धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 77

  1. [व] ततॊ गाण्डीवभृच छूरॊ युद्धाय समवस्थितः विबभौ युधि दुर्धर्षॊ हिमवान अचलॊ यथा ॥ 1 ॥

  2. ततः सैन्धव यॊधास ते पुनर एव वयवस्थिताः विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ॥ 2 ॥

  3. तान परसह्य महावीर्यः पुनर एव वयवस्थितान ततः परॊवाच कौन्तेयॊ मुमूर्षञ शलक्ष्णया गिरा ॥ 3 ॥

  4. युध्यध्वं परया शक्त्या यतध्वं च वधे मम कुरुध्वं सर्वकार्याणि महद वॊ भयम आगतम ॥ 4 ॥

  5. एष यॊत्स्यामि वः सर्वान निवार्य शरवागुराम तिष्ठध्वं युद्धमनसॊ दर्पं विनयितास्मि वः ॥ 5 ॥

  6. एतावद उक्त्वा कौरव्यॊ रुषा गाण्डीवभृत तदा ततॊ ऽथ वचनं समृत्वा भरातुर जयेष्ठस्य भारत ॥ 6 ॥

  7. न हन्तव्या रणे तात कषत्रिया विजिगीषवः जेतव्याश चेति यत परॊक्तं धर्मराज्ञा महात्मना चिन्तयाम आस च तदा फल्गुनः पुरुषर्षभः ॥ 7 ॥

  8. इत्य उक्तॊ ऽहं नरेन्द्रेण न हन्तव्या नृपा इति कथं तन न मृषेह सयाद धर्मराज वचः शुभम ॥ 8 ॥

  9. न हन्येरंश च राजानॊ राज्ञश चाज्ञा कृता भवेत इति संचिन्त्य स तदा भरातुः परियहिते रतः परॊवाच वाक्यं धर्मज्ञः सन्धवान युद्धदुर्मदान ॥ 9 ॥

  10. बालान सत्रियॊ वा युष्माकं न हनिष्ये वयवस्थितान यश च वक्ष्यति संग्रामे तवास्मीति पराजितः ॥ 10 ॥

  11. एतच छरुत्वा वचॊ मह्यं कुरुध्वं हितम आत्मनः अतॊ ऽनयथा कृच्छ्रगता भविष्यथ महार्दिताः ॥ 11 ॥

  12. एवम उक्त्वा तु तान वीरान युयुधे कुरुपुंगवः अत्वरावान असंरब्धः संरब्धैर विजिगीषुभिः ॥ 12 ॥

  13. ततः शतसहस्राणि शराणां नतपर्वणाम मुमुचुः सैन्धवा राजंस तदा गाण्डीवधन्वनि ॥ 13 ॥

  14. स तान आतपतः करूरान आशीविषविषॊपमान चिच्छेद निशितैर बाणैर अन्तरैव धनंजयः ॥ 14 ॥

  15. छित्त्वा तु तान आशु गमान कङ्कपत्राञ शिलाशितान एकैकम एष दशभिर बिभेद समरे शरैः ॥ 15 ॥

  16. ततः परासांश च शक्तींश च पुनर एव धनंजये जयद्रथं हतं समृत्वा चिक्षिपुः सैन्धवा नृपाः ॥ 16 ॥

  17. तेषां किरीटी संकल्पं मॊघं चक्रे महामनाः सर्वांस तान अन्तरा छित्त्वा मुदा चुक्रॊश पाण्डवः ॥ 17 ॥

  18. तथैवापततां तेषां यॊधानां जय गृद्धिनाम शिरांसि पातयाम आस भल्लैः संनतपर्वभिः ॥ 18 ॥

  19. तेषां परद्रवतां चैव पुनर एव च धावताम निवर्ततां च शब्दॊ ऽभूत पूर्णस्येव महॊदधेः ॥ 19 ॥

  20. ते वध्यमानास तु तदा पार्थेनामित तेजसा यथाप्राणं यथॊत्साहं यॊधयाम आसुर अर्जुनम ॥ 20 ॥

  21. ततस ते फल्गुनेनाजौ शरैः संनतपर्वभिः कृता विसंज्ञा भूयिष्ठाः कलान्तवाहन सैनिकाः ॥ 21 ॥

  22. तांस तु सर्वान परिग्लानान विदित्वा धृतराष्ट्रजा दुःशला बालम आदाय नप्तारं परययौ तदा सुरथस्य सुतं वीरं रथेनानागसं तदा ॥ 22 ॥

