[व] तस्मिन यज्ञे परवृत्ते तु वाग्मिनॊ हेतुवादिनः हेतुवादान बहून पराहुः परस्परजिगीषवः ॥ 1 ॥
ददृशुस तं नृपतयॊ यज्ञस्य विधिम उत्तमम देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ॥ 2 ॥
ददृशुस तॊरणान्य अत्र शातकुम्भमयानि ते शय्यासनविहारांश च सुबहून रत्नभूषितान ॥ 3 ॥
घटान पात्रीः कटाहानि कलशान वर्धमानकान न हि किं चिद असौवर्णम अपश्यंस तत्र पार्थिवाः ॥ 4 ॥
यूपांश च शास्त्रपठितान दारवान हेमभूषितान उपकॢप्तान यथाकालं विधिवद भूरि वर्चसः ॥ 5 ॥
सथलजा जलजा ये च पशवः के चन परभॊ सर्वान एव समानीतांस तान अपश्यन्त ते नृपाः ॥ 6 ॥
गाश चैव महिषीश चैव तथा वृद्धाः सत्रियॊ ऽपि च औदकानि च सत्त्वानि शवापदानि वयांसि च ॥ 7 ॥
जरायुजान्य अण्डजानि सवेदजान्य उद्भिदानि च पर्वतानूप वन्यानि भूतानि ददृशुश च ते ॥ 8 ॥
एवं परमुदितं सर्वं पशुगॊधनधान्यतः यज्ञवाटं नृपा दृष्ट्वा परं विस्मयम आगमन बराह्मणानां विशां चैव बहु मृष्टान्नम ऋद्धिमत ॥ 9 ॥
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम दुन्दुभिर मेघनिर्घॊषॊ मुहुर मुहुर अताड्यत ॥ 10 ॥
विननादासकृत सॊ ऽथ दिवसे दिवसे तदा एवं स ववृते यज्ञॊ धर्मराजस्य धीमतः ॥ 11 ॥
अन्नस्य बहवॊ राजन्न उत्सर्गाः पर्वतॊपमाः दधिकुल्याश च ददृशुः सर्पिषश च हरदाञ्जनाः ॥ 12 ॥
जम्बूद्वीपॊ हि सकलॊ नानाजनपदायुतः राजन्न अदृश्यतैकस्थॊ राज्ञस तस्मिन महाक्रतौ ॥ 13 ॥
तत्र जातिसहस्राणि पुरुषाणां ततस ततः गृहीत्वा धनम आजग्मुर बहूनि भरतर्षभ ॥ 14 ॥
राजानः सरग्विणश चापि सुमृष्टमणिकुण्डलाः पर्यवेषन दविजाग्र्यांस ताञ शतशॊ ऽथ सहस्रशः ॥ 15 ॥
विविधान्य अन्नपानानि पुरुषा ये ऽनुयायिनः तेषां नृपॊपभॊज्यानि बराह्मणेभ्यॊ ददुः सम ते ॥ 16 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 87
Reach this point to mark the section finished.
Continue to अध्याय 88