धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 83

  1. [व] स तु वाजी समुद्रान्तां पर्येत्य पृथिवीम इमाम निवृत्तॊ ऽभिमुखॊ राजन्येन नागाह्वयं पुरम ॥ 1 ॥

  2. अनुगच्छंश च तेजस्वी निवृत्तॊ ऽथ किरीटभृत यदृच्छया समापेदे पुरं राजगृहं तदा ॥ 2 ॥

  3. तम अभ्याशगतं राजा जरासंधात्मजात्मजः कषत्रधर्मे सथितॊ वीरः समरायाजुहाव ह ॥ 3 ॥

  4. ततः पुरात स निष्क्रम्य रथी धन्वी शरी तली मेघसंधिः पदातिं तं धनंजयम उपाद्रवत ॥ 4 ॥

  5. आसाद्य च महातेजा मेघसंधिर धनंजयम बालभावान महाराज परॊवाचेदं न कौशलात ॥ 5 ॥

  6. किम अयं चार्यते वाजी सत्रीमध्य इव भारत हयम एनं हरिष्यामि परयतस्व विमॊक्षणे ॥ 6 ॥

  7. अदत्तानुनयॊ युद्धे यदि तवं पितृभिर मम करिष्यामि तवातिथ्यं परहरप्रहरामि वा ॥ 7 ॥

  8. इत्य उक्तः परत्युवाचैनं पाण्डवः परहसन्न इव विघ्नकर्ता मया वार्य इति मे वरतम आहितम ॥ 8 ॥

  9. भरात्रा जयेष्ठेन नृपते तवापि विदितं धरुवम परहरस्व यथाशक्ति न मन्युर विद्यते मम ॥ 9 ॥

  10. इत्य उक्तः पराहरत पूर्वं पाण्डवं मगधेश्वरः किरञ शरसहस्राणि वर्षाणीव सहस्रदृक ॥ 10 ॥

  11. ततॊ गाण्डीवभृच छूरॊ गाण्डीवप्रेषितैः शरैः चकार मॊघांस तान बाणान अयत्नाद भरतर्षभ ॥ 11 ॥

  12. स मॊघं तस्य बाणौघं कृत्वा वानरकेतनः शरान मुमॊच जवलितान दीप्तास्यान इव पन्नगान ॥ 12 ॥

  13. धवजे पताका दण्डेषु रथयन्त्रे हयेषु च अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥ 13 ॥

  14. संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह मन्यमानः सववीर्यं तन मागधः पराहिणॊच छरान ॥ 14 ॥

  15. ततॊ गाण्डीवभृच छूरॊ मागधेन समाहतः बभौ वासन्तिक इव पलाशः पुष्पितॊ महान ॥ 15 ॥

  16. अवध्यमानः सॊ ऽभयघ्नन मागधः पाण्डवर्षभम तेन तस्थौ स कौरव्य लॊकवीरस्य दर्शने ॥ 16 ॥

  17. सव्यसाची तु संक्रुद्धॊ विकृष्य बलवद धनुः हयांश चकार निर्देहान सारथेश च शिरॊ ऽहरत ॥ 17 ॥

  18. धनुश चास्य महच चित्रं कषुरेण परचकर्त ह हस्तावापं पताकां च धवजं चास्य नयपातयत ॥ 18 ॥

  19. स राजा वयथितॊ वयश्वॊ विधनुर हतसारथिः गदाम आदाय कौन्तेयम अभिदुद्राव वेगवान ॥ 19 ॥

  20. तस्यापतत एवाशु गदां हेमपरिष्कृताम शरैश चकर्त बहुधा बहुभिर गृध्रवाजितैः ॥ 20 ॥

  21. सा गदा शकलीभूता विशीर्णमणिबन्धना वयाली निर्मुच्यमानेव पपातास्य सहस्रधा ॥ 21 ॥

  22. विरथं तं विधन्वानं गदया परिवर्जितम नैच्छत ताडयितुं धीमान अर्जुनः समराग्रणीः ॥ 22 ॥

  23. तत एनं विमनसं कषत्रधर्मे समास्थितम सान्त्वपूर्वम इदं वाक्यम अब्रवीत कपिकेतनः ॥ 23 ॥

  24. पर्याप्तः कषत्रधर्मॊ ऽयं दर्शितः पुत्र गम्यताम बह्व एतत समरे कर्म तव बालस्य पार्थिव ॥ 24 ॥

  25. युधिष्ठिरस्य संदेशॊ न हन्तव्या नृपा इति तेन जीवसि राजंस तवम अपराद्धॊ ऽपि मे रणे ॥ 25 ॥

  26. इति मत्वा स चात्मानं परत्यादिष्टं सम मागधः तथ्यम इत्य अवगम्यैनं पराञ्जलिः परत्यपूजयत ॥ 26 ॥

  27. तम अर्जुनः समाश्वास्य पुनर एवेदम अब्रवीत आगन्तव्यं परां चैत्रीम अश्वमेधे नृपस्य नः ॥ 27 ॥

  28. इत्य उक्तः स तथेत्य उक्त्वा पूजयाम आस तं हयम फल्गुनं च युधां शरेष्ठं विधिवत सहदेवजः ॥ 28 ॥

  29. ततॊ यथेष्टम अगमत पुनर एव स केसरी ततः समुद्रतीरेण वङ्गान पुण्ड्रान स केरलान ॥ 29 ॥

  30. तत्र तत्र च भूरीणि मेच्छ सैन्यान्य अनेकशः विजिग्ये धनुषा राजन गाण्डीवेन धनंजयः ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 84

Previous: अध्याय 82