[व] एवम उक्तस तु कृष्णेन धर्मपुत्रॊ युधिष्ठिरः वयासम आमन्त्र्य मेधावी ततॊ वचनम अब्रवीत ॥ 1 ॥
यथाकालं भवान वेत्ति हयमेधस्य तत्त्वतः दीक्षयस्व तदा मा तवं तवय्य आयत्तॊ हि मे करतुः ॥ 2 ॥
[व] अहं पैलॊ ऽथ कौन्तेय याज्ञवल्क्यस तथैव च विधानं यद्य अथाकालं तत कर्तारॊ न संशयः ॥ 3 ॥
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥ 4 ॥
अश्वविद्या विदश चैव सूता विप्राश च तद्विदः मेध्यम अश्वं परीक्षन्तां तव यज्ञार्थ सिद्धये ॥ 5 ॥
तम उत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम स पर्येतु यशॊ नाम्ना तव पार्थिव वर्धयन ॥ 6 ॥
[व] इत्य उक्तः स तथेत्य उक्त्वा पाण्डवः पृथिवीपतिः चकार सर्वं राजेन्द्र यथॊक्तं बरह्मवादिना संभाराश चैव राजेन्द्र सर्वे संकल्पिताभवन ॥ 7 ॥
स संभारान समाहृत्य नृपॊ धर्मात्मजस तदा नयवेदयद अमेयात्मा कृष्णद्वैपायनाय वै ॥ 8 ॥
ततॊ ऽबरवीन महातेजा वयासॊ धर्मात्मजं नृपम यथाकालं यथायॊगं सज्जाः सम तव दीक्षणे ॥ 9 ॥
सफ्यश च कूर्चश च सौवर्णॊ यच चान्यद अपि कौरव तत्र यॊग्यं भवेत किं चित तद रौक्मं करियताम इति ॥ 10 ॥
अश्वश चॊत्सृज्यताम अद्य पृथ्व्याम अथ यथाक्रमम सुगुप्तश च चरत्व एष यथाशास्त्रं युधिष्ठिर ॥ 11 ॥
[य] अयम अश्वॊ मया बरह्मन्न उत्सृष्टः पृथिवीम इमाम चरिष्यति यथाकामं तत्र वै संविधीयताम ॥ 12 ॥
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम कः पालयेद इति मुने तद भवान वक्तुम अर्हति ॥ 13 ॥
[व] इत्य उक्तः स तु राजेन्द्र कृष्णद्वैपायनॊ ऽबरवीत भीमसेनाद अवरजः शरेष्ठः सर्वधनुष्मताम ॥ 14 ॥
जिष्णुः सहिष्णुर धृष्णुश च स एनं पालयिष्यति शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥ 15 ॥
तस्मिन हय अस्त्राणि दिव्यानि दिव्यं संहननं तथा दिव्यं धनुश चेषुधी च स एनम अनुयास्यति ॥ 16 ॥
स हि धर्मार्थकुशलः सर्वविद्या विशारदः यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम ॥ 17 ॥
राजपुत्रॊ महाबाहुः शयामॊ राजीवलॊचनः अभिमन्यॊः पिता वीरः स एनम अनुयास्यति ॥ 18 ॥
भीमसेनॊ ऽपि तेजस्वी कौन्तेयॊ ऽमितविक्रमः समर्थॊ रक्षितुं राष्ट्रं नकुलश च विशां पते ॥ 19 ॥
सहदेवस तु कौरव्य समाधास्यति बुद्धिमान कुटुम्ब तन्त्रं विधिवत सर्वम एव महायशाः ॥ 20 ॥
तत तु सर्वं यथान्यायम उक्तं कुरुकुलॊद्वहः चकार फल्गुनं चापि संदिदेश हयं परति ॥ 21 ॥
[य] एह्य अर्जुन तवया वीर हयॊ ऽयं परिपाल्यताम तवम अर्हॊ रक्षितुं हय एनं नान्यः कश चन मानवः ॥ 22 ॥
ये चापि तवां महाबाहॊ परत्युदीयुर नराधिपाः तैर विग्रहॊ यथा न सयात तथा कार्यं तवयानघ ॥ 23 ॥
आख्यातव्यश च भवता यज्ञॊ ऽयं मम सर्वशः पार्थिवेभ्यॊ महाबाहॊ समये गम्यताम इति ॥ 24 ॥
एवम उक्त्वा स धर्मात्मा भरातरं सव्यसाचिनम भीमं च नकुलं चैव पुरगुप्तौ समादधत ॥ 25 ॥
कुटुम्ब तन्त्रे च तथा सहदेवं युधां पतिम अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥ 26 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 71
Reach this point to mark the section finished.
Continue to अध्याय 72