[व] बरह्मास्त्रं तु यदा राजन कृष्णेन परतिसंहृतम तदा तद वेश्म ते विप्रा तेजसाभिविदीपितम ॥ 1 ॥
ततॊ रक्षांसि सर्वाणि नेशुस तयक्त्वा गृहं तु तत अन्तरिक्षे च वाग आसीत साधु केशव साध्व इति ॥ 2 ॥
तद अस्त्रं जवलितं चापि पितामहम अगात तदा ततः पराणान पुनर लेभे पिता तव जनेश्वर वयचेष्टत च बालॊ ऽसौ यथॊत्साहं यथाबलम ॥ 3 ॥
बभूवुर मुदिता राजंस ततस ता भरत सत्रियः बराह्मणान वाचयाम आसुर गॊविन्दस्य च शासनात ॥ 4 ॥
ततस ता मुदिताः सर्वाः परशशंसुर जनार्दनम सत्रियॊ भरत सिंहानां नावं लब्ध्वेव पारगाः ॥ 5 ॥
कुन्ती दरुपदपुत्री च सुभद्रा चॊत्तरा तथा सत्रियश चान्या नृसिंहानां बभूवुर हृष्टमानसाः ॥ 6 ॥
तत्र मल्ला नटा झल्ला गरन्थिकाः सौखशायिकाः सूतमागध संघाश चाप्य अस्तुवन वै जनार्दनम कुरुवंशस तवाख्याभिर आशीर्भिर भरतर्षभ ॥ 7 ॥
उत्थाय तु यथाकालम उत्तरा यदुनन्दनम अभ्यवादयत परीता सह पुत्रेण भारत ततस तस्मै ददौ परीतॊ बहुरत्नं विशेषतः ॥ 8 ॥
तथान्ये वृष्णिशार्दूला नाम चास्याकरॊत परभुः पितुस तव महाराज सत्यसंधॊ जनार्दनः ॥ 9 ॥
परिक्षीणे कुले यस्माज जातॊ ऽयम अभिमन्युजः परिक्षिद इति नामास्य भवत्व इत्य अब्रवीत तदा ॥ 10 ॥
सॊ ऽवर्धत यथाकालं पिता तव नराधिप मनः परह्लादनश चासीत सर्वलॊकस्य भारत ॥ 11 ॥
मासजातस तु ते वीर पिता भवति भारत अथाजग्मुः सुबहुलं रत्नम आदाय पाण्डवाः ॥ 12 ॥
तान समीपगताञ शरुत्वा निर्ययुर वृष्णि पुंगवाः अलंचक्रुश च माल्यौघैः पुरुषा नागसाह्वयम ॥ 13 ॥
पताकाभिर विचित्राभिर धवजैश च विविधैर अपि वेश्मानि समलंचक्रुः पौराश चापि जनाधिप ॥ 14 ॥
देवतायतनानां च पूजा बहुविधास तथा संदिदेशाथ विदुरः पाण्डुपुत्र परियेप्सया ॥ 15 ॥
राजमार्गाश च तत्रासन सुमनॊभिर अलंकृताः शुशुभे तत्परं चापि समुद्रौघनिभस्वनम ॥ 16 ॥
नर्तकैश चापि नृत्यद्भिर गायनानां च निस्वनैः आसीद वैश्रवणस्येव निवासस तत पुरं तदा ॥ 17 ॥
बन्दिभिश च नरै राजन सत्री सहायैः सहस्रशः तत्र तत्र विविक्तेषु समन्ताद उपशॊभितम ॥ 18 ॥
पताका धूयमानाश च शवसता मातरिश्वना अदर्शयन्न इव तदा कुरून वै दक्षिणॊत्तरान ॥ 19 ॥
अघॊषयत तदा चापि पुरुषॊ राजधूर गतः सर्वरात्रि विहारॊ ऽदय रत्नाभरण लक्षणः ॥ 20 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 69
Reach this point to mark the section finished.
Continue to अध्याय 70