धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 61

  1. [व] एतच छरुत्वा तु पुत्रस्य वचः शूरात्मजस तदा विहाय शॊकं धर्मात्मा ददौ शराद्धम अनुत्तमम ॥ 1 ॥

  2. तथैव वासुदेवॊ ऽपि सवस्रीयस्य महात्मनः दयितस्य पितुर नित्यम अकरॊद और्ध्व देहिकम ॥ 2 ॥

  3. षष्टिं शतसहस्राणि बराह्मणानां महाभुजः विधिवद भॊजयाम आस भॊज्यं सर्वगुणान्वितम ॥ 3 ॥

  4. आच्छाद्य च महाबाहुर धनतृष्ण्डाम अपानुदत बराह्मणानां तदा कृष्णस तद अभूद रॊमहर्षणम ॥ 4 ॥

  5. सुवर्णं चैव गाश चैव शयनाच्छादनं तथा दीयमानं तदा विप्राः परभूतम इति चाब्रुवन ॥ 5 ॥

  6. वासुदेवॊ ऽथ दाशार्हॊ बलदेवः स सात्यकिः अभिमन्यॊस तदा शराद्धम अकुर्वन सत्यकस तदा अतीव दुःखसंतप्ता न शमं चॊपलेभिरे ॥ 6 ॥

  7. तथैव पाण्डवा वीरा नगरे नागसाह्वये नॊपगच्छन्ति वै शान्तिम अभिमन्युविनाकृताः ॥ 7 ॥

  8. सुबहूनि च राजेन्द्र दिवसानि विराटजा नाभुङ्क्त पतिशॊकार्ता तद अभूत करुणं महत कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत ॥ 8 ॥

  9. आजगाम ततॊ वयासॊ जञात्वा दिव्येन चक्षुषा आगम्य चाब्रवीद धीमान पृथां पृथुल लॊचनाम उत्तरां चमहा तेजाः शॊकः संत्यज्यताम अयम ॥ 9 ॥

  10. जनिष्यति महातेजाः पुत्रस तव यशस्विनि परभावाद वासुदेवस्य मम वयाहरणाद अपि पाण्डवानाम अयं चान्ते पालयिष्यति मेदिनीम ॥ 10 ॥

  11. धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः वयासॊ वाक्यम उवाचेदं हर्षयन्न इव भारत ॥ 11 ॥

  12. पौत्रस तव महाबाहॊ जनिष्यति महामनाः पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह ॥ 12 ॥

  13. तस्माच छॊकं कुरुश्रेष्ठ जहि तवम अरिकर्शन विचार्यम अत्र न हि ते सत्यम एतद भविष्यति ॥ 13 ॥

  14. यच चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन पुरॊक्तं तत तथा भावि मा ते ऽतरास्तु विचारणा ॥ 14 ॥

  15. विबुधानां गतॊ लॊकान अक्षयान आत्मनिर्जितान न स शॊच्यस तवया तात न चान्यैः कुरुभिस तथा ॥ 15 ॥

  16. एवं पितामहेनॊक्तॊ धर्मात्मा सधनंजयः तयक्त्वा शॊकं महाराज हृष्टरूपॊ ऽभवत तदा ॥ 16 ॥

  17. पितापि तव धर्मज्ञ गर्भे तस्मिन महामते अवर्धत यथाकालं शुक्लपक्षे यथा शशी ॥ 17 ॥

  18. ततः संचॊदयाम आस वयासॊ धर्मात्मजं नृपम अश्वमेधं परति तदा ततः सॊ ऽनतर्हितॊ ऽभवत ॥ 18 ॥

  19. धर्मराजॊ ऽपि मेधावी शरुत्वा वयासस्य तद वचः वित्तॊपनयने तात चकार गमने मतिम ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 62

Previous: अध्याय 60