[व] मागधेनार्चितॊ राजन पाण्डवः शवेतवाहनः दक्षिणां दिशम आस्थाय चारयाम आस तं हयम ॥ 1 ॥
ततः स पुनर आवृत्य हयः कामचरॊ बली आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम ॥ 2 ॥
शरभेणार्चितस तत्र शिशुपालात्मजेन सः युद्धपूर्वेण मानेन पूजया च महाबलः ॥ 3 ॥
तत्रार्चितॊ ययौ राजंस तदा स तुरगॊत्तमः काशीन अन्ध्रान कॊसलांश च किरातान अथ तङ्गनान ॥ 4 ॥
तत्र पूजां यथान्यायं परतिगृह्य स पाण्डवः पुनर आवृत्य कौन्तेयॊ दशार्णान अगमत तदा ॥ 5 ॥
तत्र चित्राङ्गदॊ नाम बलवान वसुधाधिपः तेन युद्धम अभूत तस्य विजयस्याति भैरवम ॥ 6 ॥
तं चापि वशम आनीय किरीटी पुरुषर्षभः निषादराज्ञॊ विषयम एकलव्यस्य जग्मिवान ॥ 7 ॥
एकलव्य सुतश चैनं युद्धेन जगृहे तदा ततश चक्रे निषादैः स संग्रामं रॊमहर्षणम ॥ 8 ॥
ततस तम अपि कौन्तेयः समरेष्व अपराजितः जिगाय समरे वीरॊ यज्ञविघ्नार्थम उद्यतम ॥ 9 ॥
स तं जित्वा महाराज नैषादिं पाकशासनिः अर्चितः परययौ भूयॊ दक्षिणं सलिलार्णवम ॥ 10 ॥
तत्रापि दरविडैर अन्ध्रै रैद्रैर माहिषकैर अपि तथा कॊल्ल गिरेयैश च युद्धम आसीत किरीटिनः ॥ 11 ॥
तुरगस्य वशेनाथ सुराष्ट्रान अभितॊ ययौ गॊकर्णम अपि चासाद्य परभासम अपि जग्मिवान ॥ 12 ॥
ततॊ दवारवतीं रम्यां वृष्णिवीराभिरक्षिताम आससाद यहः शरीमान कुरुराजस्य यज्ञियः ॥ 13 ॥
तम उन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः परययुस तांस तदा राजन्न उग्रसेनॊ नयवारयत ॥ 14 ॥
ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस तदा सहितॊ वसुदेवेन मातुलेन किरीटिनः ॥ 15 ॥
तौ समेत्य कुरुश्रेष्ठं विधिवत परीतिपूर्वकम परया भरतश्रेष्ठं पूजया समवस्थितौ ततस ताभ्याम अनुज्ञातॊ ययौ येन हयॊ गतः ॥ 16 ॥
ततः स पश्चिमं देशं समुद्रस्य तदा हयः करमेण वयचरत सफीतं ततः पञ्चनदं ययौ ॥ 17 ॥
तस्माद अपि स कौरव्य गान्धारविषयं हयः विचचार यथाकामं कौन्तेयानुगतस तदा ॥ 18 ॥
तत्र गान्धारराजेन युद्धम आसीन महात्मनः घॊरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥ 19 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 84
Reach this point to mark the section finished.
Continue to अध्याय 85