धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 68

  1. [व] सैवं विपल्य करुणं सॊन्मादेव तपस्विनी उत्तरा नयपतद भूमौ कृपणा पुत्रगृद्धिनी ॥ 1 ॥

  2. तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम चुक्रॊश कुन्ती दुःखार्ता सर्वाश च भरत सत्रियः ॥ 2 ॥

  3. मुहूर्तम इव तद राजन पाण्डवानां निवेशनम अप्रेक्षणीयम अभवद आर्तस्वरनिनादितम ॥ 3 ॥

  4. सा मुहूत च राजेन्द्र पुत्रशॊकाभिपीडिता कश्मलाभिहता वीर वैराटी तव अभवत तदा ॥ 4 ॥

  5. परतिलभ्य तु सा संज्ञाम उत्तरा भरतर्षभ अङ्कम आरॊप्य तं पुत्रम इदं वचनम अब्रवीत ॥ 5 ॥

  6. धर्मज्ञस्य सुतः संस तवम अधर्मम अवबुध्यसे यस तवं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम ॥ 6 ॥

  7. पुत्रगत्वा मम वचॊ बरूयास तवं पितरं तव दुर्मरं पराणिनां वीर काले पराप्ते कथं चन ॥ 7 ॥

  8. याहं तवया विहीनाद्य पत्या पुत्रेण चैव ह मर्तव्ये सति जीवामि हतस्वस्तिर अकिंचना ॥ 8 ॥

  9. अथ वा धर्मराज्ञाहम अनुज्ञाता महाभुज भक्षयिष्ये विषं तीक्ष्णं परवेक्ष्ये वा हुताशनम ॥ 9 ॥

  10. अथ वा दुर्मरं तात यद इदं मे सहस्रधा पतिपुत्र विहीनाया हृदयं न विदीर्यते ॥ 10 ॥

  11. उत्तिष्ठ पुत्रपश्येमां दुःखितां परपितामहीम आर्ताम उपप्लुतां दीनां निमग्नां शॊकसागरे ॥ 11 ॥

  12. आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम मां च पश्य सुसुःखार्तां वयाध विद्धां मृगीम इव ॥ 12 ॥

  13. उत्तिष्ठ पश्य वदनं लॊकनाथस्य धीमतः पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम ॥ 13 ॥

  14. एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः उत्तरां ताः सत्रियः सर्वाः पुनर उत्थापयन्त्य उत ॥ 14 ॥

  15. उत्थाय तु पुनर धैर्यात तदा मत्स्यपतेः सुता पराञ्जलिः पुनरीकाक्षं भूमाव एवाभ्यवादयत ॥ 15 ॥

  16. शरुत्वा स तस्या विपुलं विलापं पुरुषर्षभः उपस्पृश्य ततः कृष्णॊ बरह्मास्त्रं संजहार तत ॥ 16 ॥

  17. परतिजज्ञे च दाशार्हस तस्य जीवितम अच्युतः अब्रवीच च विशुद्धात्मा सर्वं विश्रावयञ जगत ॥ 17 ॥

  18. न बरवीम्य उत्तरे मिथ्या सत्यम एतद भविष्यति एष संजीवयाम्य एनं पश्यतां सर्वदेहिनाम ॥ 18 ॥

  19. नॊक्तपूर्वं मया मिथ्या सवैरेष्व अपि कदा चन न च युद्धे परा वृत्तस तथा संजीवताम अयम ॥ 19 ॥

  20. यथा मे दयितॊ धर्मॊ बराह्मणाश च विशेषतः अभिमन्यॊः सुतॊ जातॊ मृतॊ जीवत्व अयं तथा ॥ 20 ॥

  21. यथाहं नाभिजानामि विजयेन कदा चन विरॊधं तेन सत्येन मृतॊ जीवत्व अयं शिशुः ॥ 21 ॥

  22. यथासत्यं च धर्मश च मयि नित्यं परतिष्ठितौ तथा मृतः शिशुर अयं जीवताम अभिमन्युजः ॥ 22 ॥

  23. यथा कंशश च केशी च धर्मेण निहतौ मया तेन सत्येन बालॊ ऽयं पुनर उज्जीवताम इह ॥ 23 ॥

  24. इत्य उक्तॊ वासुदेवेन स बालॊ भरतर्षभ शनैः शनैर महाराज परास्पन्दत स चेतनः ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 69

Previous: अध्याय 67