विविशुस ते च वेश्मानि रत्नवन्ति नरर्षभाः ॥ 6 ॥

  7. युधिष्ठिर समीपे तु कथान्ते मधुसूदनः अर्जुनं कथयाम आस बहु संग्रामकर्शितम ॥ 7 ॥

  8. स तं पप्रच्छ कौन्तेयः पुनः पुनर अरिंदमम धर्मराड भरातरं जिष्णुं समाचष्ट जगत्पतिः ॥ 8 ॥

  9. आगमद दवारकावासी ममाप्तः पुरुषॊ नृप यॊ ऽदराक्षीत पाण्डवश्रेष्ठं बहु संग्रामकर्शितम ॥ 9 ॥

  10. समीपे च महाबाहुम आचष्ट च मम परभॊ कुरु कार्याणि कौन्तेय हयमेधार्थ सिद्धये ॥ 10 ॥

  11. इत्य उक्तः परत्युवाचैनं धर्मराजॊ युधिष्ठिरः दिष्ट्या स कुशली जिष्णुर उपयाति च माधव ॥ 11 ॥

  12. तव यत संदिदेशासौ पाण्डवानां बलाग्रणीः तद आख्यातुम इहेच्छामि भवता यदुनन्दन ॥ 12 ॥

  13. इत्य उक्ते राजशार्दूल वृष्ण्यन्धकपतिस तदा परॊवाचेदं वचॊ वाग्मी धर्मात्मानं युधिष्ठिरम ॥ 13 ॥

  14. इदम आह महाराज पार्थ वाक्यं नरः स माम वाच्यॊ युधिष्ठिरः कृष्ण काले वाक्यम इदं मम ॥ 14 ॥

  15. आगमिष्यन्ति राजानः सर्वतः कौरवान परति तेषाम एकैकशः पूजा कार्येत्य एतत कषमं हि नः ॥ 15 ॥

  16. इत्य एतद वचनाद राजा विज्ञाप्यॊ मम मानद न तदात्ययिकम हि सयाद यद अर्घ्यानयने भवेत ॥ 16 ॥

  17. कर्तुम अर्हति तद राजा भवांश चाप्य अनुमन्यताम राजद्वेषाद विनश्येयुर नेमा राजन परजाः पुनः ॥ 17 ॥

  18. इदम अन्यच च कौन्तेय वचः स पुरुषॊ ऽबरवीत धनंजयस्य नृपते तन मे निगदतः शृणु ॥ 18 ॥

  19. उपयास्यति यज्ञं नॊ मणिपूर पतिर नृपः पुत्रॊ मम महातेजा दयितॊ बभ्रु वाहनः ॥ 19 ॥

  20. तं भवान मद अपेक्षार्थं विधिवत परतिपूजयेत स हि भक्तॊ ऽनुरक्तश च मम नित्यम इति परभॊ ॥ 20 ॥

  21. इत्य एतद वचनं शरुत्वा धर्मराजॊ युधिष्ठिरः अभिनन्द्यास्य तद वाक्यम इदं वचनम अब्रवीत ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 89

Previous: अध्याय 87