[व] शकुनेस तु सुतॊ वीरॊ गान्धाराणां महारथः परयुद्ययौ गुडाकेशं सैन्येन महता वृतः हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥ 1 ॥
अमृष्यमाणास ते यॊधा नृपतेः शकुनेर वधम अभ्ययुः सहिताः पार्थं परगृहीतशरासनाः ॥ 2 ॥
तान उवाच स धर्मात्मा बीभत्सुर अपराजितः युधिष्ठिरस्य वचनं न च ते जगृहुर हितम ॥ 3 ॥
वार्यमाणास तु पार्थेन सान्त्वपूर्वम अमर्षिताः परिवार्य हयं जग्मुस ततश चुक्रॊध पाण्डवः ॥ 4 ॥
ततः शिरांसि दीप्ताग्रैस तेषां चिच्छेद पाण्डवः कषुरैर गाण्डीवनिर्मुक्तैर नातियत्नाद इवार्जुनः ॥ 5 ॥
ते वध्यमानाः पार्थेन हयम उत्सृज्य संभ्रमात नयवर्तन्त महाराज शरवर्षार्दिता भृशम ॥ 6 ॥
वितुद्यमानस तैश चापि गान्धारैः पाण्डवर्षभः आदिश्यादिश्य तेजस्वी शिरांस्य एषां नयपातयत ॥ 7 ॥
वध्यमानेषु तेष्व आजौ गान्धारेषु समन्ततः स राजा शकुनेः पुत्रः पाण्डवं परत्यवारयत ॥ 8 ॥
तं युध्यमानं राजानं कषत्रधर्मे वयवस्थितम पार्थॊ ऽबरवीन न मे वध्या राजानॊ राजशासनात अलं युद्धेन ते वीर न ते ऽसत्य अद्य पराजयः ॥ 9 ॥
इत्य उक्तस तद अनादृत्य वाक्यम अज्ञानमॊहितः स शक्रसमकर्माणम अवाकिरत सायकैः ॥ 10 ॥
तस्य पार्थः शिरस तराणम अर्धचन्द्रेण पत्रिणा अपाहरद असंभ्रान्तॊ जयद्रथशिरॊ यथा ॥ 11 ॥
तद दृष्ट्वा विस्मयं जग्मुर गान्धाराः सर्व एव ते इच्छता तेन न हतॊ राजेत्य अपि च ते विदुः ॥ 12 ॥
गान्धारराजपुत्रस तु पलायनकृतक्षणः बभौ तैर एव सहितस तरस्तैः कषुद्रमृगैर इव ॥ 13 ॥
तेषां तु तरसा पार्थस तत्रैव परिधावताम विजहारॊत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ 14 ॥
उच्छ्रितांस तु भुजान के चिन नाबुध्यन्त शरैर हृतान शरैर गाण्डीवनिर्मुक्तैः पृथुभिः पार्थ चॊदितैः ॥ 15 ॥
संभ्रान्तनरनागाश्वम अथ तद विद्रुतं बलम हतविध्वस्तभूयिष्ठम आवर्तत मुहुर मुहुः ॥ 16 ॥
न हय अदृश्यन्त वीरस्य के चिद अग्रे ऽगर्यकर्मणः रिपवः पात्यमाना वै ये सहेयुर महाशरान ॥ 17 ॥
ततॊ गान्धारराजस्य मन्त्रिवृद्ध पुरःसरा जननी निर्ययौ भीता पुरस्कृत्यार्घ्यम उत्तमम ॥ 18 ॥
सा नयवारयद अव्यग्रा तं पुत्रं युद्धदुर्मदम परसादयाम आस च तं जिष्णुम अक्लिष्टकारिणम ॥ 19 ॥
तां पूजयित्वा कौन्तेयः परसादम अकरॊत तदा शकुनेश चापि तनयं सान्त्वयन्न इदम अब्रवीत ॥ 20 ॥
न मे परियं महाबाहॊ यत ते बुद्धिर इयं कृता परतियॊद्धुम अमित्रघ्न भरातैव तवं ममानघ ॥ 21 ॥
गान्धारीं मातरं समृत्वा धृतराष्ट्र कृतेन च तेन जीवसि राजंस तवं निहतास तव अनुगास तव ॥ 22 ॥
मैवं भूः शाम्यतां वैरं मा ते भूद बुद्धिर ईदृशी आगन्तव्यं परां चैत्रीम अश्वमेधे नृपस्य नः ॥ 23 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 85
Reach this point to mark the section finished.
Continue to अध्याय 86