[वा] शरुतवान अस्मि वार्ष्णेय संग्रामं परमाद्भुतम नराणां वदतां पुत्र कथॊद्घातेषु नित्यशः ॥ 1 ॥
तवं तु परत्यक्षदर्शी च कार्यज्ञश च महाभुज तस्मात परब्रूहि संग्रामं याथातथ्येन मे ऽनघ ॥ 2 ॥
यथा तद अभवद युद्धं पाण्डवानां महात्मनाम भीष्म कर्ण कृप दरॊण शल्यादिभिर अनुत्तमम ॥ 3 ॥
अन्येषां कषत्रियाणां च कृतास्त्राणाम अनेकशः नानावेषाकृतिमतां नानादेशनिवासिनाम ॥ 4 ॥
इत्य उक्तः पुण्डरीकाक्षः पित्रा मातुस तदन्तिके शशंस कुरुवीराणां संग्रामे निधनं यथा ॥ 5 ॥
[वा] अत्यद्भुतानि कर्माणि कषत्रियाणां महात्मनाम बहुलत्वान न संख्यातुं शक्यान्य अब्द शतैर अपि ॥ 6 ॥
पराधान्यतस तु गदतः समासेनैव मे शृणु कर्माणि पृथिवीशानां यथावद अमर दयुते ॥ 7 ॥
भीष्मः सेनापतिर अभूद एकादश चमूपतिः कौरव्यः कौरवेयाणां देवानाम इव वासवः ॥ 8 ॥
शिखण्डी पाण्डुपुत्राणां नेता सप्त चमूपतिः बभूव रक्षितॊ धीमान धीमता सव्यसाचिना ॥ 9 ॥
तेषां तद अभवद युद्धं दशाहानि महात्मनाम कुरूणां पाण्डवानां च सुमहद रॊमहर्षणम ॥ 10 ॥
ततः शिखण्डी गाङ्गेयम अयुध्यन्तं महाहवे जघान बभुभिर बाणैः सह गाण्डीवधन्वना ॥ 11 ॥
अकरॊत स ततः कालं शरतल्पगतॊ मुनिः अयनं दक्षिणं हित्वा संप्राप्ते चॊत्तरायणे ॥ 12 ॥
ततः सेनापतिर अभूद दरॊणॊ ऽसत्रविदुषां वरः परवीरः कौरवेन्द्रस्य काव्यॊ दैत्य पतेर इव ॥ 13 ॥
अक्षौहिणीभिः शिष्टाभिर नवभिर दविजसत्तमः संवृतः समरश्लाघी गुप्तः कृप वृषादिभिः ॥ 14 ॥
धृष्टद्युम्नस तव अभून नेता पाण्डवानां महास्त्र वित गुप्तॊ भीमेन तेजस्वी मित्रेण वरुणॊ यथा ॥ 15 ॥
पञ्च सेना परिवृतॊ दरॊण परेप्सुर महामनाः पितुर निकारान संस्मृत्य रणे कर्माकरॊन महत ॥ 16 ॥
तस्मिंस ते पृथिवीपाला दरॊण पार्षत संगरे नाना दिग आगता वीराः परायशॊ निधनं गताः ॥ 17 ॥
दिनानि पञ्च तद युद्धम अभूत परमदारुणम ततॊ दरॊणः परिश्रान्तॊ धृष्टद्युम्न वशंगतः ॥ 18 ॥
ततः सेनापतिर अभूत कर्णॊ दौर्यॊधने बले अक्षौहिणीभिः शिष्टाभिर वृतः पञ्चभिर आहवे ॥ 19 ॥
तिस्रस तु पाण्डुपुत्राणां चम्वॊ बीभत्सु पालिताः हतप्रवीर भूयिष्ठा बभूवुः समवस्थिताः ॥ 20 ॥
ततः पार्थं समासाद्य पतंग इव पावकम पञ्चत्वम अगमत सौतिर दवितीये ऽहनि दारुणे ॥ 21 ॥
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः अक्षौहिणीभिस तिसृभिर मद्रेशं पर्यवारयन ॥ 22 ॥
हतवाहन भूयिष्ठाः पाण्डवास तु युधिष्ठिरम अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन ॥ 23 ॥
अवधीन मद्रराजानं कुरुराजॊ युधिष्ठिरः तस्मिंस तथार्ध दिवसे कर्मकृत्वा सुदुष्करम ॥ 24 ॥
हते शल्ये तु शकुनिं सहदेवॊ महामनाः आहर्तारं कलेस तस्य जघानामित विक्रमः ॥ 25 ॥
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः अपाक्रामद गदापाणिर हतभूयिष्ठ सैनिकः ॥ 26 ॥
तम अन्वधावत संक्रुद्धॊ भीमसेनः परतापवान हरदे दवैपायने चापि सलिलस्थं ददर्श तम ॥ 27 ॥
ततः शिष्टेन सैन्येन समन्तात परिवार्य तम उपॊपविविशुर हृष्टा हरदस्थं पञ्च पाण्डवाः ॥ 28 ॥
विगाह्य सलिलं तव आशु वाग बाणैर भृशविक्षतः उत्थाय सगदापाणिर युद्धाय समुपस्थितः ॥ 29 ॥
ततः स निहतॊ राजा धार्तराष्ट्रॊ महामृधे भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम ॥ 30 ॥
ततस तत पाण्डवं सैन्यं संसुप्तं शिबिरे निशि निहतं दरॊणपुत्रेण पितुर वधम अमृष्यता ॥ 31 ॥
हतपुत्रा हतबला हतमित्रा मया सह युयुधान दवितीयेन पञ्च शिष्टाः सम पाण्डवाः ॥ 32 ॥
सहैव कृप भॊजाभ्यां दरौणिर युद्धाद अमुच्यत युयुत्सुश चापि कौरव्यॊ मुक्तः पाण्डव संश्रयात ॥ 33 ॥
निहते कौरवेन्द्रे च सानुबन्धे सुयॊधने विदुरः संजयश चैव धर्मराजम उपस्थितौ ॥ 34 ॥
एवं तद अभवद युद्धम अहान्य अष्टादश परभॊ यत्र ते पृथिवीपाला निहताः सवर्गम आवसन ॥ 35 ॥
[व] शृण्वतां तु महाराज कथां तां रॊमहर्षणीम दुःखहर्षपरिक्लेशा वृष्णीनाम अभवंस तदा ॥ 36 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 59
Reach this point to mark the section finished.
Continue to अध्याय 60