[व] एतस्मिन्न एव काले तु वासुदेवॊ ऽपि वीर्यवान उपायाद वृष्णिभिः सार्धं पुरं वारणसाह्वयम ॥ 1 ॥
समयं वाजिमेधस्य विदित्वा पुरुषैषभः यथॊक्तॊ धर्मपुत्रेण वरजन स सवपुरीं परति ॥ 2 ॥
रौक्मिणेयेन सहितॊ युयुधानेन चैव ह चारु देष्णेन साम्बेन गदेन कृतवर्मणा ॥ 3 ॥
सारणेन च वीरेण निशठेनॊल्मुकेन च बलदेवं पुरस्कृत्य सुभद्रा सहितस तदा ॥ 4 ॥
दरौपदीम उत्तरां चैव पृथां चाप्य अवलॊककः समाश्वासयितुं चापि कषत्रिया निहतेश्वराः ॥ 5 ॥
तान आगतान समीक्ष्यैव धृतराष्ट्रॊ महीपतिः परत्यगृह्णाद यथान्यायं विदुरश चमहा मनाः ॥ 6 ॥
तत्रैव नयवसत कृष्णः सवर्चितः पुरुषर्षभः विरुरेण महातेजास तथैव च युयुत्सुना ॥ 7 ॥
वसत्सु वृष्णिवीरेण्षु तत्राथ जनमेजय जज्ञे तव पिता राजन परिक्षित परवीरहा ॥ 8 ॥
स तु राजा महाराज बरह्मास्त्रेणाभिपीडितः शवॊ बभूव निश्चेष्टॊ हर्षशॊकविवर्धनः ॥ 9 ॥
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः आविश्य परदिशः सर्वाः पुनर एव वयुपारमत ॥ 10 ॥
ततः सॊ ऽतित्वरः कृष्णॊ विवेशान्तःपुरं तदा युयुधान दवितीयॊ वै वयथितेन्द्रिय मानसः ॥ 11 ॥
ततस तवरितम आयान्तीं ददर्श सवां पितृष्वसाम करॊशन्तीम अभिधावेति वासुदेवं पुनः पुनः ॥ 12 ॥
पृष्ठतॊ दरौपदीं चैव सुभद्रां च यशस्विनीम स विक्रॊशं स करुणं बान्धवानां सत्रियॊ नृप ॥ 13 ॥
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा परॊवाच राजशार्दूल बाष्पगद्गदया गिरा ॥ 14 ॥
वासुदेव महाबाहॊ सुप्रजा देवकी तवया तवं नॊ गतिः परतिष्ठा च तवद आयत्तम इदं कुलम ॥ 15 ॥
यदुप्रवीर यॊ ऽयं ते सवस्रीयस्यात्मजः परभॊ अश्वत्थाम्ना हतॊ जातस तम उज्जीवय केशव ॥ 16 ॥
तवया हय एतत परतिज्ञातम ऐषीके यदुनन्दन अहं संजीवयिष्यामि मृतं जातम इति परभॊ ॥ 17 ॥
सॊ ऽयं जातॊ मृतस तात पश्यैनं पुरुषर्षभ उत्तरां च सुभद्रांच दरौपदीं मां चमाधव ॥ 18 ॥
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा सहदेवं च दुर्धर्ष सर्वान नस तरातुम अर्हसि ॥ 19 ॥
अस्मिन पराणाः समायत्ताः पाण्डवानां ममैव च पाण्डॊश च पिण्डॊ दाशार्ह तथैव शवशुरस्य मे ॥ 20 ॥
अभिमन्यॊश च भद्रं ते परियस्य सदृशस्य च परियम उत्पादयाद्य तवं परेतस्यापि जनार्दन ॥ 21 ॥
उत्तरा हि परियॊक्तं वै कथयत्य अरिसूदन अभिमन्यॊर वचः कृष्ण परियत्वात ते न संशयः ॥ 22 ॥
अब्रवीत किल दाशार्ह वैराटीम आर्जुनिः पुरा मातुलस्य कुलं भद्रे तव पुत्रॊ गमिष्यति ॥ 23 ॥
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं गरहीष्यति अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम ॥ 24 ॥
इत्य एतत परणयात तात सौभद्रः परवीरहा कथयाम आस दुर्धर्षस तथा चैत्न न संशयः ॥ 25 ॥
तास तवां वयं परणम्येह याचामॊ मधुसूदन कुलस्यास्य हितार्थं तवं कुरु कल्याणम उत्तमम ॥ 26 ॥
एवम उक्त्वा तु वार्ष्णेयं पृथा पृथुल लॊचना उच्छ्रित्य बाहू दुःखार्ता ताश चान्याः परापतन भुवि ॥ 27 ॥
अब्रुवंश च महाराज सर्वाः सास्राविलेक्षणाः सवस्रीयॊ वासुदेवस्य मृतॊ जात इति परभॊ ॥ 28 ॥
एवम उक्ते ततः कुन्तीं परत्यगृह्णाज जनार्दनः भूमौ निपतितां चैनां सान्त्वयाम आस भारत ॥ 29 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 65
Reach this point to mark the section finished.
Continue to अध्याय 66