[व] इत्य उक्त्वानुययौ पार्थॊ हयं तं कामचारिणम नयवर्तत ततॊ वाजी येन नागाह्वयं पुरम ॥ 1 ॥
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः शरुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत ॥ 2 ॥
विजयस्य च तत कर्म गान्धारविषये तदा शरुत्वान्येषु च देशेषु स सुप्रीतॊ ऽभवन नृपः ॥ 3 ॥
एतस्मिन्न एव काले तु दवादशीं माघपाक्षिकीम इष्टं गृहीत्वा नक्षत्रं धर्मराजॊ युधिष्ठिरः ॥ 4 ॥
समानाय्य महातेजाः सर्वान भरातॄन महामनाः भीमं च नकुलं चैव सहदेवं च कौरवः ॥ 5 ॥
परॊवाचेदं वचः काले तदा धर्मभृतां वरः आमन्त्य वदतां शरेष्ठॊ भीमं भीमपराक्रमम ॥ 6 ॥
आयाति भीमसेनासौ सहाश्वेन तवानुजः यथा मे पुरुषाः पराहुर ये धनंजय सारिणः ॥ 7 ॥
उपस्थितश च कालॊ ऽयम अभितॊ वर्तते हयः माघी च पौर्णमासीयं मासः शेषॊ वृकॊदर ॥ 8 ॥
तत परस्थाप्यन्तु विद्वांसॊ बराह्मणा वेदपारगाः वाजिमेधार्थ सिद्ध्यर्थं देशं पश्यन्तु यज्ञियम ॥ 9 ॥
इत्य उक्तः स तु तच चक्रे भीमॊ नृपतिशासनम हृष्टः शरुत्वा नरपतेर आयान्तं सव्यसाचिनम ॥ 10 ॥
ततॊ ययौ भीमसेनः पराज्ञैः सथपतिभिः सह बराह्मणान अग्रतः कृत्वा कुशलान यज्ञकर्मसु ॥ 11 ॥
तं स शालचय गरामं संप्रतॊली विटङ्किनम मापयाम आस कौरव्यॊ यज्ञवाटं यथाविधि ॥ 12 ॥
सदः सपत्नी सदनं साग्नीध्रम अपि चॊत्तरम कारयाम आस विधिवन मणिहेमविभूषितम ॥ 13 ॥
सतम्भान कनकचित्रांश च तॊरणानि बृहन्ति च यज्ञायतन देशेषु दत्त्वा शुद्धं च काञ्चनम ॥ 14 ॥
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम कारयाम आस धर्मात्मा तत्र तत्र यथाविधि ॥ 15 ॥
बराह्मणानां च वेश्मानि नानादेशसमेयुषाम कारयाम आस भीमः स विविधानि हय अनेकशः ॥ 16 ॥
तथा संप्रेषयाम आस दूतान नृपतिशासनात भीमसेनॊ महाराज राज्ञाम अक्लिष्टकर्मणाम ॥ 17 ॥
ते परियार्थं कुरुपतेर आययुर नृपसत्तमाः रत्नान्य अनेकान्य आदाय सत्रियॊ ऽशवान आयुधानि च ॥ 18 ॥
तेषां निविशतां तेषु शिबिरेषु सहस्रशः नर्दतः सागरस्येव शब्दॊ दिवम इवास्पृशत ॥ 19 ॥
तेषाम अभ्यागतानां स राजा राजीवलॊचनः वयादिदेशान्न पानानि शय्याश चाप्य अति मानुषाः ॥ 20 ॥
वाहनानां च विविधाः शालाः शालीक्षु गॊरसैः उपेताः पुरुषव्याघ्र वयादिदेश स धर्मराट ॥ 21 ॥
तथा तस्मिन महायज्ञे धर्मराजस्य धीमतः समाजग्मुर मुनिगणा बहवॊ बरह्मवादिनः ॥ 22 ॥
ये च दविजातिप्रवरास तत्रासन पृथिवीपते समाजग्मुः स शिष्यांस तान पतिजग्राह कौरवः ॥ 23 ॥
सर्वांश च तान अनुययौ यावद आवसथाद इति सवयम एव महातेजा दम्भं तयक्त्वा युधिष्ठिरः ॥ 24 ॥
ततः कृत्वा सथपतयः शिल्पिनॊ ऽनये च ये तदा कृत्स्नं यज्ञविधिं राजन धर्मराज्ञे नयवेदयन ॥ 25 ॥
तच छरुत्वा धर्मराजः स कृतं सर्वम अनिन्दितम हृष्टरूपॊ ऽभवद राजा सह भरातृभिर अच्युतः ॥ 26 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 86
Reach this point to mark the section finished.
Continue to अध्याय 87