धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 7

  1. [स] कथम अस्मि तवया जञातः केन वा कथितॊ ऽसमि ते एतद आचक्ष्व मे तत्त्वम इच्छसे चेत परियं मम ॥ 1 ॥

  2. सत्यं ते बरुवतः सर्वे संपत्स्यन्ते मनॊरथाः मिथ्या तु बरुवतॊ मूर्धा सप्तधा ते फलिष्यति ॥ 2 ॥

  3. [म] नारदेन भवान मह्यम आख्यातॊ हय अटता पथि गुरुपुत्रॊ ममेति तवं ततॊ मे परीतिर उत्तमा ॥ 3 ॥

  4. [स] सत्यम एतद भवान आह स मां जानाति सत्रिणम कथयस्वैतद एकं मे कव नु संप्रति नारदः ॥ 4 ॥

  5. [म] भवन्तं कथयित्वा तु मम देवर्षिसत्तमः ततॊ माम अभ्यनुज्ञाय परविष्टॊ हव्यवाहनम ॥ 5 ॥

  6. शरुत्वा तु पार्थिवस्यैतत संवर्तः परया मुदा एतावद अहम अप्य एनं कुर्याम इति तदाब्रवीत ॥ 6 ॥

  7. ततॊ मरुत्तम उन्मत्तॊ वाचा निर्भर्त्सयन्न इव रूक्षया बराह्मणॊ राजन पुनः पुनर अथाब्रवीत ॥ 7 ॥

  8. वातप्रधानेन मया सवचित्तवशवर्तिना एवं विकृतरूपेण कथं याजितुम इच्छसि ॥ 8 ॥

  9. भराता मम समर्थश च वासवेन च सत्कृतः वर्तते याजने चैव तेन कर्माणि कारय ॥ 9 ॥

  10. गृहं सवं चैव याज्याश च सर्वा गुह्याश च देवताः पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं तव इदम ॥ 10 ॥

  11. नाहं तेनाननुज्ञातस तवाम आविक्षित कर्हि चित याजयेयं कथं चिद वै स हि पूज्यतमॊ मम ॥ 11 ॥

  12. स तवं बृहस्पतिं गच्छ तम अनुज्ञाप्य चाव्रज ततॊ ऽहं याजयिष्ये तवां यदि यष्टुम इहेच्छसि ॥ 12 ॥

  13. [म] बृहस्पतिं गतः पूर्वम अहं संवर्ततच छृणु न मां कामयते याज्यम असौ वासव वारितः ॥ 13 ॥

  14. अमरं याज्यम आसाद्य माम ऋषे मा सम मानुषम याजयेथा मरुत्तं तवं मर्त्यधर्माणम आतुरम ॥ 14 ॥

  15. सपर्धते च मया विप्र सदा वै स हि पार्थिवः एवम अस्त्व इति चाप्य उक्तॊ भरात्रा ते बलवृत्रहा ॥ 15 ॥

  16. स माम अभिगतं परेम्णा याज्यवन न बुभूषति देवराजम उपाश्रित्य तद विद्धि मुनिपुंगव ॥ 16 ॥

  17. सॊ ऽहम इच्छामि भवता सर्वस्वेनापि याजितुम कामये समतिक्रान्तुं वासवं तवत्कृतैर गुणैः ॥ 17 ॥

  18. न हि मे वर्तते बुद्धिर गन्तुं बरह्मन बृहस्पतिम परत्याख्यातॊ हि तेनास्मि तथानपकृते सति ॥ 18 ॥

  19. [स] चिकीर्षसि यथाकामं सर्वम एतत तवयि धरुवम यदि सर्वान अभिप्रायान कर्तासि मम पार्थिव ॥ 19 ॥

  20. याज्यमानं मया हि तवां बृहस्पतिपुरंदरौ दविषेतां समभिक्रुद्धाव एतद एकं समर्थय ॥ 20 ॥

  21. सथैर्यम अत्र कथं ते सयात स तवं निःसंशयं कुरु कुपितस तवां न हीदानीं भस्म कुर्यां स बान्धवम ॥ 21 ॥

  22. [म] यावत तपेत सहस्रांशुस तिष्ठेरंश चापि पर्वताः तावल लॊकान न लभेयं तयजेयं संगतं यदि ॥ 22 ॥

  23. मा चापि शुभबुद्धित्वं लभेयम इह कर्हि चित सम्यग जञाने वैषये वा तयजेयं संगतं यदि ॥ 23 ॥

  24. [स] आविक्षित शुभा बुद्धिर धीयतां तव कर्मसु याजनं हि ममाप्य एवं वर्तते तवयि पार्थिव ॥ 24 ॥

  25. संविधास्ये च ते राजन्न अक्षयं दरव्यम उत्तमम येन देवान स गन्धर्वाञ शक्रं चाभिभविष्यसि ॥ 25 ॥

  26. न तु मे वर्तते बुद्धिर धने याज्येषु वा पुनः विप्रियं तु चिकीर्षामि भरातुश चेन्द्रस्य चॊभयॊः ॥ 26 ॥

  27. गमयिष्यामि चेन्द्रेण समताम अपि ते धरुवम परियं च ते करिष्यामि सत्यम एतद बरवीमि ते ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 8

Previous: अध्याय 6