[व] तरिगर्तैर अभवद युद्धं कृतवैरैः किरीटिनः महारथसमाज्ञातैर हतानां पुत्र नप्तृभिः ॥ 1 ॥
ते समाज्ञाय संप्राप्तं यज्ञियं तुरगॊत्तमम विषयान्ते ततॊ वीरा दंशिताः पर्यवारयन ॥ 2 ॥
रथिनॊ बद्धतूणीराः सदश्वैः समलंकृतैः परिवार्य हयं राजन गरहीतुं संप्रचक्रमुः ॥ 3 ॥
ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम वारयाम आस तान वीरान सान्त्वपूर्वम अरिंदमः ॥ 4 ॥
तम अनादृत्य ते सर्वे शरैर अभ्यहनंस तदा तमॊ रजॊभ्यां संछन्नांस तान किरीटी नयवारयत ॥ 5 ॥
अब्रवीच च ततॊ जिष्णुः परहसन्न इव भारत निवर्तध्वम अधर्मज्ञाः शरेयॊ जीवितम एव वः ॥ 6 ॥
स हि वीरः परयास्यन वै धर्मराजेन वारितः हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥ 7 ॥
स तदा तद वचः शरुत्वा धर्मराजस्य धीमतः तान निवर्तध्वम इत्य आह न नयवर्तन्त चापि ते ॥ 8 ॥
ततस तरिगर्तराजानं सूर्यवर्माणम आहवे वितत्य शरजालेन परजहास धनंजयः ॥ 9 ॥
ततस ते रथघॊषेण खुरनेमिस्वनेन च पूरयन्तॊ दिशः सर्वा धनंजयम उपाद्रवन ॥ 10 ॥
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम शतान्य अमुञ्चद राजेन्द्र लभ्व अस्त्रम अभिदर्शयन ॥ 11 ॥
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः मुमुचुः शरवर्षाणि धनंजय वधैषिणः ॥ 12 ॥
स ताञ जया पुङ्खनिर्मुक्तैर बहुभिः सुबहूञ शरान चिच्छेद पाण्डवॊ राजंस ते भूमौ नयपतंस तदा ॥ 13 ॥
केतुवर्मा तु तेजस्वी तस्यैवावरजॊ युवा युयुधे भरातुर अर्थाय पाण्डवेन महात्मना ॥ 14 ॥
तम आपतन्तं संप्रेक्ष्य केतुवर्माणम आहवे अभ्यघ्नन निशितैर बाणैर बीभत्सुः परवीरहा ॥ 15 ॥
केतुवर्मण्य अभिहते धृतवर्मा महारथः रथेनाशु समावृत्य शरैर जिष्णुम अवाकिरत ॥ 16 ॥
तस्य तां शीघ्रताम ईक्ष्य तुतॊषातीव वीर्यवान गुडाकेशॊ महातेजा बालस्य धृतवर्मणः ॥ 17 ॥
न संदधानं ददृशे नाददानं च तं तदा किरन्तम एव स शरान ददृशे पाकशासनिः ॥ 18 ॥
स तु तं पूजयाम आस धृतवर्माणम आहवे मनसा स मुहूर्तं वै रणे समभिहर्षयन ॥ 19 ॥
तं पन्नगम इव करुद्धं कुरुवीरः समयन्न इव परीतिपूर्वं महाराज पराणैर न वयपरॊपयत ॥ 20 ॥
स तथा रक्ष्यमाणॊ वै पार्थेनामित तेजसा धृतवर्मा शरं तीक्ष्णं मुमॊच विजये तदा ॥ 21 ॥
स तेन विजयस तूर्णम अस्यन विद्धः करे भृशम मुमॊच गाण्डीवं दुःखात तत पपाताथ भूतले ॥ 22 ॥
धनुषः पततस तस्य सव्यसाचि कराद विभॊ इन्द्रस्येवायुधस्यासीद रूपं भरतसत्तम ॥ 23 ॥
तस्मिन निपतिते दिव्ये महाधनुषि पार्थिव जहास स सवनं हासं धृतवर्मा महाहवे ॥ 24 ॥
ततॊ रॊषान्वितॊ जिष्णुः परमृज्य रुधिरं करात धनुर आदत्त तद दिव्यं शरवर्षं ववर्ष च ॥ 25 ॥
ततॊ हलहलाशब्दॊ दिवस्पृग अभवत तदा नानाविधानां भूतानां तत कर्मातीव शंसताम ॥ 26 ॥
ततः संप्रेक्ष्य तं करुद्धं कालान्तकयमॊपमम जिष्णुं तरैगर्तका यॊधास तवरिताः पर्यवारयन ॥ 27 ॥
अभिसृत्य परीप्सार्थं ततस ते धृतवर्मणः परिवव्रुर गुडाकेशं तत्राक्रुध्यद धनंजयः ॥ 28 ॥
ततॊ यॊधाञ जघानाशु तेषां स दश चाष्ट च महेन्द्रवज्रप्रतिमैर आयसैर निशितैः शरैः ॥ 29 ॥
तांस तु परभग्नान संप्रेक्ष्य तवरमाणॊ धनंजयः शरैर आशीविषाकारैर जघान सवनवद धसन ॥ 30 ॥
ते भग्नमनसः सर्वे तरैगर्तक महारथाः दिशॊ विदुद्रुवुः सर्वा धनंजय शरार्दिताः ॥ 31 ॥
त ऊचु पुरुषव्याघ्रं संशप्तक निषूदनम तव सम किंकराः सर्वे सर्वे च वशगास तव ॥ 32 ॥
आज्ञापयस्व नः पार्थ परह्वान परेष्यान अवस्थितान करिष्यामः परियं सर्वं तव कौरवनन्दन ॥ 33 ॥
एतद आज्ञाय वचनं सर्वांस तान अब्रवीत तदा जीवितं रक्षत नृपाः शासनं गृह्यताम इति ॥ 34 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 73
Reach this point to mark the section finished.
Continue to अध्याय 74