धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 76

  1. [व] सैन्धवैर अभवद युद्धं ततस तस्य किरीटिनः हतशेषैर महाराज हतानां च सुतैर अपि ॥ 1 ॥

  2. ते ऽवतीर्णम उपाश्रुत्य विषयं शवेतवाहनम परत्युद्ययुर अमृष्यन्तॊ राजानः पाण्डवर्षभम ॥ 2 ॥

  3. अश्वं च तं परामृश्य विषयान्ते विषॊपमाः न भयं चक्रिरे पार्थाद भीमसेनाद अनन्तरात ॥ 3 ॥

  4. ते ऽविदूराद धनुष्पाणिं यज्ञियस्य हयस्य च बीभत्सुं परत्यपद्यन्त पदातिनम अवस्थितम ॥ 4 ॥

  5. ततस ते तु महावीर्या राजानः पर्यवारयन जिगीषन्तॊ नरव्याघ्राः पूर्वं विनिकृता युधि ॥ 5 ॥

  6. ते नामान्य अथ गॊत्राणि कर्माणि विविधानि च कीर्तयन्तस तदा पार्थं शरवर्षैर अवाकिरन ॥ 6 ॥

  7. ते किरन्तः शरांस तीक्ष्णान वारणेन्द्र निवारणान रणे जयम अभीप्सन्तः कौन्तेयं पर्यवारयन ॥ 7 ॥

  8. ते ऽसमीक्ष्यैव तं वीरम उग्रकर्माणम आहवे सर्वे युयुधिरे वीरा रथस्थास तं पदातिनम ॥ 8 ॥

  9. ते तम आजघ्निरे वीरं निवातकवचान्तकम संशप्तक निहन्तारं हन्तारं सैन्धवस्य च ॥ 9 ॥

  10. ततॊ रथसहस्रेण हयानाम अयुतेन च कॊष्ठकी कृत्यकौन्तेयं संप्रहृष्टम अयॊधयन ॥ 10 ॥

  11. संस्मरन्तॊ वधं वीराः सिन्धुराजस्य धीमतः जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥ 11 ॥

  12. ततः पर्जन्यवत सर्वे शरवृष्टिम अवासृजन तैः कीर्णः शुशुभे पार्थॊ रविर मेघान्तरे यथा ॥ 12 ॥

  13. स शरैः समवच्छन्नॊ ददृशे पाण्डवर्षभः पञ्जरान्तर संचारी शकुन्त इव भारत ॥ 13 ॥

  14. ततॊ हाहाकृतं सर्वं कौन्तेये शरपीडिते तरैलॊक्यम अभवद राजन रविश चासीद रजॊऽरुणः ॥ 14 ॥

  15. ततॊ ववौ महाराज मारुतॊ रॊमहर्षणः राहुर अग्रसद आदित्यं युगपत सॊमम एव च ॥ 15 ॥

  16. उल्काश च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः वेपथुश चाभवद राजन कैलासस्य महागिरेः ॥ 16 ॥

  17. मुमुचुश चास्रम अत्युष्णं दुःखशॊकसमन्विताः सप्तर्षयॊ जातभयास तथा देवर्षयॊ ऽपि च ॥ 17 ॥

  18. शशश चाशु निविर्भिद्य मण्डलं शशिनॊ ऽपतत विपरीतस तदा राजंस तस्मिन्न उत्पातलक्षणे ॥ 18 ॥

  19. रासभारुण संकाशा धनुष्मन्तः स विद्युतः आवृत्य गगनं मेघा मुमुचुर मांसशॊणितम ॥ 19 ॥

  20. एवम आसीत तदा वीरे शरवर्षाभिसंवृते लॊके ऽसमिन भरतश्रेष्ठ तद अद्भुतम इवाभवत ॥ 20 ॥

  21. तस्य तेनावकीर्णस्य शरजालेन सर्वशः मॊहात पपात गाण्डीवम आवापश च कराद अपि ॥ 21 ॥

  22. तस्मिन मॊहम अनुप्राप्ते शरजालं महत्तरम सैन्धवा मुमुचुस तूर्णं गतसत्त्वे महारथे ॥ 22 ॥

  23. ततॊ मॊहसमापन्नं जञात्वा पार्थं दिवौकसः सर्वे वित्रस्तम अनसस तस्य शान्ति पराभवन ॥ 23 ॥

  24. ततॊ देवर्षयः सर्वे तथा सप्तर्षयॊ ऽपि च बरह्मर्षयश च विजयं जेपुः पार्थस्य धीमतः ॥ 24 ॥

  25. ततः परदीपिते देवैः पार्थ तेजसि पार्थिव तस्थाव अचलवद धीमान संग्रामे परमास्त्रवित ॥ 25 ॥

  26. विचकर्ष धनुर दिव्यं ततः कौरवनन्दनः यन्त्रस्येवेह शब्दॊ ऽभून महांस तस्य पुनः पुनः ॥ 26 ॥

  27. ततः स शरवर्षाणि परत्यमित्रान परति परभुः ववर्ष धनुषा पार्थॊ वर्षाणीव सुरेश्वरः ॥ 27 ॥

  28. ततस ते सैन्धवा यॊधाः सर्व एव सराजकाः नादृश्यन्त शरैः कीर्णाः शलभैर इव पावकाः ॥ 28 ॥

  29. तस्य शब्देन वित्रेसुर भयार्ताश च विदुद्रुवुः मुमुचुश चाश्रुशॊकार्ताः सुषुपुश चापि सैन्धवाः ॥ 29 ॥

  30. तांस तु सर्वान नरश्रेष्ठः सर्वतॊ विचरन बली अलातचक्रवद राजञ शरजालैः समर्पयत ॥ 30 ॥

  31. तद इन्द्र जालप्रतिमं बाणजालम अमित्रहा वयसृजद दिष्कु सर्वासु महेन्द्र इव वज्रभृत ॥ 31 ॥

  32. मेघजालनिभं सैन्यं विदार्य स रविप्रभः विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 77

Previous: अध्याय 75