[व] कथयन्न एव तु तदा वासुदेवः परतापवान महाभारत युद्धं तत कथान्ते पितुर अग्रतः ॥ 1 ॥
अभिमन्यॊर वधं वीरः सॊ ऽतयक्रामत भारत अप्रियं वसुदेवस्य मा भूद इति महामनाः ॥ 2 ॥
मा दौहित्र वधं शरुत्वा वसुदेवॊ महात्ययम दुःखशॊकाभिसंतप्तॊ भवेद इति महामतिः ॥ 3 ॥
सुभद्रा तु तम उत्क्रान्तम आत्मजस्य वधं रणे आचक्ष्व कृष्ण सौभद्रवधम इत्य अपतद भुवि ॥ 4 ॥
ताम अपश्यन निपतितां वसुदेवः कषितौ तदा दृष्ट्वैव च पपातॊर्व्यां सॊ ऽपि दुःखेन मूर्छितः ॥ 5 ॥
ततः स दौहित्र वधाद दुःखशॊकसमन्वितः वसुदेवॊ महाराज कृष्णं वाक्यम अथाब्रवीत ॥ 6 ॥
ननु तवं पुण्डरीकाक्ष सत्यवाग भुवि विश्रुतः यद दौहित्र वधं मे ऽदय न खयापयसि शत्रुहन ॥ 7 ॥
तद भागिनेय निधनं तत्त्वेनाचक्ष्व मे विभॊ सदृशाक्षस तव कथं शत्रुभिर निहतॊ रणे ॥ 8 ॥
दुर्मरं बत वार्ष्णेय काले ऽपराप्ते नृभिः सदा यत्र मे दृदयं दुःखाच छतधा न विदीर्यते ॥ 9 ॥
किम अब्रवीत तवा संग्रामे सुभद्रां मातरं परति मां चापि पुण्डरीकाक्ष चपलाक्षः परियॊ मम ॥ 10 ॥
आहवं पृष्ठतः कृत्वा कच चिन न निहतः परैः कच चिन मुखं न गॊविन्द तेनाजौ विकृतं कृतम ॥ 11 ॥
स हि कृष्ण महातेजाः शलाघन्न इव ममाग्रतः बालभावेन विजयम आत्मनॊ ऽकथयत परभुः ॥ 12 ॥
कच चिन न विकृतॊ बालॊ दरॊणकर्णकृपादिभिः धरण्यां निहतः शेते तन ममाचक्ष्व केशव ॥ 13 ॥
स हि दरॊणं च भीष्मं च कर्णं च रथिनां वरम सपर्धते सम रणे नित्यं दुहितुः पुत्रकॊ मम ॥ 14 ॥
एवंविधं बहु तदा विलपन्तं सुदुःखितम पितरं दुःखिततरॊ गॊविन्दॊ वाक्यम अब्रवीत ॥ 15 ॥
न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि न पृष्ठतः कृतश चापि संग्रामस तेन दुस्तरः ॥ 16 ॥
निहत्य पृथिवीपालान सहस्रशतसंघशः खेदितॊ दरॊणकर्णाभ्यां दौःशासनि वशंगतः ॥ 17 ॥
एकॊ हय एकेन सततं युध्यमानॊ यदि परभॊ न स शक्येत संग्रामे निहन्तुम अपि वज्रिणा ॥ 18 ॥
समाहूते तु संग्रामे पार्थे संशप्तकैस तदा पर्यवार्यत संक्रुद्धैः स दरॊणादिभिर आहवे ॥ 19 ॥
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः दौहित्रस तव वार्ष्णेय दौः शासनि वशंगतः ॥ 20 ॥
नूनं च स गतः सवर्गं जहि शॊकं महामते न हि वयसनम आसाद्य सीदन्ते सन नराः कव चित ॥ 21 ॥
दरॊणकर्णप्रभृतयॊ येन परतिसमासिताः रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद दिवम ॥ 22 ॥
स शॊकं जहि दुर्धर्षं मा च मन्युवशं गमः शस्त्रपूतां हि स गतिं गतः परपुरंजयः ॥ 23 ॥
तस्मिंस तु निहते वीरे सुभद्रेयं सवसा मम दुःखार्तार्थॊ पृथां पराप्य कुररीव ननाद ह ॥ 24 ॥
दरौपदीं च समासाद्य पर्यपृच्छत दुःखिता आर्ये कव दारकाः सर्वे दरष्टुम इच्छामि तान अहम ॥ 25 ॥
अस्यास तु वचनं शरुत्वा सर्वास ताः कुरु यॊषितः भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत ॥ 26 ॥
उत्तरां चाब्रवीद भद्रा भद्रे भर्ता कव ते गतः कषिप्रम आगमनं मह्यं तस्मै तवं वेदयस्व ह ॥ 27 ॥
ननु नाम स वैराटि शरुत्वा मम गिरं पुरा भवनान निष्पतत्य आशु कस्मान नाभ्येति ते पतिः ॥ 28 ॥
अभिमन्यॊ कुशलिनॊ मातुलास ते महारथाः कुशलं चाब्रुवन सर्वे तवां युयुत्सुम इहागतम ॥ 29 ॥
आचक्ष्व मे ऽदय संग्रामं यथापूर्वम अरिंदम कस्माद एव विपलतीं नाद्येह परतिभाषसे ॥ 30 ॥
एवमादि तु वार्ष्णेय्यास तद अस्याः परिदेवितम शरुत्वा पृथा सुदुःखार्ता शनैर वाक्यम अथाब्रवीत ॥ 31 ॥
सुभद्रे वासुदेवेन तथा सात्यकिना रणे पित्रा च पालितॊ बालः स हतः कालधर्मणा ॥ 32 ॥
ईदृशॊ मर्त्यधर्मॊ ऽयं मा शुचॊ यदुनन्दिनि पुत्रॊ हि तव दुर्धर्षः संप्राप्तः परमां गतिम ॥ 33 ॥
कुले महति जातासि कषत्रियाणां महात्मनाम मा शुचश चपलाक्षं तवं पुण्डरीकनिभेक्षणे ॥ 34 ॥
उत्तरां तवम अवेक्षस्व गर्भिणीं मा शुचः शुभे पुत्रम एषा हि तस्याशु जनयिष्यति भामिनी ॥ 35 ॥
एवम आश्वासयित्वैनां कुन्ती यदुकुलॊद्वह विहाय शॊकं दुर्धर्षं शराद्धम अस्य हय अकल्पयत ॥ 36 ॥
समनुज्ञाप्य धर्मज्ञा राजानं भीमम एव च यमौ यमॊपमौ चैव ददौ दानान्य अनेकशः ॥ 37 ॥
ततः परदाय बह्वीर गा बराह्मणेभ्यॊ यदूद्वह समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीद इदम ॥ 38 ॥
वैराटि नेह संतापस तवया कार्यॊ यशस्विनि भर्तारं परति सुश्रॊणिगर्भस्थं रक्ष मे शिशुम ॥ 39 ॥
एवम उक्त्वा ततः कुन्ती विरराम महाद्युते ताम अनुज्ञाप्य चैवेमां सुभद्रां समुपानयम ॥ 40 ॥
एवं स निधनं पराप्तॊ दौहित्रस तव माधव संतापं जहि दुर्धर्ष मा च शॊके मनः कृथाः ॥ 41 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 60
Reach this point to mark the section finished.
Continue to अध्याय 61