धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 5

  1. [य] कथंवीर्यः समभवत स राजा वदतां वरः कथं च जातरूपेण समयुज्यत स दविज ॥ 1 ॥

  2. कव च तत सांप्रतं दरव्यं भगवन्न अवतिष्ठते कथं च शक्यम अस्माभिस तद अवाप्तुं तपॊधन ॥ 2 ॥

  3. [व] असुराश चैव देवाश च दक्षस्यासन परजापतेः अपत्यं बहुलं तात ते ऽसपर्धन्त परस्परम ॥ 3 ॥

  4. तथैवाङ्गिरसः पुत्रौ वरततुल्यौ बभूवतुः बृहस्पतिर बृहत तेजाः संवर्तश च तपॊधनः ॥ 4 ॥

  5. ताव अपि सपर्धिनौ राजन पृथग आस्तां परस्परम बृहस्पतिश च संवर्तं बाधते सम पुनः पुनः ॥ 5 ॥

  6. स बाध्यमानः सततं भरात्रा जयेष्ठेन भारत अर्थान उत्सृज्य दिग्वासा वनवासम अरॊचयत ॥ 6 ॥

  7. वासवॊ ऽपय असुरान सर्वान निर्जित्य च निहत्य च इन्द्रत्वं पराप्य लॊकेषु ततॊ वव्रे पुरॊहितम पुत्रम अङ्गिरसॊ जयेष्ठं विप्र शरेष्ठं बृहस्पतिम ॥ 7 ॥

  8. याज्यस तव अङ्गिरसः पूर्वम आसीद राजा करंधमः वीर्येणाप्रतिमॊ लॊके वृत्तेन च बलेन च शतक्रतुर इवौजस्वी धर्मात्मा संशितव्रतः ॥ 8 ॥

  9. वाहनं यस्य यॊधाश च दरव्याणि विविधानि च धयानाद एवाभवद राजन मुखवातेन सर्वशः ॥ 9 ॥

  10. स गुणैः पार्थिवान सर्वान वशे चक्रे नराधिपः संजीव्य कालमिष्टं च स शरीरॊ दिवं गतः ॥ 10 ॥

  11. बभूव तस्य पुत्रस तु ययातिर इव धर्मवित अविक्षिन नाम शत्रुक्षित स वशे कृतवान महीम विक्रमेण गुणैश चैव पितेवासीत स पार्थिवः ॥ 11 ॥

  12. तस्य वासवतुल्यॊ ऽभून मरुत्तॊ नाम वीर्यवान पुत्रस तम अनुरक्ताभूत पृथिवी सागराम्बरा ॥ 12 ॥

  13. सपर्धते सततं स सम देवराजेन पार्थिवः वासवॊ ऽपि मरुत्तेन सपर्धते पाण्डुनन्दन ॥ 13 ॥

  14. शुचिः स गुणवान आसीन मरुत्तः पृथिवीपतिः यतमानॊ ऽपि यं शक्रॊ न विशेषयति सम ह ॥ 14 ॥

  15. सॊ ऽशक्नुवन विशेषाय समाहूय बृहस्पतिम उवाचेदं वचॊ देवैः सहितॊ हरिवाहनः ॥ 15 ॥

  16. बृहस्पते मरुत्तस्य मा सम कार्षीः कथं चन दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत परियम ॥ 16 ॥

  17. अहं हि तरिषु लॊकेषु सुराणां च बृहस्पते इन्द्रत्वं पराप्तवान एकॊ मरुत्तस तु महीपतिः ॥ 17 ॥

  18. कथं हय अमर्त्यं बरह्मस तवं याजयित्वा सुराधिपम याजयेर्मृत्यु संयुक्तं मरुत्तम अविशङ्कया ॥ 18 ॥

  19. मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम परिज्यज्य मरुत्तं वा यथाजॊषं भजस्व माम ॥ 19 ॥

  20. एवम उक्तः स कौरव्य देवराज्ञा बृहस्पतिः मुहूर्तम इव संचिन्त्य देवराजानम अब्रवीत ॥ 20 ॥

  21. तवं भूतानाम अधिपतिस तवयि लॊकाः परतिष्ठिताः नमुचेर विश्वरूपस्य निहन्ता तवं बलस्य च ॥ 21 ॥

  22. तवम आजहर्थ देवानाम एकॊ वीरश्रियं पराम तवं बिभर्षि भुवं दयां च सदैव बलसूदन ॥ 22 ॥

  23. पौरॊहित्यं कथं कृत्वा तव देवगणेश्वर याजयेयम अहं मर्त्यं मरुत्तं पाकशासन ॥ 23 ॥

  24. समाश्वसिहि देवेश नाहं मर्त्याय कर्हि चित गरहीष्यामि सरुवं यज्ञे शृणु चेदं वचॊ मम ॥ 24 ॥

  25. हिरण्यरेतसॊ ऽमभः सयात परिवर्तेत मेदिनी भासं च न रविः कुर्यान मत्सत्यं विचलेद यदि ॥ 25 ॥

  26. बृहस्पतिवचः शरुत्वा शक्रॊ विगतमत्सरः परशस्यैनं विवेशाथ सवम एव भवनं तदा ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 6

Previous: अध्याय 4