धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 67

  1. [व] एवम उक्तस तु राजेन्द्र केशिहा दुःखमूर्छितः तथेति वयाजहारॊच्चैर हलादयन्न इव तं जनम ॥ 1 ॥

  2. वाक्येन तेन हि तदा तं जनं पुरुषर्षभः हलादयाम आस स विभुर घर्मार्तं सलिलैर इव ॥ 2 ॥

  3. ततः स पराविशत तूर्णं जन्म वेश्म पितुस तव अर्चितं पुरुषव्याघ्र सितैर माल्यैर यथाविधि ॥ 3 ॥

  4. अपां कुम्भैः सुपूर्णैश च विन्यस्तैः सर्वतॊदिशम घृतेन तिन्दुकालातैः सर्षपैश च महाभुज ॥ 4 ॥

  5. शस्त्रैश च विमलैर नयस्तैः पावकैश च समन्ततः वृद्धाभिश चाभिरामा भिः परिचारार्थम अच्युतः ॥ 5 ॥

  6. दक्षैश च परितॊ वीर मिषग्भिः कुशलैस तथा ददर्श च स तेजस्वी रक्षॊघ्नान्य अपि सर्वशः दरव्याणि सथापितानि सम विधिवत कुशलैर जनैः ॥ 6 ॥

  7. तथायुक्तं च तद दृष्ट्वा जन्म वेश्म पितुस तव हृष्टॊ ऽभवद धृषी केशः साधु साध्व इति चाब्रवीत ॥ 7 ॥

  8. तथा बरुवति वार्ष्णेये परहृष्टवदने तदा दरौपदी तवरिता गत्वा वैराटीं वाक्यम अब्रवीत ॥ 8 ॥

  9. अयम आयाति ते भद्रे शवशुरॊ मधुसूदनः पुराणर्षिर अचिन्त्यात्मा समीपम अपराजितः ॥ 9 ॥

  10. सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह सुसंवीताभवद देवी देववत कृष्णम ईक्षती ॥ 10 ॥

  11. सा तथा दूयमानेन हृदयेन तपस्विनी दृष्ट्वा गॊविन्दम आयान्तं कृपणं पर्यदेवयत ॥ 11 ॥

  12. पुण्डरीकाक्ष पश्यस्व बालाव इह विनाकृतौ अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ॥ 12 ॥

  13. वार्ष्णेय मधुहन वीर शिरसा तवां परसादये दरॊणपुत्रास्त्र निर्दग्धं जीवयैनं ममात्मजम ॥ 13 ॥

  14. यदि सम धर्मराज्ञा वा भीमसेनेन वा पुनः तवया वा पुण्डरीकाक्ष वाक्यम उक्तम इदं भवेत ॥ 14 ॥

  15. अजानतीम ईषिकेयं जनित्रीं जन्त्व इति परभॊ अहम एव विनष्टा सयां नेदम एवंगतं भवेत ॥ 15 ॥

  16. गर्भस्थस्यास्य बालस्य बरह्मास्त्रेण निपातनम कृत्वा नृशंसं दुर्बुद्धिर दरौणिः किं फलम अश्नुते ॥ 16 ॥

  17. सा तवा परसाद्य शिरसा याचे शत्रुनिबर्हण पराणांस तयक्ष्यामि गॊविन्द नायं संजीवते यदि ॥ 17 ॥

  18. अस्मिन हि बहवः साधॊ ये ममासन मनॊरथाः ते दरॊणपुत्रेण हताः किं नु जीवामि केशव ॥ 18 ॥

  19. आसीन मम मतिः कृष्ण पूर्णॊत्सङ्गा जनार्दन अभिवादयिष्ये दिष्ट्येति तद इदं वितथीकृतम ॥ 19 ॥

  20. चपलाक्षस्य दायादे मृते ऽसमिन पुरुषर्षभ विफला मे कृताः कृष्ण हृदि सर्वे मनॊरथाः ॥ 20 ॥

  21. चलपाक्षः किलातीव परियस ते मधुसूदन सुतं पश्यस्व तस्येमं बरह्मास्त्रेण निपातितम ॥ 21 ॥

  22. कृतघ्नॊ ऽयं नृशंसॊ ऽयं यथास्य जनकस तथा यः पाण्डवीं शरियं तयक्त्वा गतॊ ऽदय यमसादनम ॥ 22 ॥

  23. मया चैतत परतिज्ञातं रणमूर्धनि केशव अभिमन्यौ हते वीर तवाम एष्याम्य अचिराद इति ॥ 23 ॥

  24. तच च नाकरवं कृष्ण नृशंसा जीवितप्रिया इदानीम आगतां तत्र किं नु वक्ष्यति फाल्गुनिः ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 68

Previous: अध्याय 66