[व] एवं तरिरात्रम अभवत तद युद्धं भरतर्षभ अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतॊः ॥ 1 ॥
ततश चतुर्थे दिवसे वज्रदत्तॊ महाबलः जहास स सवनं हासं वाक्यं चेदम अथाब्रवीत ॥ 2 ॥
अर्जुनार्जुन तिष्ठस्व न मे जीवन विमॊक्ष्यसे तवां निहत्य करिष्यामि पुतुस तॊयं यथाविधि ॥ 3 ॥
तवया वृद्धॊ मम पिता भगदत्तः पितुः सखा हतॊ वृद्धॊ ऽपचायित्वाच छिशुं माम अद्य यॊधय ॥ 4 ॥
इत्य एवम उक्त्वा संक्रुद्धॊ वज्रदत्तॊ नराधिपः परेषयाम आस कौरव्य वारणं पाण्डवं परति ॥ 5 ॥
संप्रेष्यमाणॊ नागेन्द्रॊ वज्रदत्तेन धीमता उत्पतिष्यन्न इवाकाशम अभिदुद्राव पाण्डवम ॥ 6 ॥
अग्रहस्तप्रमुक्तेन शीकरेण सफल्गुनम समुक्षत महाराज शैलं नील इवाम्बुदः ॥ 7 ॥
स तेन परेषितॊ राज्ञा मेघवन निनदन मुहुः मुखाडम्बर घॊषेण समाद्रवत फल्गुनम ॥ 8 ॥
स नृत्यन्न इव नागेन्द्रॊ वज्रदत्तप्रचॊदितः आससाद दरुतं राजन कौरवाणां महारथम ॥ 9 ॥
तम आपतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम गाण्डीवम आश्रित्य बली न वयकम्पत शत्रुहा ॥ 10 ॥
चुक्रॊध बलवच चापि पाण्डवस तस्य भूपतेः कार्यविघ्नम अनुस्मृत्य पूर्ववैरं च भारत ॥ 11 ॥
ततस तं वारणं करुद्धः शरजालेन पाण्डवः निवारयाम आस तदा वेलेव मकरालयम ॥ 12 ॥
स नागप्रवरॊ वीर्याद अर्जुनेन निवारितः तस्थौ शरैर वितुन्नाङ्गः शवाविच छललितॊ यथा ॥ 13 ॥
निवारितं गजं दृष्ट्वा भगदत्तात्मजॊ नृपः उत्ससर्ज शितान बाणान अर्जुने करॊधमूर्छितः ॥ 14 ॥
अर्जुनस तु महाराज शरैः शरविघातिभिः वारयाम आस तान अस्तांस तद अद्भुतम इवाभवत ॥ 15 ॥
ततः पुनर अतिक्रुद्धॊ राजा पराग्ज्यॊतिषाधिपः परेषयाम आस नागेन्द्रं बलवच छवसनॊपमम ॥ 16 ॥
तम आपतन्तं संप्रेक्ष्य बलवान पाकशासनिः नाराचम अग्निसंकाशं पराहिणॊद वारणं परति ॥ 17 ॥
स तेन वारणॊ राजन मर्माण्य अभिहतॊ भृशम पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥ 18 ॥
स पतञ शुशुभे नागॊ धनंजय शराहतः विशन्न इव महाशैलॊ महीं वज्रप्रपीडितः ॥ 19 ॥
तस्मिन निपतिते नागे वज्रदत्तस्य पाण्डवः तं न भेतव्यम इत्य आह ततॊ भूमिगतं नृपम ॥ 20 ॥
अब्रवीद धि महातेजाः परस्थितं मां युधिष्ठिरः राजानस ते न हन्तव्या धनंजय कथंचनन ॥ 21 ॥
सर्वम एतन नरव्याघ्र भवत्व एतावता कृतम यॊधाश चापि न हन्तव्या धनंजय रणे तवया ॥ 22 ॥
वक्तव्याश चापि राजानः सर्वैः सह सुहृज्जनैः युधिष्ठिरस्याश्वमेधॊ भवद्भिर अनुभूयताम ॥ 23 ॥
इति भरातृवचः शरुत्वा न हन्मि तवां जनाधिप उत्तिष्ठ न भयं ते ऽसति सवस्तिमान गच्छ पार्थिव ॥ 24 ॥
आगच्छेथा महाराज परां चैत्रीम उपस्थिताम तदाश्वमेधॊ भविता धर्मराजस्य धीमतः ॥ 25 ॥
एवम उक्तः स राजा तु भगदत्तात्मजस तदा तथेत्य एवाब्रवीद वाक्यं पाण्डवेनाभिनिर्जितः ॥ 26 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 75
Reach this point to mark the section finished.
Continue to अध्याय 76