धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 80

  1. [व] तथा विलप्यॊपरता भर्तुः पादौ परगृह्य सा उपविष्टाभवद देवी सॊच्छ्वासं पुत्रम ईक्षती ॥ 1 ॥

  2. ततः संज्ञां पुनर लब्ध्वा स राजा बभ्रु वाहनः मातरं ताम अथालॊक्य रणभूमाव अथाव्रवीत ॥ 2 ॥

  3. इतॊ दुःखतरं किं नु यन मे माता सुखैधिता भूमौ निपतितं वीरम अनुशेते मृतं पतिम ॥ 3 ॥

  4. निहन्तारं रणे ऽरीणां सर्वशस्त्रभृतां वरम मया विनिहतं संख्ये परेक्षते दुर्मरं बत ॥ 4 ॥

  5. अहॊ ऽसया हृदयं देव्या दृढं यन न विदीर्यते वयूढॊरस्कं महाबाहुं परेक्षन्त्या निहतं पतिम ॥ 5 ॥

  6. दुर्मरं पुरुषेणेह मन्ये हय अध्वन्य अनागते यत्र नाहं न मे माता विप्रयुज्येत जीवितात ॥ 6 ॥

  7. अहॊ धिक कुरुवीरस्य हय उरः सथं काञ्चनं भुवि वयपविद्धं हतस्येह मया पुत्रेण पश्यत ॥ 7 ॥

  8. भॊ भॊ पश्यत मे वीरं पितरं बराह्मणा भुवि शयानं वीरशयने मया पुत्रेण पातितम ॥ 8 ॥

  9. बराह्मणाः कुरुमुख्यस्य परयुक्ता हयसारिणः कुर्वन्तु शान्तिकां तव अद्य रणे यॊ ऽयं महाहतः ॥ 9 ॥

  10. वयादिशन्तु च किं विप्राः परायश्चित्तम इहाद्य मे सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥ 10 ॥

  11. दुश्चरा दवादश समा हत्वा पितरम अद्य वै ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥ 11 ॥

  12. शिरः कपाले चास्यैव भुञ्जतः पितुर अद्य मे परायश्चित्तं हि नास्त्य अन्यद धत्वाद्य पितरं मम ॥ 12 ॥

  13. पश्य नागॊत्तम सुते भर्तारं निहतं मया कृतं परियं मया ते ऽदय निहत्य समरे ऽरजुनम ॥ 13 ॥

  14. सॊ ऽहम अप्य अद्य यास्यामि गतिं पितृनिषेविताम न शक्नॊम्य आत्मनात्मानम अहं धारयितुं शुभे ॥ 14 ॥

  15. सा तवं मयि मृते मातस तथा गाण्डीवधन्विनि भव परीतिमती देवि सत्येनात्मानम आलभे ॥ 15 ॥

  16. इत्य उक्त्वा स तदा राजा दुःखशॊकसमाहतः उपस्पृश्य महाराज दुःखाद वचनम अब्रवीत ॥ 16 ॥

  17. शृण्वन्तु सर्वभूतानि सथावराणि चराणि च तवं च मातर यथासत्यं बरवीमि भुजगॊत्तमे ॥ 17 ॥

  18. यदि नॊत्तिष्ठति जयः पिता मे भरतर्षभः अस्मिन्न एव रणॊद्देशे शॊषयिष्ये कलेवरम ॥ 18 ॥

  19. न हि मे पितरं हत्वा निष्कृतिर विद्यते कव चित नरकं परतिपत्स्यामि धरुवं गुरु वधार्दितः ॥ 19 ॥

  20. वीरं हि कषत्रियं हत्वा गॊशतेन परमुच्यते पितरं तु निहत्यैवं दुस्तरा निष्कृतिर मया ॥ 20 ॥

  21. एष हय एकॊ महातेजाः पाण्डुपुत्रॊ धनंजयः पिता च मम धर्मात्मा तस्य मे निष्कृतिः कृतः ॥ 21 ॥

  22. इत्य एवम उक्त्वा नृपते धनंजय सुतॊ नृपः उपस्पृश्याभवत तूष्णीं परायॊपेतॊ महामतिः ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 81

Previous: अध्याय 79