धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 70

  1. [व] तान समीपगताञ शरुत्वा पाण्डवाञ शत्रुकर्शनः वासुदेवः सहामात्यः परत्युद्यातॊ दिदृक्षया ॥ 1 ॥

  2. ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह विविशुः सहिता राजन पुरं वारणसाह्वयम ॥ 2 ॥

  3. महतस तस्य सैन्यस्य खुरनेमिस्वनेन च दयावापृथिव्यौ खं चैव शब्देनासीत समावृतम ॥ 3 ॥

  4. ते कॊशम अग्रतः कृत्वा विविशुः सवपुरं तदा पाण्डवाः परीतमनसः सामात्याः ससुहृद गणाः ॥ 4 ॥

  5. ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम कीर्तयन्तः सवनामानि तस्य पादौ ववन्दिरे ॥ 5 ॥

  6. धृतराष्ट्राद अनु च ते गान्धारीं सुबलात्मजाम कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥ 6 ॥

  7. विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च पूज्यमानाः सम ते वीरा वयराजन्त विशां पते ॥ 7 ॥

  8. ततस तत्परमाश्चर्यं विचित्रं महद अद्भुतम शुश्रुवुस ते तदा वीराः पितुस ते जन्म भारत ॥ 8 ॥

  9. तद उपश्रुत्य ते कर्म वासुदेवस्य धीमतः पूजार्हं पूजयाम आसुः कृष्णं देवकिनन्दनम ॥ 9 ॥

  10. ततः कति पयाहस्य वयासः सत्यवती सुतः आजगाम महातेजा नगरं नागसाह्वयम ॥ 10 ॥

  11. तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः सह वृष्ण्यन्धकव्याघ्रैर उपासां चक्रिरे तदा ॥ 11 ॥

  12. तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै युधिष्ठिरॊ धर्मसुतॊ वयासं वचनम अब्रवीत ॥ 12 ॥

  13. भवत्प्रसादाद भगवन यद इदं रत्नम आहृतम उपयॊक्तुं तद इच्छामि वाजिमेधे महाक्रतौ ॥ 13 ॥

  14. तदनुज्ञातुम इच्छामि भवता मुनिसत्तम तवदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥ 14 ॥

  15. [व] अनुजानामि राजंस तवां करियतां यद अनन्तरम यजस्व वाजिमेधेन विधिवद दक्षिणावता ॥ 15 ॥

  16. अश्वमेधॊ हि राजेन्द्र पावनः सर्वपाप्मनाम तेनेष्ट्वा तवं विपाप्मा वै भविता नात्र संशयः ॥ 16 ॥

  17. [व] इत्य उक्तः स तु धर्मात्मा कुरुराजॊ युधिष्ठिरः अश्वमेधस्य कौरव्य चकाराहरणे मतिम ॥ 17 ॥

  18. समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः वासुदेवम अथामन्त्र्य वाग्मी वचनम अब्रवीत ॥ 18 ॥

  19. देवकी सुप्रजा देवी तवया पुरुषसत्तम यद बरूयां तवां महाबाहॊ तत कृथास तवम इहाच्युत ॥ 19 ॥

  20. तवत परभावार्जितान भॊगान अश्नीम यदुनन्दन पराक्रमेण बुद्ध्या च तवयेयं निर्जिता मही ॥ 20 ॥

  21. दीक्षयस्व तवम आत्मानं तवं नः परमकॊ गुरुः तवयीष्टवति धर्मज्ञ विपाप्मा सयाम अहं विभॊ तवं हि यज्ञॊ ऽकषरः सर्वस तवं धर्मस तवं परजापतिः ॥ 21 ॥

  22. [व] तवम एवैतन महाभाहॊ वक्तुम अर्हस्य अरिंदम तवं गतिः सर्वभूतानाम इति मे निश्चिता मतिः ॥ 22 ॥

  23. तवं चाद्य कुरुवीराणां धर्मेणाभिविराजसे गुणभूताः सम ते राजंस तवं नॊ राजन मतॊ गुरुः ॥ 23 ॥

  24. यजस्व मद अनुज्ञातः पराप्त एव करतुर मया युनक्तु नॊ भवान कार्ये यत्र वाञ्छसि भारत सत्यं ते परतिजानामि सर्वं कर्तास्मि ते ऽनघ ॥ 24 ॥

  25. भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ इष्टवन्तॊ भविष्यन्ति तवयीष्टवति भारत ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 71

Previous: अध्याय 69