  23. शान्त्य अर्थं सर्वयॊधानाम अभ्यगच्छत पाण्डवम सा धनंजयम आसाद्य मुमॊचार्तस्वरं तदा धनंजयॊ ऽपि तां दृष्ट्वा धनुर विससृजे परभुः ॥ 23 ॥

  24. समुत्सृष्ट धनुः पार्थॊ विधिवद भगिनीं तदा पराह किं करवाणीति सा च तं वाक्यम अब्रवीत ॥ 24 ॥

  25. एष ते भरतश्रेष्ठ सवस्रीयस्यात्मजः शिशुः अभिवादयते वीर तं पश्य पुरुषर्षभ ॥ 25 ॥

  26. इत्य उक्तस तस्य पितरं स पप्रच्छार्जुनस तदा कवासाव इति ततॊ राजन दुःशला वाक्यम अब्रवीत ॥ 26 ॥

  27. पितृशॊकाभिसंतप्तॊ विषादार्तॊ ऽसय वै पिता पञ्चत्वम अगमद वीर यथा तन मे निबॊध ह ॥ 27 ॥

  28. स पूर्वं पितरं शरुत्वा हतं युद्धे तवयानघ तवाम आगतं च संश्रुत्य युद्धाय हयसारिणम पितुश च मृत्युदुःखार्तॊ ऽजहात पराणान धनंजय ॥ 28 ॥

  29. पराप्तॊ बीभत्सुर इत्य एव नाम शरुत्वैव ते ऽनघ विषादार्तः पपातॊर्व्या ममार च ममात्मजः ॥ 29 ॥

  30. तं तु दृष्ट्वा निपतितं ततस तस्यात्मजं विभॊ गृहीत्वा समनुप्राप्ता तवाम अद्य शरणैषिणी ॥ 30 ॥

  31. इत्य उक्त्वार्तस्वरं सातु मुमॊच धृतराष्ट्रजा दीना दीनं सथितं पार्थम अब्रवीच चाप्य अधॊमुखम ॥ 31 ॥

  32. सवसारं माम वेक्षस्व सवस्रीयात्ममम एव च कर्तुम अर्हसि धर्मज्ञ दयां मयि कुरूद्वह विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम ॥ 32 ॥

  33. अभिमन्यॊर यथा जातः परिक्षित परवीर हा तथायं सुरथाज जातॊ मम पौत्रॊ महाभुज ॥ 33 ॥

  34. तम आदाय नरव्याघ्र संप्ताप्तास्मि तवान्तिकम शमार्थं सर्वयॊधानां शृणु चेदं वचॊ मम ॥ 34 ॥

  35. आगतॊ ऽयं महाबाहॊ तस्य मन्दस्य पौत्रकः परसादम अस्य बालस्य तस्मात तवं कर्तुम अर्हसि ॥ 35 ॥

  36. एष परसाद्य शिरसा मया सार्धम अरिंदम याचते तवां महाबाहॊ शमं गच्छ धनंजय ॥ 36 ॥

  37. बालस्य हतबन्धॊश च पार्थ किं चिद अजानतः परसादं कुरु धर्मज्ञ मा मन्युवशम अन्वगाः ॥ 37 ॥

  38. तम अनार्यं नृशंसं च विस्मृत्यास्य पितामहम आगः कारिणम अत्यर्थं परसादं कर्तुम अर्हसि ॥ 38 ॥

  39. एवं बरुवत्यां करुणं दुःशलायां धनंजयः संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम परॊवाच दुःखशॊकार्तः कषत्रधर्मं विगर्हयन ॥ 39 ॥

  40. धिक तं दुर्यॊधनं कषुद्रं राज्यलुब्धं च मानिनम यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम ॥ 40 ॥

  41. इत्य उक्त्वा बहु सान्त्वादि परसादम अकरॊज जयः परिष्वज्य च तां परीतॊ विससर्ज गृहान परति ॥ 41 ॥

  42. दुःशला चापि तान यॊधान निवार्य महतॊ रणात संपूज्य पार्थं परययौ गृहान परति शुभानना ॥ 42 ॥

  43. ततः सैन्धवकान यॊधान विनिर्जित्य नरर्षभः पुनर एवान्वधावत स तं हयं कामचारिणम ॥ 43 ॥

  44. ससार यज्ञियं वीरॊ विधिवत स विशां पते तारामृगम इवाकाशे देवदेवः पिनाक धृक ॥ 44 ॥

  45. स च वाजी यथेष्टेन तांस तान देशान यथासुखम विचचार यथाकामं कर्म पार्थस्य वर्धयन ॥ 45 ॥

  46. करमेण सहयस तव एवं विचरन भरतर्षभ मणिपूर पतेर देशम उपायात सह पाण्डवः ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 78

Previous: अध्याय 76