[व] ततॊ बबु विधं भीरुर विलप्य कमलेक्षणा मुमॊह दुःखाद दुर्धर्षा निपपात च भूतले ॥ 1 ॥
परतिलभ्य च सा संज्ञां देवी दिव्यवपुर धरा उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यम अब्रवीत ॥ 2 ॥
उलूपि पश्य भर्तारं शयानं निहतं रणे तवत्कृते मम पुत्रेण बालेन समितिंजयम ॥ 3 ॥
ननु तवम आर्ये धर्मज्ञा ननु चासि पतिव्रता यत तवत्कृते ऽयं पतितः पतिस ते निहतॊ रणे ॥ 4 ॥
किं तु सर्वापराधॊ ऽयं यदि ते ऽदय धनंजयः कषमस्व याच्यमाना मे संजीवय धनंजयम ॥ 5 ॥
ननु तवम आर्ये धर्मज्ञा तरैलॊक्यविदिता शुभे यद घातयित्वा भर्तारं पुतेणेह न शॊचसि ॥ 6 ॥
नाहं शॊचामि तनयं निहतं पन्नगात्मजे पतिम एव तु शॊचामि यस्यातिथ्यम इदं कृतम ॥ 7 ॥
इत्य उक्त्वा सा तदा देवीम उलूपीं पन्नगात्मजाम भर्तारम अभिगम्येदम इत्य उवाच यशस्विनी ॥ 8 ॥
उत्तिष्ठ कुरुमुख्यस्य परियकाममम परिय अयम अश्वॊ महाबाहॊ मया ते परिमॊक्षितः ॥ 9 ॥
ननु नाम तवया वीरधर्मराजस्य यज्ञियः अयम अश्वॊ ऽनुसर्तव्यः स शेषे किं महीतले ॥ 10 ॥
तवयि पराणाः समायत्ताः कुरूणां कुरुनन्दन स कस्मात पराणदॊ ऽनयेषां पराणान संत्यक्तवान असि ॥ 11 ॥
उलूपि साधु संपश्य भर्तारं निहतं रणे पुत्रं चैनं समुत्साह्य घातयित्वा न शॊचसि ॥ 12 ॥
कामं सवपितु बालॊ ऽयं भूमौ परेतगतिं गतः लॊहिताक्षॊ गुडाकेशॊ विजयः साधु जीवतु ॥ 13 ॥
नापराधॊ ऽसति सुभगे नराणां बहुभार्यता नारीणां तु भवत्य एतन मा ते भूद बुद्धिर ईदृशी ॥ 14 ॥
सख्यं हय एतत कृतं धात्रा शाश्वतं चाव्ययं च ह सख्यं समभिजानीहि सत्यं संगतम अस्तु ते ॥ 15 ॥
पुत्रेण घातयित्वेमं पतिं यदि न मे ऽदय वै जीवन्तं दर्शयस्य अद्य परित्यक्ष्यामि जीवितम ॥ 16 ॥
साहं दुःखान्विता भीरु पतिपुत्र विनाकृता इहैव परायम आशिष्ये परेक्षन्त्यास ते न संशयः ॥ 17 ॥
इत्य उक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी ततः परायम उपासीना तूष्णीम आसीज जनाधिप ॥ 18 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 79
Reach this point to mark the section finished.
Continue to अध्याय 80