[बराह्मणाह] करियताम उपहारॊ ऽदय तर्यम्बकस्य महात्मनः कृत्वॊपहारं नृपते ततः सवार्थे यतामहे ॥ 1 ॥
[व] शरुत्वा तु वचनं तेषां बराह्मणानां युधिष्ठिरः निरीशस्य यथान्यायम उपहारम उपाहरत ॥ 2 ॥
आज्येन तर्पयित्वाग्निं विधिवत संस्कृतेन ह मन्त्रसिद्धं चरुं कृत्वा पुरॊधाः परययौ तदा ॥ 3 ॥
स गृहीत्वा सुमनसॊ मन्त्रपूता जनाधिप मॊदकैः पायसेनाथ मांसैश चॊपाहरद बलिम ॥ 4 ॥
सुमनॊभिश च चित्राभिर जालैर उच्चावचैर अपि सर्वं सविष्ट कृतं कृत्वा विधिवद वेदपारगः किंकराणां ततः पश्चाच चकार बलिम उत्तमम ॥ 5 ॥
यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह तथान्येषां च यक्षाणां भूताधिपतयश च ये ॥ 6 ॥
कृसरेण स मांसेन निवापैस तिलसंयुतैः शुशुभे सथानम अत्यर्थं देवदेवस्य पार्थिव ॥ 7 ॥
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः ययौ वयासं पुरस्कृत्य नृपॊ रत्ननिधिं परति ॥ 8 ॥
पूजयित्वा धनाध्यक्षं परणिपत्याभिवाद्य च सुमनॊभिर विचित्राभिर अपूपैः कृसरेण च ॥ 9 ॥
शङ्खादींश च निधीन सर्वान निधिपालांश च सर्वशः अर्चयित्वा दविजाग्र्यान स सवस्ति वाच्य च वीर्यवान ॥ 10 ॥
तेषां पुण्याहघॊषेण तेजसा समवस्थितः परीतिमान स कुरुश्रेष्ठः खानयाम आस तं निधिम ॥ 11 ॥
ततः पात्र्यः स करकाः साश्मन्तक मनॊरमाः भृङ्गाराणि कटाहाणि कलशान वर्धमानकान ॥ 12 ॥
वहूनि च विचित्राणि भाजनानि सहस्रशः उद्धारयाम आस तदा धर्मराजॊ युधिष्ठिरः ॥ 13 ॥
तेषां लक्षणम अप्य आसीन महान करपुटस तथा तरिलक्षं भाजनं राजंस तुलार्धम अभवन नृप ॥ 14 ॥
वाहनं पाण्डुपुत्रस्य तत्रासीत तु विशां पते षष्टिर उष्ट्रसहस्राणि शतानि दविगुणा हयाः ॥ 15 ॥
वारणाश च महाराज सहस्रशतसंमिताः शकटानि रथाश चैव तावद एव करेणवः खराणां पुरुषाणां च परिसंख्या न विद्यते ॥ 16 ॥
एतद वित्तं तद अभवद यद उद्दध्रे युधिष्ठिरः षॊडशाष्टौ चतुर्विंशत सहस्रं भारलक्षणम ॥ 17 ॥
एतेष्व आधाय तद दरव्यं पुनर अभ्यर्च्य पाण्डवः महादेवं रतिययौ पुरं नागाह्वयं परति ॥ 18 ॥
दवैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरॊहितम गॊयुते गॊयुते चैव नयवसत पुरुषर्षभः ॥ 19 ॥
सा पुराभिमुखी राजञ जगाम महती चमूः कृच्छ्राद दरविण भारार्ता हर्षयन्ती कुरूद्वहान ॥ 20 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 64
Reach this point to mark the section finished.
Continue to अध्याय 65