[व] दीक्षा काले तु संप्राप्ते ततस ते सुमहर्त्विजः विधिवद दीक्षयाम आसुर अश्वमेधाय पार्थिवम ॥ 1 ॥
कृत्वा स पशुबन्धांश च दीक्षितः पाण्डुनन्दनः धर्मराजॊ महातेजाः सहर्त्विग्भिर वयरॊचत ॥ 2 ॥
हयश च हयमेधार्थं सवयं स बरह्मवादिना उत्सृष्टः शास्त्रविधिना वयासेनामित तेजसा ॥ 3 ॥
स राजा धर्मजॊ राजन दीक्षितॊ विबभौ तदा हेममाली रुक्मकण्ठः परदीप्त इव पावकः ॥ 4 ॥
कृष्णाजिनी दण्डपाणिः कषौमवासाः स धर्मजः विबभौ दयुतिमान भूयः परजापतिर इवाध्वरे ॥ 5 ॥
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते बभूवुर अर्जुनश चैव परदीप्त इव पावकः ॥ 6 ॥
शवेताश्वः कृष्णसारं तं स साराश्वं धनंजयः विधिवत पृथिवीपाल धर्मराजस्य शासनात ॥ 7 ॥
विक्षिपन गाण्डिवं राजन बद्धगॊधाङ्गुलि तरवान तम अश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥ 8 ॥
आ कुमारं तदा राजन्न आगमत तत पुरं विभॊ दरष्टुकामं कुरुश्रेष्ठं परयास्यन्तं धनंजयम ॥ 9 ॥
तेषाम अन्यॊन्यसंमर्दाद ऊष्मेव समजायत दिदृक्षूणां हयं तं च तं चैव हयसारिणम ॥ 10 ॥
ततः शब्दॊ महाराज दशाशाः परतिपूरयन बभूव परेक्षतां नॄणां कुन्तीपुत्रं धनंजयम ॥ 11 ॥
एष गच्छति कौन्तेयस तुरगश चैव दीप्तिमान यम अन्वेति महाबाहुः संस्पृशन धनुर उत्तमम ॥ 12 ॥
एवं शुश्राव वदतां गिरॊ जिष्णुर उदारधीः सवस्ति ते ऽसतु वरजारिष्टं पुनश चैहीति भारत ॥ 13 ॥
अथापरे मनुष्येन्द्र पुरुषा वाक्यम अब्रुवन नैनं पश्याम संमर्दे धनुर एतत परदृश्यते ॥ 14 ॥
एतद धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः सवस्ति गच्छत्व अरिष्टं वै पन्थानम अकुतॊभयम निवृत्तम एनं दरक्ष्यामः पुनर एवं च ते ऽबरुवन ॥ 15 ॥
एवमाद्या मनुष्याणां सत्रीणां च भरतर्षभ शुश्राव मधुरा वाचः पुनः पुनर उदीरिताः ॥ 16 ॥
याज्ञवल्क्यस्य शिष्यश च कुशलॊ यज्ञकर्मणि परायात पार्थेन सहितः शान्त्य अर्थं वेदपारगः ॥ 17 ॥
बराह्मणाश च महीपाल बहवॊ वेदपारगाः अनुजग्मुर महात्मानं कषत्रियाश च विशॊ ऽपि च ॥ 18 ॥
पाण्डवैः पृथिवीम अश्वॊ निर्जिताम अस्त्रतेजसा चचार स महाराज यथादेशं स सत्तम ॥ 19 ॥
तत्र युद्धानि वृत्तानि यान्य आसन पाण्डवस्य ह तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥ 20 ॥
सहयः पृथिवीं राजन परदक्षिणम अरिंदम ससारॊत्तरतः पूर्वं तन निबॊध महीपते ॥ 21 ॥
अवमृद्नन सराष्ट्राणि पार्थिवानां हयॊत्तमः शनैस तदा परिययौ शवेताश्वश च महारथः ॥ 22 ॥
तत्र संकलना नास्ति राज्ञाम अयुतशस तदा ये ऽयुध्यन्त महाराज कषत्रिया हतबान्धवाः ॥ 23 ॥
किराता विकृता राजन बहवॊ ऽसि धनुर्धराः मलेच्छाश चान्ये बहुविधाः पूर्वं निविकृता रणे ॥ 24 ॥
आर्याश च पृथिवीपालाः परहृष्टनरवाहनाः समीयुः पाण्डुपुत्रेण बहवॊ युद्धदुर्मदाः ॥ 25 ॥
एवं युद्धानि वृत्तानि तत्र तत्र महीपते अर्जुनस्य महीपालैर नानादेशनिवासिभिः ॥ 26 ॥
यानि तूभयतॊ राजन परतप्तानि महान्ति च तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ 27 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 72
Reach this point to mark the section finished.
Continue to अध्याय 73