[व] शरुत्वा तु नृपतिर वीरं पितरं बभ्रु वाहनः निर्ययौ विनयेनार्यॊ बराह्मणार्घ्य पुरःसरः ॥ 1 ॥
मणिपूरेश्वरं तव एवम उपयातं धनंजयः नाभ्यनन्दत मेधावी कषत्रधर्मम अनुस्मरन ॥ 2 ॥
उवाच चैनं धर्मात्मा स मन्युः फल्गुनस तदा परक्रियेयं न ते युक्ता बहिस तवं कषत्रधर्मतः ॥ 3 ॥
संरक्ष्यमाणं तुरगं यौधिष्ठिरम उपागतम यज्ञियं विषयान्ते मां नायॊत्सीः किं नु पुत्रक ॥ 4 ॥
धिक्त्वाम अस्तु सुदुर्बुद्धिं कषत्रधर्मविशारदम यॊ मां युद्धाय संप्राप्तं साम्नैवाथॊ तवम अग्रहीः ॥ 5 ॥
न तवया पुरुषार्थश च कश चिद अस्तीह जीवता यस तवं सत्रीवद युधा पराप्तं साम्ना मां परत्यगृह्णथाः ॥ 6 ॥
यद्य अहं नयस्तशस्त्रस तवाम आगच्छेयं सुदुर्मते परक्रियेयं ततॊ युक्ता भवेत तव नराधम ॥ 7 ॥
तम एवम उक्तं भर्त्रा तु विदित्वा पन्नगात्मजा अमृष्यमाणा भित्त्वॊर्वीम उलूपी तम उपागमत ॥ 8 ॥
सा ददर्श ततः पुत्रं विमृशन्तम अधॊमुखम संतर्ज्यमानम असकृद भर्त्रा युद्धार्थिना विभॊ ॥ 9 ॥
ततः सा चारुसर्वाङ्गी तम उपेत्यॊरगात्मजा उलूपी पराह वचनं कषत्रधर्मविशारदा ॥ 10 ॥
उलूपीं मां निबॊध तवं मातरं पन्नगात्मजाम कुरुष्व वचनं पुत्र धर्मस ते भविता परः ॥ 11 ॥
युध्यस्वैनं कुरुश्रेष्ठं धनंजयम अरिंदम एवम एष हि ते परीतॊ भविष्यति न संशयः ॥ 12 ॥
एवम उद्धर्षितॊ मात्रा स राजा बभ्रु वाहनः मनश चक्रे महातेजा युद्धाय भरतर्षभ ॥ 13 ॥
संनह्य काञ्चनं वर्म शिरस तराणं च भानुमत तूणी रशत संबाधम आरुरॊह महारथम ॥ 14 ॥
सर्वॊपकरणैर युक्तं युक्तम अश्वैर मनॊजवैः सुचक्रॊपस्करं धीमान हेमभाण्ड परिष्कृतम ॥ 15 ॥
परमार्चितम उच्छ्रित्य धवजं सिंहं हिरण्मयम परययौ पार्थम उद्दिश्य स राजा बभ्रु वाहनः ॥ 16 ॥
ततॊ ऽभयेत्य हयं वीरॊ यज्ञियं पार्थ रक्षितम गराहयाम आस पुरुषैर हयशिक्षा विशारदैः ॥ 17 ॥
गृहीतं वाजिनं दृष्ट्वा परीतात्मा सधनंजयः पुत्रं रथस्थं भूमिष्ठः संन्यवारयद आहवे ॥ 18 ॥
ततः स राजा तं वीरं शरव्रातैः सहस्रशः अर्दयाम आस निशितैर आशीविषविषॊपमैः ॥ 19 ॥
तयॊः समभवद युद्धं पितुः पुत्रस्य चातुलम देवासुररणप्रख्यम उभयॊः परीयमाणयॊः ॥ 20 ॥
किरीटिनं तु विव्याध शरेण नतपर्वणा जत्रु देशे नरव्याघ्रः परहसन बभ्रु वाहनः ॥ 21 ॥
सॊ ऽभयगात सह पुङ्खेन वल्मीकम इव पन्नगः विनिर्भिद्य च कौन्तेयं महीतलम अथाविशत ॥ 22 ॥
स गाढवेदनॊ धीमान आलम्ब्य धनुर उत्तमम दिव्यं तेजः समाविश्य परमीत इव संबभौ ॥ 23 ॥
स संज्ञाम उपलभ्याथ परशस्य पुरुषर्षभः पुत्रं शक्रात्मजॊ वाक्यम इदम आह महीपते ॥ 24 ॥
साधु साधु महाबाहॊ वत्स चित्राङ्गदात्मज सदृशं कर्म ते दृष्ट्वा परीतिमान अस्मि पुत्रक ॥ 25 ॥
विमुञ्चाम्य एष बाणांस ते पुत्र युद्धे सथिरॊ भव इत्य एवम उक्त्वा नाराचैर अभ्यवर्षद अमित्रहा ॥ 26 ॥
तान स गाण्डीवनिर्मुक्तान वज्राशनिसमप्रभान नाराचैर अच्छिनद राजा सर्वान एव तरिधा तरिधा ॥ 27 ॥
तस्य पार्थः शरैर दिव्यैर धवजं हेमपरिष्कृतम सुवर्णतालप्रतिमं कषुरेणापाहरद रथात ॥ 28 ॥
हयांश चास्य महाकायान महावेगपराक्रमान चकार राज्ञॊ निर्जीवान परहसन पाण्डवर्षभः ॥ 29 ॥
स रथाद अवतीर्याशु राजा परमकॊपनः पदातिः पितरं कॊपाद यॊधयाम आस पाण्डवम ॥ 30 ॥
संप्रीयमाणः पाण्डूनाम ऋषभः पुत्र विक्रमात नात्यर्थं पीडयाम आस पुत्रं वज्रधराथमः ॥ 31 ॥
स हन्यमानॊ विमुखं पितरं बभ्रु वाहनः शरैर आशीविषाकारैः पुनर एवार्दयद बली ॥ 32 ॥
ततः स बाल्यात पितरं विव्याध हृदि पत्रिणा निशितेन सुपुङ्खेन बलवद बभ्रु वाहनः ॥ 33 ॥
स बाणस तेजसा दीप्तॊ जवलन्न इव हुताशनः विवेश पाण्डवं राजन मर्म भित्त्वातिदुःख कृत ॥ 34 ॥
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः महीं जगाम मॊहार्तस ततॊ राजन धनंजयः ॥ 35 ॥
तस्मिन निपतिते वीरे कौरवाणां धुरंधरे सॊ ऽपि मॊहं जगामाशु ततश चित्राङ्गदा सुतः ॥ 36 ॥
वयायम्य संयुगे राजा दृष्ट्वा च पितरं हतम पूर्वम एव च बाणौघैर गाढविद्धॊ ऽरजुनेन सः ॥ 37 ॥
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि चित्राङ्गदा परित्रस्ता परविवेश रणाजिरम ॥ 38 ॥
शॊकसंतप्त हृदया रुदती सा ततः शुभा मणिपूर पतेर माता ददर्श निहतं पतिम ॥ 39 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 78
Reach this point to mark the section finished.
Continue to अध्याय 79