धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 58

  1. [ज] उत्तङ्काय वरं दत्त्वा गॊविन्दॊ दविजसत्तम अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥ 1 ॥

  2. [व] दत्त्वा वरम उत्तङ्काय परायात सात्यकिना सह दवारकाम एव गॊविन्दः शीघ्रवेगैर महाहयैः ॥ 2 ॥

  3. सरांसि च नदीश चैव वनानि विविधानि च अतिक्रम्य ससादाथ रम्यां दवारवतीं पुरीम ॥ 3 ॥

  4. वर्तमाने महाराज महे रैवतकस्य च उपायात पुण्डरीकाक्षॊ युयुधानानुगस तदा ॥ 4 ॥

  5. अलंकृतस तु स गिरिर नानारूपविचित्रितैः बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ ॥ 5 ॥

  6. काञ्चनस्रग्भिर अग्र्याभिः सुमनॊभिस तथैव च वासॊ भिश च महाशैलः कल्पवृक्षैश च सर्वशः ॥ 6 ॥

  7. दीपवृक्षैश च सौवर्णैर अभीक्ष्णम उपशॊभितः गुहा निर्ज्झर देशेषु दिवा भूतॊ बभूव ह ॥ 7 ॥

  8. पताकाभिर विचित्राभिः स घण्टाभिः समन्ततः पुम्भिः सत्रीभिश च संघुष्टः परगीत इव चाभवत अतीव परेक्षणीयॊ ऽभून मेरुर मुनिगणैर इव ॥ 8 ॥

  9. मत्तानां हृष्टरूपाणां सत्रीणां पुंसां च भारत गायतां पर्वतेन्द्रस्य दिवस्पृग इव निस्वनः ॥ 9 ॥

  10. परमत्तमत्तसंमत्त कष्वेडितॊत्कृष्ट संकुला तथा किल किला शब्दैर भूर अभूत सुमनॊहरा ॥ 10 ॥

  11. विपणापणवान रम्यॊ भक्ष्यभॊज्य विहारवान वस्त्रमाल्यॊत्कर युतॊ वीणा वेणुमृदङ्गवान ॥ 11 ॥

  12. सुरामैरेय मिश्रेण भक्ष्यभॊज्येन चैव ह दीनान्ध कृपणादिभ्यॊ दीयमानेन चानिशम बभौ परमकल्याणॊ महस तस्य महागिरेः ॥ 12 ॥

  13. पुण्यावसथवान वीर पुण्यकृद्भिर निषेवितः विहारॊ वृष्णिवीराणां महे रैवतकस्य ह स नगॊ वेश्म संकीर्णॊ देवलॊक इवाबभौ ॥ 13 ॥

  14. तदा च कृष्ण सांनिध्यम आसाद्य भरतर्षभ शक्र सद्म परतीकाशॊ बभूव स हि शैलराट ॥ 14 ॥

  15. ततः संपूज्यमानः स विवेश भवनं शुभम गॊविन्दः सात्यकिश चैव जगाम भवनं सवकम ॥ 15 ॥

  16. विवेश च स हृष्टात्मा चिरकालप्रवासकः कृत्वा न सुकरं कर्म दानवेष्व इव वासवः ॥ 16 ॥

  17. उपयातं तु वार्ष्णेयं भॊजवृष्ण्यन्धकास तदा अभ्यगच्छन महात्मानं देवा इव शतक्रतुम ॥ 17 ॥

  18. स तान अभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा अभ्यवादयत परीतः पितरं मातरं तथा ॥ 18 ॥

  19. ताभ्यां च संपरिष्वक्तः सान्त्वितश च महाभुजः उपॊपविष्टस तैः सर्वैर वृष्णिभिः परिवारितः ॥ 19 ॥

  20. स विश्रान्तॊ महातेजाः कृतपादावसेचनः कथयाम आस तं कृष्णः पृष्टः पित्रा महाहवम ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 59

Previous: अध्याय 57