[व] उत्थितायां पृथायां तु सुभद्रा भरातरं तदा दृष्ट्वा चुक्रॊश दुःखार्ता वचनं चेदम अब्रवीत ॥ 1 ॥
पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम ॥ 2 ॥
इषीका दरॊणपुत्रेण भीमसेनार्थम उद्यता सॊत्तरायां निपतिता विजये मयि चैव ह ॥ 3 ॥
सेयं जवलन्ती हृदये मयि तिष्ठति केशव यन न पश्यामि दुर्धर्षं मम पुत्रसुतं विभॊ ॥ 4 ॥
किं नु वक्ष्यति धर्मात्मा धर्मराजॊ युधिष्ठिरः भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥ 5 ॥
शरुत्वाभिमन्यॊस तनयं जातं च मृतम एव च मुषिता इव वार्ष्णेय दरॊणपुत्रेण पाण्डवाः ॥ 6 ॥
अभिमन्युः परियः कृष्ण पितॄणां नात्र संशयः ते शरुत्वा किं नु वक्ष्यन्ति दरॊणपुत्रास्त्र निर्जिताः ॥ 7 ॥
भवितातः परं दुःखं किं नु मन्ये जनार्दन अभिमन्यॊः सुतात कृष्ण मृताज जाताद अरिंदम ॥ 8 ॥
साहं परसादये कृष्ण तवाम अद्य शिरसा नता पृथेयं दरौपदी चैव ताः पश्य पुरुषॊत्तम ॥ 9 ॥
यदा दरॊणसुतॊ गर्भान पाण्डूनां हन्ति माधव तदा किल तवया दरौणिः करुद्धेनॊक्तॊ ऽरिमर्दन ॥ 10 ॥
अकामं तवा करिष्यामि बरह्म बन्धॊ नराधम अहं संजीवयिष्यामि किरीटितनयात्मजम ॥ 11 ॥
इत्य एतद वचनं शरुत्वा जानमाना बलं तव परसादये तवा दुर्धर्ष जीवताम अभिमन्युजः ॥ 12 ॥
यद्य एवं तवं परतिश्रुत्य न करॊषि वचः शुभम सफलं वृष्णिशार्दूल मृतां माम उपधारय ॥ 13 ॥
अभिमन्यॊः सुतॊ वीर न संजीवति यद्य अयम जीवति तवयि दुर्धर्ष किं करिष्याम्य अहं तवया ॥ 14 ॥
संजीवयैनं दुर्धर्ष मृतं तवम अभिमन्युजम सदृशाक्ष सुतं वीर सस्यं वर्षन्न इवाम्बुदः ॥ 15 ॥
तवं हि केशव धर्मात्मा सत्यवान सत्यविक्रमः स तां वाचम ऋतां कर्तुम अर्हसि तवम अरिंदम ॥ 16 ॥
इच्छन्न अपि हि लॊकांस तरीञ जीवयेथा मृतान इमान किं पुनर दयितं जातं सवस्रीयस्यात्मजं मृतम ॥ 17 ॥
परभावज्ञास्मि ते कृष्ण तस्माद एतद बरवीमि ते कुरुष्व पाण्डुपुत्राणाम इमं परम अनुग्रहम ॥ 18 ॥
सवसेति वा महाबाहॊ हतपुत्रेति वा पुनः परपन्ना माम इयं वेति दयां कर्तुम इहार्हसि ॥ 19 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 66
Reach this point to mark the section finished.
Continue to अध्याय 67