[व] परायॊपविष्टे नृपतौ मणिपूरेश्वरे तदा पितृशॊकसमाविष्टे सह मात्रा परंतप ॥ 1 ॥
उलूपी चिन्तयाम आस तदा संजीवनं मणिम स चॊपातिष्ठत तदा पन्नगानां परायणम ॥ 2 ॥
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता मनः परह्लादनीं वाचं सैनिकानाम अथाब्रवीत ॥ 3 ॥
उत्तिष्ठ मां शुचः पुत्र नैष जिष्णुस तवया हतः अजेयः पुरुषैर एष देवैर वापि स वासवैः ॥ 4 ॥
मया तु मॊहिनी नाम मायैषा संप्रयॊजिता परियार्थं पुरुषेन्द्रस्य पितुस ते ऽदय यशस्विनः ॥ 5 ॥
जिज्ञासुर हय एष वै पुत्रबलस्य तव कौरवः संग्रामे युध्यतॊ राजन नागतः परवीरहा ॥ 6 ॥
तस्माद असि मया पुत्र युद्धार्थं परिचॊदितः मा पापम आत्मनः पुत्र शङ्केथास तव अण्व अपि परभॊ ॥ 7 ॥
ऋषिर एष महातेजाः पुरुषः शाश्वतॊ ऽवययः नैनं शक्तॊ हि संग्रामे जेतुं शक्रॊ ऽपि पुत्रक ॥ 8 ॥
अयं तु मे मणिर दिव्यः समानीतॊ विशां पते मृतान मृतान पन्नगेन्द्रान यॊ जीवयति नित्यदा ॥ 9 ॥
एतम अस्यॊरसि तवं तु सथापयस्व पितुः परभॊ संजीवितं पुनः पुत्र ततॊ दरष्टासि पाण्डवम ॥ 10 ॥
इत्य उक्तः सथापयाम आस तस्यॊरसि मणिं तदा पार्थस्यामित तेजाः स पितुः सनेहाद अपाक कृत ॥ 11 ॥
तस्मिन नयस्ते मणौ वीर जिष्णुर उज्जीवितः परभुः सुप्तॊत्थित इवॊत्तस्थौ मृष्टलॊहित लॊचनः ॥ 12 ॥
तम उत्थितं महात्मानं लब्धसंज्ञं मनस्विनम समीक्ष्य पितरं सवस्थं ववन्दे बभ्रु वाहनः ॥ 13 ॥
उत्थिते पुरुषव्याघ्रे पुनर लक्ष्मीवति परभॊ दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ॥ 14 ॥
अनाहता दुन्दुभयः परणेदुर मेघनिस्वनाः साधु साध्व इति चाकाशे बभूव सुमहास्वनः ॥ 15 ॥
उत्थाय तु महाबाहुः पर्याश्वस्तॊ धनंजयः बभ्रु वाहनम आलिङ्ग्य समाजिघ्रत मूर्धनि ॥ 16 ॥
ददर्श चाविदूरे ऽसय मातरं शॊककर्शिताम उलूप्या सह तिष्ठन्तीं ततॊ ऽपृच्छद धनंजयः ॥ 17 ॥
किम इदं लक्ष्यते सर्वं शॊकविस्मय हर्षवत रणाजिरम अमित्रघ्न यदि जानासि शंस मे ॥ 18 ॥
जननी च किमर्थं ते रणभूमिम उपागता नागेन्द्र दुहिता चेयम उलूपी किम इहागता ॥ 19 ॥
जानाम्य अहम इदं युद्धं तवया मद्वचनात कृतम सत्रीणाम आगमने हेतुम अहम इच्छामि वेदितुम ॥ 20 ॥
तम उवाच ततः पृष्टॊ मणिपूर पतिस तदा परसाद्य शिरसा विद्वान उलूपी पृच्छ्यताम इति ॥ 21 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 81
Reach this point to mark the section finished.
Continue to अध्याय 82