[व] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बृहस्पतेश च संवादं मरुत्तस्य च भारत ॥ 1 ॥
देवराजस्य समयं कृतम आङ्गिरसेन ह शरुत्वा मरुत्तॊ नृपतिर मन्युम आहारयत तदा ॥ 2 ॥
संकल्प्य मनसा यज्ञं करंधम सुतात्मजः बृहस्पतिम उपागम्य वाग्मी वचनम अब्रवीत ॥ 3 ॥
भगवन यन मया पूर्वम अभिगम्य तपॊधन कृतॊ ऽभिसंधिर यज्ञाय भवतॊ वचनाद गुरॊ ॥ 4 ॥
तम अहं यष्टुम इच्छामि संभाराः संभृताश च मे याज्यॊ ऽसमि भवतः साधॊ तत पराप्नुहि विधत्स्व च ॥ 5 ॥
[ब] न कामये याजयितुं तवाम अहं पृथिवीपते वृतॊ ऽसमि देवराजेन परतिज्ञातं च तस्य मे ॥ 6 ॥
[म] पित्र्यम अस्मि तव कषेत्रं बहु मन्ये च ते भृशम न चास्म्य अयाज्यतां पराप्तॊ भजमानं भजस्व माम ॥ 7 ॥
[ब] अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम मरुत्त गच्छ वा मा वा निवृत्तॊ ऽसम्य अद्य याजनात ॥ 8 ॥
न तवां याजयितास्म्य अद्य वृणु तवं यम इहेच्छसि उपाध्यायं महाबाहॊ यस ते यज्ञं करिष्यति ॥ 9 ॥
[व] एवम उक्तस तु नृपतिर मरुत्तॊ वरीडितॊ ऽभवत परत्यागच्छच च संविग्नॊ ददर्श पथि नारदम ॥ 10 ॥
देवर्षिणा समागम्य नारदेन स पार्थिवः विधिवत पराञ्जलिस तस्थाव अथैनं नारदॊ ऽबरवीत ॥ 11 ॥
राजर्षे नातिहृष्टॊ ऽसि कच चित कषेमं तवानघ कव गतॊ ऽसि कुतॊ वेदम अप्रीति सथानम आगतम ॥ 12 ॥
शरॊतव्यं चेन मया राजन बरूहि मे पार्थिवर्षभ वयपनेष्यामि ते मन्युं सर्वयत्नैर नराधिप ॥ 13 ॥
एवम उक्तॊ मरुत्तस तु नारदेन महर्षिणा विप्रलम्भम उपाध्यायात सर्वम एव नयवेदयत ॥ 14 ॥
गतॊ ऽसम्य अङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम यज्ञार्थम ऋत्विजं दरष्टुं स च मां नाभ्यनन्दत ॥ 15 ॥
परत्याख्यातश च तेनाहं जीवितुं नाद्य कामये परित्यक्तश च गुरुणा दूषितश चास्मि नारद ॥ 16 ॥
एवम उक्तस तु राज्ञा स नारदः परत्युवाच ह आविक्षितं महाराज वाचा संजीवयन्न इव ॥ 17 ॥
राजन्न अङ्गिरसः पुत्रः संवर्तॊ नाम धार्मिकः चङ्क्रमीति दिशः सर्वा दिग वासा मॊहयन परजाः ॥ 18 ॥
तं गच्छ यदि याज्यं तवां न वाञ्छति बृहस्पतिः परसन्नस तवां महाराज संवर्तॊ याजयिष्यति ॥ 19 ॥
[म] संजीवितॊ ऽहं भवता वाक्येनानेन नारद पश्येयं कव नु संवर्तं शंस मे वदतां वर ॥ 20 ॥
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत परत्याख्यातश च तेनापि नाहं जीवितुम उत्सहे ॥ 21 ॥
[न] उन्मत्तवेषं बिभ्रत स चङ्क्रमीति यथासुखम वाराणसीं तु नगरीम अभीक्ष्णम उपसेवते ॥ 22 ॥
तस्या दवारं समासाद्य नयसेथाः कुणपं कव चित तं दृष्ट्वा यॊ निवर्तेत स संवर्तॊ महीपते ॥ 23 ॥
तं पृष्ठतॊ ऽनुगच्छेथा यत्र गच्छेत स वीर्यवान तम एकान्ते समासाद्य पराञ्जलिः शरणं वरजेः ॥ 24 ॥
पृच्छेत तवां यदि केनाहं तवाख्यात इति सम ह बरूयास तवं नारदेनेति संतप्त इव शत्रुहन ॥ 25 ॥
स चेत तवाम अनुयुञ्जीत ममाभिगमनेप्सया शंसेथा वह्निम आरूढं माम अपि तवम अशङ्कया ॥ 26 ॥
[व] स तथेति परतिश्रुत्य पूजयित्वा च नारदम अभ्यनुज्ञाय राजर्षिर ययौ वाराणसीं पुरीम ॥ 27 ॥
तत्र गत्वा यथॊक्तं स पुर्या दवारे महायशाः कुणपं सथापयाम आस नारदस्य वचः समरन ॥ 28 ॥
यौगपद्येन विप्रश च स पुरी दवारम आविशत ततः स कुणपं दृष्ट्वा सहसा स नयवर्तत ॥ 29 ॥
स तं निवृत्तम आलक्ष्य पराञ्जलिः पृष्ठतॊ ऽनवगात आविक्षितॊ महीपालः संवर्तम उपशिक्षितुम ॥ 30 ॥
स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च शलेष्मणा चापि राजानं षठीवनैश च समाकिरत ॥ 31 ॥
स तथा बाध्यमानॊ ऽपि संवर्तेन महीपतिः अन्वगाद एव तम ऋषिं पराञ्जलिः संप्रसादयन ॥ 32 ॥
ततॊ निवृत्य संवर्तः परिश्रान्त उपाविशत शीतलच छायम आसाद्य नयग्रॊधं बहुशाखिनम ॥ 33 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 6
Reach this point to mark the section finished.
Continue to अध्याय 7